________________
१ शतकम् ] संस्कृतगाथासप्तशती। येऽपि रामे सभार्येऽनुलग्नानि लक्ष्मणचरित्राणि समुदीर्य अशुद्धमना देवरोपि प्रत्याख्यायते, किमुताऽन्यः । सोप्येवम् , न तु प्रकटम् , सर्वत्र कलङ्कसंकीर्तनभयादिति भावः ॥ ___ 'सतीत्वखण्डनकारणेष्वपि दृढचित्तानां न विनाशो भवति'इत्युक्त्या खदोषं प्रच्छादयन्ती काचिदाह
चत्तरघरिणी पिअदंसणा अ तरुणी पउत्थपइआ अ । असईसपजिआ दुग्गआ अ ण हु खण्डिअं सीलम् ॥ ३६॥ [चत्वरगृहिणी प्रियदर्शना च तरुणी प्रोषितपतिका च ।
असतीप्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥] चत्वरगृहिणी तरुणी प्रोषितपतिका च मञ्जमूर्तिश्च ।
असतीप्रतिवेशिन्यथ सुदुर्गता न खलु खण्डितं शीलम् ॥ ३६॥ चत्वरे (चतुष्पथे ) गृहं यस्याः, वास्तवे तु चत्वरे प्राङ्गणसदृशे शून्यप्रान्तरे गृहं यस्याः, तत्र विविक्ततया विटानां यातायातसंभवात् । 'चत्वरे राजमार्गे गृहं यस्याः' इति गङ्गाधरभट्टः । मञ्जुमूर्तिः प्रियदर्शना, सुन्दरीत्यर्थः । असत्याः कुलटायाः प्रतिवेशिनी । सुदुर्गता भूरिदरिद्रा । तथापि शीलं पालिव्रत्यं न खण्डितम् । अत्र चत्वरगृहिणीत्वादेः शीलखण्डनकारणस्य सत्त्वेपि तदभावाद्विशेषोक्तिः । 'विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे' इति लक्षणात् । अनया च 'कलङ्ककारणाभिशङ्कया जनैर्मुधाहं निन्दिता, न मे चरित्रदोषः' इति निजदोषगोपनं व्यङ्ग्यम् । वस्तुतस्तु सेयं पतिव्रतायाः कस्याश्चिच्छीलप्रशंसा । भोजोपि स० कण्ठाभरणे शीलसम्पदुदाहरणे इमामुदाजहार (५ परि०)।
नदीतटकदम्बनिकुञ्जकृतसंकेतेन कान्तेन विप्रलब्धा नायिका 'अहं तत्र गता, त्वं तु नागतः' इति तं सूचयन्ती सखीजनमन्यापदेशेनाह
तालूरभमाउलखुडिअकेसरो गिरिणईएँ पूरेण । दरबुड्डउवुड्डणिबुड्डमहुअरो हीरइ कलम्बो ॥ ३७॥ [जलावर्तभ्रमाकुलखण्डितकेसरो गिरिनद्याः पूरेण ।
दरमग्नोन्ममनिमममधुकरो ह्रियते कदम्बः ॥] आवतोकुलखण्डितकेसरभारो भरेण गिरिनद्याः। ह्रियते कदम्बशाखी दरमग्नोन्मग्नमग्नमधुपोऽयम् ॥ ३७॥ तालरो जलावर्त इति देशी । 'आवर्तानां जलभ्रमाणां भ्रमणेनाकुलः' इति पुनरुक्तमिवेति संस्कृतच्छायायामावतैः आकुलः इत्येव निबद्धम् । अतएव खण्डितः केसरभारः परागकोशसमूहो यस्य सः। तथापि दरमग्नोन्मममममधुपः ईषन्मनः, कदाचिदुपरिप्रवाहिततया उन्मनः, कदाचिच्च जलवेगेन मनो मधुपो यस्मिन् । मधुपानलोभिनोपि गलितमरन्दे प्रीतिरिति मधुपपदेनाभिव्यज्यते । तादृशोयं कदम्बवृक्षो गिरिनद्याः भरेण पूरेण ह्रियते । एवं च भनकेसरतया गलितमकरन्देपि कदम्बे सततमधुपानलोभिनोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org