________________
]
बंधा मूलपडिटिइबंधो [ जघन्योत्कृष्ट स्थितिबन्धाल्पबहु०
पर्याप्त हीन्द्रियस्योत्कृष्ट स्थितिबन्धानन्तरं त्रीन्द्रियस्य चतुरिन्द्रियस्य तथा "अमण" ति श्रमनासंज्ञी असंज्ञिपञ्चेन्द्रियस्येत्यर्थः "कमा" ति अमीषां त्रयाणां क्रमात् ' तहेव णायव्वों" त्ति तथैवयथा द्वीन्द्रियस्य प्रथमतः पर्याप्तस्य जघन्यस्ततोऽपर्याप्तस्य जघन्यस्ततोऽपर्याप्तस्योत्कृष्टस्ततः पर्याप्तस्योत्कृष्टः स्थितिबन्ध इत्येतेन क्रमेणोक्तस्तेनैव क्रमेण ज्ञातव्य:, श्रयम्भावः - पर्याप्तद्वीन्द्रियस्योत्कृष्टस्थितिबन्धात् त्रीन्द्रियस्य पर्याप्तस्य जघन्यस्थितिबन्धः, ततस्तस्यैव त्रीन्द्रियस्यापर्याप्तस्य जघन्यः स्थितिबन्धः, ततस्तस्यैवापर्याप्तस्योत्कृष्ट स्थितिबन्धः, ततस्तस्यैव त्रीन्द्रियस्य पर्याप्तस्योत्कुष्टस्थितिबन्धः, ततः पुनश्चतुरिन्द्रियस्य पर्याप्तस्य जघन्यः, ततस्तस्यैव चतुरिन्द्रियस्यापर्याप्तस्य जघन्यः, ततस्तस्यैवापर्याप्तस्योत्कृष्टः, ततस्तस्यैव चतुरिन्द्रियस्य पर्याप्तस्योत्कृष्टः स्थितिबन्धः, ततः पुनरनेनैव क्रमेणासंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यः, ततोऽपर्याप्तस्य जघन्यः, ततोऽपर्याप्तस्योत्कृष्टः, ततः पर्याप्तस्यो - त्कृष्ट ; एते एकेन्द्रिय-त्रीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिया- ऽसंज्ञिपञ्चेन्द्रियाणामुक्तक्रमेण दर्शिता जघन्यादिस्थितिबन्धाः वच्यमाणापवादं विवज्य यथोत्तरं विशेषाधिका द्रष्टव्याः । कुत एवं गम्यते ? “एउ विसेसऽहियो” इति प्रागुक्तस्य "विशेषाधिक" इति पदस्यासंज्ञिपञ्चेन्द्रियस्योत्कृष्टस्थितिबन्धं यावदनुकर्षणात् । एवं सामान्यतः सर्वत्र यथोत्तरं विशेषाधिकेऽभिहिते याऽतिप्रसक्तिस्तां निराकतु - मपवदति - "णवरि लहू" इत्यादि, नवरं लघुः - जघन्यः स्थितिबन्धः संख्यगुणः । कस्य कस्येत्याह—“समर्त्ताबंदियप्रसण्णीण" त्ति अत्र "समत्त" इति शब्दस्य प्रत्येकं योजनात् पर्याप्तस्य द्वीन्द्रियस्य, पर्याप्तस्यासंज्ञिनश्चेत्यर्थः । वक्तव्य इति शेषः । इदमुक्तं भवति – पर्याप्तचादरै केन्द्रियस्योकृष्टस्थितिबन्धो विशेषाधिक इति कथनानन्तरं पर्याप्तद्वीन्द्रियस्य जघन्यस्थितिबन्धो विशेषाधिको न वक्तव्यः, किन्तु संख्येयगुणो वक्तव्यः, तथैव चतुरिन्द्रियस्य पर्याप्तस्योत्कृष्ट स्थितिबन्धो विशेषाधिक इत्यभिधानानन्तरमसंज्ञिनः पर्याप्तस्य जघन्यस्थितिबन्धो विशेषाधिको न वक्तव्यः, किन्तु संख्येयगुणो वक्तव्यः, तदन्येषु स्थानेषु पुनर्विशेषाधिक एव वक्तव्य इति । पर्याप्त संज्ञिन उत्कृष्टस्थितिबन्धादूर्ध्वमप्याह - "संखगुणोऽतो जइणो" इत्यादि, अत्र लुप्ताकारस्य योजनात् 'संखगुणो तो " ति इत श्रारभ्यानन्तरवच्यमाणस्थानेषु यथोत्तरं जवन्य उत्कृष्टो वा स्थितिबन्धः सर्वत्र संख्यगुणः, द्रष्टव्य इति शेषः, तमेवाह - " जइणो परमो" इत्यादिना, तत्र "जइणो परमो" त्ति यतेः संयतस्य परमः - उत्कृष्टस्थितिबन्धः, जघन्यस्थितिबन्धस्तु तस्य प्रागेव सर्वाल्पस्थितिबन्धतयोक्तः, अयं तूत्कृष्टः । "देसस्स हस्सियरो” ति ततो देशविरतस्य ह्रस्वः स्थितिबन्धस्ततस्तु तस्यैवेतरः- उत्कृष्टः स्थितिबन्धः, “पज्जाईणुत्तकमसो" त्ति ततः पुनः पर्याप्तादीनामुक्तक्रमात्, यो द्वीन्द्रियस्य पर्याप्तादिसत्कजघन्यादिस्थितिबन्धेषु क्रम उक्तस्तेन क्रमेणेत्यर्थः । तेन क्रमेण किमित्याह - "चउरी" ति चत्वारः स्थितिबन्धाः, केषां पुनः पर्याप्तादिसत्काश्चत्वारः स्थितिबन्धा इत्याह – “सम्मत्तिमिच्छाणं" ति आदावविरतसम्यग्दृशः पर्याप्तादिसत्काश्चत्वारः स्थितिबन्धास्ततो संज्ञिपञ्चेन्द्रियमिध्यादृशः पर्याप्तादिसत्काश्चत्वारः स्थितिबन्धाः प्रागुक्तद्वीन्द्रियसत्कचतुर्विधस्थितिबन्धानां क्रमेण वक्तव्या इत्यर्थः । तद्वक्तव्यता त्वेवं
तस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org