________________
२६ ]
[ अल्पबहुत्वघटना
संक्लेशा इति, सिद्धाचलाद्यारुह्यमानावरुह्यमानयोरेकस्मिन्नेव सोपानवर्तिनोर्व्यपदेशभेदवत् उक्तं च
,
कर्मप्रकृतिणी
" जाणि चैव संकिलेस माणस्स संकिलेसट्टारणाणि ताणि चैव विसुज्झमाणस्स विसोहिद्वाराणि । सोवाणारोहण रणदितेण गायत्र्वाणी" ति ।
अविरतसम्यग्दृशामप्रत्याख्यानावरणकपायाणामप्युदयो विद्यते, तथा च सति स्थितिबन्धो देशविरतापेक्षयाऽभ्यधिकः, शेषं तु पूर्ववत् । इत्थमेव संज्ञिपञ्चेन्द्रियमिध्यादृष्टिविषयक स्थितिबन्धेऽपि विभावनीयम्, मिथ्यादृशामनन्तानुबन्धिकपायाणामप्युदयात्, तत्रापि पर्याप्तापर्याप्तस्थितिबन्धविषयकयथोक्तक्रमे हेतुद्रीन्द्रियादिवद्रष्टव्य इति । प्रत्रेदं बोध्यम् - श्रसंज्ञिपर्यन्तेषु पदेषु यत्र यावान् स्थितिबन्धो भवति तावान् दर्शितः, संयतोत्कृष्ट स्थितिबन्धपदादारभ्यापर्याप्तसंशिपञ्चेन्द्रियमिथ्यादृष्ट्य त्कृष्टस्थितिबन्धपर्यन्तेषु दशपदेषु यथोत्तरं संख्येयगुणोऽपि स्थितिबन्धः सर्वत्रान्तःकोटीकोटी सागरोपममात्रः, अन्तिमपदे त्वसौ ज्ञानावरणादिमूलप्रकृतीः समाश्रित्य त्रिंशत्कोटीकोटीसागरोपमादिवच्यमाणप्रमाणो बोद्धव्य इति ।
मूलपइबंधो
इदन्त्ववधारणीयम् - प्रकृतद्वारे ग्ररूपितानि त्रीण्यप्यल्पबहुत्वानि मूलकारेणाऽनिर्दिष्टेऽप्यायुर्वजानां सप्तानां प्रकृतीनां स्थितिबन्धस्थानादिविषयाणि बोद्धव्यानि । आयुषः स्थितिबन्धस्थानादिविषयकाल्पबहुत्वानि तु सुगमत्वात्स्वयमेवोद्यानि । तद्यथा-संज्ञयसंज्ञिपर्याप्तजीवभेद यवनां शेषाणामेकेन्द्रियादीनां प्रत्येकमायुषः स्थितिबन्धस्थानानि स्तोकानि परस्परं च तुल्यानि यतोऽमीपामेकेन्द्रियादीनां प्रत्येकमुत्कृष्टतोऽपि पूर्व कोटीव प्रमाणः पारभविकायुषः स्थितिबन्धो जायते । तेभ्यश्चासंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्यायुषः स्थितिबन्धस्थानान्यसंख्येयगुणानि, कुतः ? अस्योत्कृष्टतः पल्यो - पमासंख्येयभागप्रमाणायुर्वेन्धभावात् । श्रसंज्ञिपञ्चेन्द्रियस्याऽऽयुः सत्कस्थितिबन्धस्थानेभ्यः संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्यायुषः स्थितिबन्धस्थानान्यसंख्येयगुणानि, यतः संज्ञिपञ्चेन्द्रियैरुत्कृष्टमायुस्त्रयस्त्रिंशत्सागरोपमप्रमाणं बध्यत इति ।
त्र्यायुषः स्थितिबन्धहेतुभूतानां संक्लेशविशुद्धिस्थानानामल्पबहुत्वमपीत्थमेव बोद्धव्यम् । यत आयुपः स्थितिवृद्धौ नियमेनासंख्येपगुणसंक्लेशविशुद्धिस्थानानां वृद्धिर्भवति । उक्तं च कर्मप्रकृतिचूर्णौ
“उस जहगिगाए ठितिए टितिबन्धज्जव साट्टाराणि थोवाणि | बितियाए श्रसंखेज्जगुणाणि । ततियार असंखेज्जगुणाणि । एवं जात्र उक्कसिता ठितित्ति ॥ ८७ ॥ इति"
आयो जघन्योत्कृष्टस्थितिवन्धप्रमाणान्यवत्वं पुनरित्थम् — चतुर्दशविधानामपि जीवानां जघन्यस्थितिबन्धः सर्वस्तोकः परस्परं च तुल्यः । कुतः ? प्रत्येकं जीवभेदेषु क्षुल्लकभवप्रमाणजधन्यस्थितिबन्धभावात् । ततः सूक्ष्मवादरै केन्द्रिय द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाणां पर्याप्तानामपर्याप्तानां तथा संज्ञयसंज्ञिपञ्चेन्द्रिययोरपर्याप्तयोरित्येतेषामन्यतमस्याप्यायुष उत्कृष्ट स्थितिबन्धः संख्येयगुणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org