________________
काव्यमाला।
भ्रमरस्येयं दृढस्नेहता, तव तु का नाम चिरस्नेहताप्रत्याशा, इदानीमेवाहं छलितेति सरोष उपालम्भो व्यज्यते ॥ कस्याश्चित्पतिव्रताया धनाद्यसाध्यता सूचयितुं दूती कंचित्कामुकमेवमाह
अहिआअमाणिणो दुग्गअस्स छाहिं पअस्स रक्खन्ती । णिअबन्धवाण जूरइ घरिणी विहवेण एत्ताणम् ॥ ३८ ॥ [आभिजात्यमानिनो दुर्गतस्य छायां पत्यू रक्षन्ती ।
निजबान्धवेभ्यः क्रुध्यति गृहिणी विभवेनागच्छन्द्यः ॥ ] छायां सुदुर्गतस्य हि रक्षन्त्यभिजातमानिनः पत्युः। विभवेनागच्छद्भ्यः क्रुध्यति गृहिणी स्वबान्धवेभ्योऽपि ॥ ३८॥ दरिद्रस्य अथ कोलीन्यमानवतः पत्युश्छायां महत्त्वं रक्षन्ती । विभवेन धनसमृद्ध्या सहाऽऽगच्छद्भ्यः । बान्धवानां धनसमृद्धिमालोक्य पत्युर्मनोग्लानिर्भवेदित्याशयेन । एवं च पतिचित्तानुवृत्त्यर्थ बन्धुजनस्याप्युपहारं न बहु मन्यते, किं पुनः कामिजनस्येति न धनादिना सा साध्येति कामुकं प्रत्यभिव्यज्यते ॥ काञ्चित्पतिव्रतां कामयमानं विटं प्रति दूती तस्याः खभावमाह
साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा । दुग्गअपउत्थवइअं सअज्झि सण्ठवन्तीए ॥ ३९ ॥ [स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा ।
दुर्गतप्रोषितपतिका प्रतिवेशिनी संस्थापयन्त्या ॥] स्वाधीनेपि प्रेयसि लब्धेऽवसरेपि मण्डितो नात्मा।
प्रतिवेशिनीं दरिद्रप्रोषितपतिकां हि दृढयन्त्या ॥३९॥ स्वाभीष्टप्रियतमतया मनोभीष्टमण्डनसमृद्धिरभिव्यज्यते । मदनमहोत्सवादाववसरे प्राप्तेऽपि, तथा च शालीनतया वेषभूषणासत्यभावेऽपि सौभाग्यादिनिमित्तं धारणाहताऽभिव्यज्यते । दरिद्रश्च प्रवासं गतश्च पतिर्यस्यास्तां प्रतिवेशिनी स्वचारित्र्ये दृढीकुर्वन्त्या आत्मा नालङ्कतः । कृतमण्डनां मामवलोक्य व्याकुला सेयं खण्डितचरित्रा स्यादिति शङ्कया या नात्मानमपि मण्डयति तस्याः वचरित्रखण्डनकल्पना दूर इति तात्पर्यम् । अथवा प्रतिवेशिनीस्थापनार्थमनया मण्डनं न कृतम् , न तु कामुकान्तरविरहदुःखेनेति स्वसखीदोषप्रच्छादनार्थ सख्या वचनमिति गङ्गाधरभट्टः । प्रवासे स्त्रियो नात्मानं भूषयन्ति, अतएव 'प्रस्मरती'त्यादाविव निषेधार्थकप्रपूर्वोऽसौ 'वस अच्छादने' धातुः । न वस्त्रभूषादिकं यत्र स्त्रीभिः क्रियत इति स. कण्ठाभरणे भोजः ॥ दूती नायकमनुकूलयितुं नायिकानुरागं वर्णयति
तुज्झ वसइत्ति हिअअं इमेहिं दिवो तुमंति अच्छीहि । तुह विरहे किसिआई ति तीऍ अङ्गाइँ वि पिआई॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org