________________
अल्पबहुत्वघटना] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम्
[ २५ हेतुर्बोद्धव्यः । इत्थमेव त्रीन्द्रियायसंक्षिपर्यन्तानां पर्याप्तादिसत्कजघन्यादिस्थितिबन्धानां निरुक्तकमेण विशेषाधिक्ये विभावनीयम् । नन्वेकेन्द्रियोत्कृष्टस्थितिबन्धापेक्षया यथा द्वीन्द्रियपर्याप्तस्य जघन्यस्थितिबन्धः संख्येयगुण उक्तस्तथा द्वीन्द्रियोत्कृष्टस्थितिबन्धापेक्षया पयोप्ततीन्द्रियस्य जघन्यः स्थितिबन्धः, एवं त्रीन्द्रियोत्कृष्टस्थितिवन्धापेनया चतुरिन्द्रियापर्याप्तस्य जघन्यस्थितिबन्धश्च संख्येयगुणो कथं नोक्तः ? उच्यते, यथैकेन्द्रियाणां स्थितिबन्धापेक्षया द्वीन्द्रियाणां स्थितिबन्धः सामान्यतः पञ्चविंशतिगुणो भवति, तथा त्रीन्द्रियाणां पञ्चाशद्गुणो भवति, चतुरिन्द्रियाणां तु शतगुणः, तथा च सत्यसावेकेन्द्रियस्थितिबन्धापेक्षया पञ्चाशद्गुणोऽपि त्रीन्द्रियाणां स्थितिबन्धो द्वीन्द्रियस्थितिबन्धापेक्षया द्विगुण एव भवति, तत्रापि द्वीन्द्रियोत्कृष्टस्थितिबन्धापेक्षया त्वसौ पर्याप्तत्रीन्द्रियाणां जघन्यस्थितिबन्धो द्विगुणोऽपि न भवति, तस्माद्विशेषाधिक उक्तः । इत्थमेवैकेन्द्रियस्थितिबन्धापेक्षया शतगुणोऽपि चतुरिन्द्रियाणां स्थितिबन्धस्त्रीन्द्रियस्थितिबन्धापेक्षया द्विगुण एव, तत्रापि त्रीन्द्रियोत्कृष्टस्थितिबन्धापेक्षया चतुरिन्द्रियपर्याप्तस्य जघन्यस्थितिवन्धस्तु द्विगुणादपि हीनः, अतोऽसौ विशेषाधिक उक्तः । यः पुनरसंज्ञिपञ्चेन्द्रियाणां स्थितिबन्धः स त्वेकेन्द्रियस्थितिबन्धापेक्षया सहस्रगुणः, तथा च सत्यसौ चतुरिन्द्रियस्य स्थितिबन्धापेक्षया दशगुणः, अतोऽसौ जघन्यतः पल्योपमसंख्येयभागेन न्यूनोऽपि सन् चतुरिन्द्रियस्योत्कृष्टस्थितिबन्धापेक्षया संख्येयगुण एव जायते, अत एव पर्याप्तस्यासंज्ञिनो जघन्यः स्थितिबन्धश्चतुरिन्द्रियस्योत्कृष्टस्थितिबन्धापेक्षया विशेषाधिको न उक्तः, किंतु संख्येयगुण उक्तः। शेषेषसंज्ञिसत्कत्रिस्थानेषु पूर्वोक्तहेतुना विशेषाधिक इति प्रागेवाभिहितम् । असंज्यपेक्षया संज्ञिनां श्रेणिगतबन्धवर्जशेषस्थितिबन्धः संख्येयगुण एव भवति, तत्रापि संयतस्योत्कृष्टस्थितिबन्धोऽसंज्ञिपर्याप्तस्योत्कृष्टस्थितिबन्धापेक्षया संख्येयगुणोऽपि सन् शेषसंश्यपेक्षया संख्यातभागप्रमाण एव जायते, तस्मादसो प्रागुपात्तः । ननु शेषसंझ्यपेक्षया कस्मादसौ संयतस्याल्पो भवति ? उच्यते,संयतस्यानन्तानुबन्धिनामिवाप्रत्याख्यानावरण-प्रत्याख्यानावरणकषायाणामप्यनुदयात् शेषदेशविरताद्यपेक्षया मन्दः संक्लेशः, तथा च सति स्थितिबन्धोऽप्यल्प इति । सर्वविरत्यभिमुखानामपि देशविरतानां प्रत्याख्यानावरणकषायाणामप्युदयात् मिथ्यात्वाभिमुखसर्वविरत्यपेक्षया विशुद्धिरल्पा, तथा च सति तेषां स्थितिबन्धः संयतोत्कृष्टस्थितिबन्धापेक्षया संख्येयगुणो भवति, मिथ्यात्वाभिमुखानां देशविरतानां तु संक्लिष्टत्वात् स्वीयजघन्यस्थितिबन्धापेक्षयाऽपि संख्येयगुणः स्थितिबन्धो जायते, तस्मात् तेषु त्रियु स्थानेष्वपि यथोत्तरं संख्येयगुण उक्तः । ननु सर्वविरत्यभिमुखो विशुद्धयमानः, मिथ्यात्वाभिमुखस्तु संक्लिश्यमानः, यद्येवं तर्हि कथमनयोर्विशुद्धिसंक्लेशयोस्तारतम्यं हेतुतया चिन्त्यते. यतः स्वस्थानेष्वेव संक्लेशेन सह संक्लेशस्य, विशुद्धया समं विशुद्धेर्वा हीनाधिक्यचिन्तासम्भवः; न तु परस्परविरुद्धयोः संक्लेश-विशुद्धयोरिति । अत्र प्रतिविधीयते-अभिप्रायापरिज्ञानात् , यदस्माभिः प्रागुक्तमेव यानि संक्लेशस्थानानि तान्येव विशुद्धिस्थानानि इत्यादिः व्यपदेशभेदस्त्वनन्तरप्राप्यावस्थाविशेषमधिकृत्य, यतस्तान्यारोहत्परिणामस्य विशुद्धय इति व्यपदेशभाञ्जि, पतत्परिणामस्य तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org