________________
जघन्योत्कृष्टस्थितिबन्धाल्पबहु०] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम
[२१ तेइंदियचउइंदियश्रमणाण कमा तहेव णायव्यो । णवरि लहू संखगुणो समत्तविदिय-असरणीणं ॥१०॥ संखगुणोऽतो जइणो परमो देसस्स हस्सियरो ।
पज्जाईणुत्तकमसो चउरो सम्मत्तिमिच्छाणं ॥११॥उपगीतिः
(प्रे०) "सम्वऽप्पो' इत्यादि, साल्पः-अनन्तरवक्ष्यमाणशेषसर्वस्थानेभ्यः स्तोक इत्यर्थः । क इत्याह-"ठिइबंधो जइणो डहरो' ति यतेः 'डहरो'-जघन्यः स्थितिबन्धः । यतोऽयं सूक्ष्मसम्परायक्षपकस्य जायते, तस्य सूक्ष्मसम्परायक्षपकस्य लोभसूक्ष्मकिट्टीवेदकस्य कषायोदयवशेषसवेजीवापेक्षया विशुद्धराधिक्याज्जघन्योऽन्तमुहर्तादिमात्रः स्थितिबन्धो भवति । इत उपरिटाद् यद्यपि सातवेदनीयस्य सामयिको बन्धो भवति, तथापि तस्य समवादधिकावस्थानाभावास्थितिवन्ध गणनैव न क्रियते । वस्तुतः कापायिकः स्थितिबन्ध एव प्रकृतेऽधिकृतः, स तूपशान्तमोहादिगुणस्थानेषु नैव भवति, उपशान्तमोहादिषु सूक्ष्मस्थाऽपि कषायोदयस्याभावात् । “तो” त्ति ततः-यतिनो जघन्यस्थितिबन्धात् ' असंखगुणो बायरपज्जस्स" ति बादरपर्याप्तकेन्द्रियस्य जघन्यस्थितिबन्धोऽसंख्येयगुण इत्यर्थः, डहरोशब्दस्यात्रापि योजनात् । कुतोऽसंख्येयगुणः ? उच्यते, बादरपर्याप्तजघन्यस्थितिबन्धस्यापि देशोनसागरोपमत्रिसप्तमागादिप्रमाणत्वात्, एतच्चाने स्थितिबन्धप्रमाणद्वारे ग्रन्थकारः स्वयमेव दर्शयिष्यति । “तो” ति ततो-चादरपर्याप्तजघन्यस्थितिबन्धापेक्षया “समत्तसुहुमस्स अब्भहियो' ति समाप्तस्य-स्वप्रायोग्यपर्याप्तीरपेक्ष्य पर्याप्तस्य, अर्थात् करणपर्याप्तसूक्ष्मैकेन्द्रियस्य विशेषाधिकः, जघन्यस्थितिबन्ध इति पूर्वपद्रष्टव्यम्, प्रथमोपात्तस्य 'डहरो' इति शब्दस्याधस्तनस्थानेष्वपि योजनात् । “एग्राउ' त्ति एतस्मात्-पयाप्तसूक्ष्मैकेन्द्रियजघन्यस्थितिबन्धात् "विसेसऽहियो कमा" इत्यादि, विशेषाधिकः क्रमात् — अपज्जत्तबारिय राण' ति अपर्याप्तबादरैकेन्द्रियस्येतरपदेन चापर्याप्तसूक्ष्मैकेन्द्रियस्य, जघन्यस्थितिबन्ध इति तु पूर्ववदिति । 'सुहमियरापज्जाणं परमो' त्ति, सूक्ष्मैकेन्द्रियापर्याप्तस्य परमः-उत्कृष्टस्थितिबन्धः, इतरपदेन बादरैकेन्द्रियापर्याप्तस्योत्कृष्टस्थितिबन्धश्वेत्यर्थः । "पज्जसुहमियराण" मिति, परमशब्दस्य देहलीदीपकन्यायेनाऽत्रापि योजनात्,पर्याप्तसूक्ष्मैकेन्द्रियस्योस्कृष्टस्थितिबन्धः,इतरस्य पर्याप्तवादरैकेन्द्रियस्योत्कृष्टस्थितिबन्धश्च । अन्यानपि क्रमगतान् द्वीन्द्रियादीनां जघन्यादिस्थितिवन्धानाह-'पज्जत्तस्स कणिट्ठो' इत्यादिना, अत्र "पज्जत्तस्से" त्यादिषष्टयन्तानां गाथायाः पर्यन्ते "बेइंदियस्स भवे" इत्यनेनान्वयः, तथा च सति 'पज्जत्तस्स कणिट्रो तरो" त्ति ततः पर्याप्तबादरैकेन्द्रियस्योत्कृष्टस्थितिबन्धात् पर्याप्तस्य द्वीन्द्रियस्य कनिष्ठः-जघन्यस्थितिबन्धः । "अपज्जस्सणु' त्ति ततोऽपर्याप्तस्य द्वीन्द्रियस्याणुः-जघन्यस्थितिबन्धः, “तप्रो परमो” त्ति ततस्तस्यैवापर्याप्तडीन्द्रियस्य परमः-उत्कृष्टः स्थितिबन्धः । “तो पज्जत्तस्स परो' त्ति ततः पर्याप्तस्य द्वीन्द्रियस्य परः-उत्कृष्टः स्थितिवन्धः "कमसो बेइंदिवस भवे" इति योजितम् । “तेइंदिये"त्यादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org