________________
काव्यमाला।
[असदृशचित्ते देवरे शुद्धमनाः प्रियतमे विषमशीले।
न कथयति कुटुम्बविघटनभयेन तनुकायते स्नुषा ॥] प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृशचित्ते ।
न वदति कुटुम्बविघटनभयेन तनुकायते स्नुषा किन्तु ॥ ५९ ॥ देवरे असशचित्ते कामविकारदूषितचित्ते सत्यपि शुद्धमनाः अविकृतचित्ता स्नुषा पुत्रवधूः वामखभावे प्रियतमे कुटुम्बकलहभयेन न किञ्चिद्वदति । विषमखभावः पतिः कदाचिद् भ्रात्रा कलहायमानः कुटुम्बं विशृङ्खलयेदिति भावः। किन्तु मानसिकदुःखगोपनेन प्रत्यहं कृशा भवति। अप्रियस्यापि यस्य प्रकाशनेऽनिष्टं सम्पद्यते तद् गोप्यमेवेति भावः । 'स्नुषा' पदेन श्वश्रूश्वशुरयोः सत्तासूचनात् कुटुम्बस्य वृद्धजनाधिष्ठितत्वं विस्तृतत्वं च ध्वन्यते । कलहान्तरितायाः सखी प्रियतमेन 'किमवस्था संप्रति भवत्सखी' इति पृष्टा आह
चिन्ताणिअदइअसमागमम्मि कअमण्णुआइँ भरिऊण । सुण्णं कलहाअन्ती सहीहिँ रुण्णा ण ओहसिआ ॥ ६०॥ [चित्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा ।
शून्यं कलहायमाना सखीभी रुदिता नोपहसिता ॥] चिन्ताऽऽनीतप्रियतमसमागमे विहितमन्युकानि संस्मृत्य ।
शून्यं कलहाऽऽकुलिता रुदिताऽऽलीमिर्न चोपहसिता सा ॥६०॥ ध्यानोपस्थापितस्य दयितस्य (भवतः) समागमे, विहितो मन्युः क्रोधो यैस्तानि विहितमन्युकानि, क्रोधकारणानि सपत्नीसमागमादीन् संस्मृत्य । एतेन भवदपराधास्तथाऽस्या हृदये व्यथयन्ति यथैषा समयान्तरेऽपि न तान्विस्मरति' इति ध्वनितम् । शून्यं मुधैव कलहायमाना साऽस्मत्सखी, सखीभिः रुदिता रोदनेन शोचिता। एवमुपहासस्थलेपि करुणावशान्नोपहसिता । रुदितेत्यत्र कार्यस्य रोदनस्य कारणभूते शोके लक्षणया शोचितेत्यर्थः कार्यः, गैर्वाण्यां 'रुद' धातोरकर्मकतया यथास्थितस्याऽसंगतेः । प्राकृते तु हिन्दीभाषावद् रुदधातोः सकर्मकतया न दोषः। एवं च कृतकलहापि सा निरन्तरं भवन्तमेवाऽनुध्यायन्ती तन्मयतया तथा विचेष्टते यथा सर्वेषामप्यसौ शोचनीया जाता। ततश्च त्वद्गतप्राणामिमां किं मुधा व्यथयसि, अचिरमनुनयस्व, कृतमेभिः प्रश्नरिति ध्वन्यते । अत्र चिन्तया मूलभूता रतिः प्रकृष्यते इति स. कण्ठाभरणे भोजः (परि. ५)।
प्रच्छन्नरताभिलाषिणं नागरिकं प्रति कुलजत्वेन प्रच्छन्नमेव समागमं कामयमानाऽभिसारिका सवैदग्ध्यमाह
हिअअण्णएहिँ समअं असमत्ताई पि जह सुहावन्ति । कजाइँ मणे ण तहा इअरेहिँ समाविआई पि ॥ ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org