________________
२४ ]
बंधविहाणे मूलपयडिठिइबंधो [जघन्योत्कृष्टस्थितिबन्धाल्पबहु० कपायोदयस्य तीव्रतायां मन्दतायां च पर्याप्तत्वाद्यवस्थाविशेषाः सहकारिणो भवन्ति, तथा च सति यादृश्यौ कषायोदयस्य तीव्रतामन्दते बादरस्य सम्भवतस्तादृश्यो तीव्रतामन्दते सूक्ष्मस्य न सम्भवतः । कुतः ? तथाविधतीत्रमन्दकषायोदपसहकारिणो विरहात् , एवं यादृश्यौ कषायोदयस्य तीव्रतामन्दते पर्याप्तस्य सम्पद्यते तादृश्यौ तीव्रतामन्दतेऽपर्याप्तम्य न सम्पर्धते. एवमेव यादृश्यौ तीव्रतामन्दते द्वीन्द्रियादीनां सम्भवतस्तादृश्यो नैकेन्द्रियस्य, इत्थमेवासंयादिष्वपि प्रतिपक्षभेदमादाय द्रष्टव्यम् । एतेन कारणेन पर्याप्तबादरायकेन्द्रियाणां जघन्यादिस्थितिबन्ध उत्त क्रमेणाधिकाधिकतरो लभ्यते, स चोत्तरतरस्थानेषु पल्योपमासंख्येयभागेनाभ्यधिकोऽभ्यधिक इति कृत्वा तथैवोक्त इति । एकेन्द्रियस्योत्कृष्टस्थितिबन्धापेक्षया द्वीन्द्रियस्योत्कृष्टः स्थितिवन्धः पञ्चविंशतिगुणो जायते । वक्ष्यते च
“मोहगुरुदिइभत्तो सत्तरह ओहजेठिइबंधो । सो जेठो सव्वेसु गिदियपंचकायभेगसु ।।४२।। स यो पणवीसाप पण्णासाए सयेण सहसेण ।
सत्तण्ह गुरू कमसो समत्थविगलेसु अमणम्मि ॥४३" ॥ इत्यादि ।। स च द्वीन्द्रियस्योत्कृष्टस्थितिबन्धः पत्न्योपमस्य संख्येयभागेन न्यूनः सन् द्वीन्द्रियस्य जघन्यस्थितिबन्धो भवति, तस्य च बन्धकाः प्रागुक्तनीत्या पर्याप्तहीन्द्रियाः, न पुनरपर्याप्तद्वीन्द्रियाः, अपर्याप्तद्वीन्द्रियाणां तथाविधसामग्रयभावेन पर्याप्तद्वीन्द्रियाणामित्र रतोकस्थितिबन्धहेतुभूतविशुद्धरसम्भवात , अत एव पर्याप्तवादरैकेन्द्रियोत्कृष्टस्थितिबन्धापेक्षया पर्याप्तद्वीन्द्रियस्य जघन्यस्थितिवन्धः संख्येयगुण उक्तः।
ननु मा भवत्वपर्याप्तद्वीन्द्रियाणां पर्याप्तहीन्द्रियापेक्षया स्तोकः स्थितिबन्धः, तथाविधसामग्रयभावात् , किन्त्वपर्यास्तकेन्द्रियापेक्षया त्वमीपामपर्याप्तद्वीन्द्रियाणां विशिष्टा सामग्री विद्यते, ततश्चतेषामेकेन्द्रियापेक्षया मन्दकपायोदयोऽपि सम्भवति, इत्थं चापर्याप्तद्वीन्द्रियाणामपर्याप्तैकेन्द्रियापेक्षया स्थितिबन्धः स्तोको भवेत् , ततोऽपि त्रीन्द्रियादीनां मन्द-मन्दतरकपायोदयप्रयोजकसामग्रीसद्भावात् स्तोकस्तोकतरस्थितिबन्धो लभ्येत, तत् कुत एकेन्द्रियापेक्षया द्वीन्द्रियाणां ततोऽपि त्रीन्द्रियाणामित्येवं वैपरीत्येनाल्पवहुत्वमुच्यते ? इति चेद, न, एकेन्द्रियादिषु जातिभेदेन स्वस्थाने पर्याप्तत्वादिसामग्रीप्रयुक्तं यथोक्तं जघन्योत्कृष्टस्थितिवन्धाल्पबहुत्वं प्राप्यते, न पुनः परस्थानापेक्षयाऽपि, यत एकेन्द्रियापेक्षया द्वीन्द्रियाणां, तदपेक्षया त्रीन्द्रियाणामेवं यथोत्तरमुक्तसामग्रीप्रयुक्तरय विशुद्धयाधिक्यस्य सम्भवेऽपि बालमध्यमादिपुरुषाहारवत् तथास्वभावाद् द्वीन्द्रियादीनां यथोत्तरं जघन्यतोऽपि महान् महत्तरः स्थितिबन्धो जायते । उक्तं च शतकवृत्ती
“विकलेन्द्रियपञ्चेन्द्रियेषु तु शुद्धिरधि काऽपि लक्ष्यते । केवलं तेऽपि स्वभाबादेव प्रस्तुतकर्मणां महतीस्थितिमुपरचयन्तीति ।"
ततः पुनींन्द्रियसत्केषु शेषत्रिस्थानेषु यथोत्तरं विशेषाधिक उक्तस्तत्रापि तादृशक्रमे पूर्ववत् पर्याप्तत्वस्य कापायिकतीव्रतामन्दताविषये उपष्टम्भकत्वेन पल्योपमसंख्येयभागेन स्थितिबन्धाधिक्यादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org