________________
१८]
बन्धविहाणे मूलपयडिठिइबंधो [अध्यवसायस्थानाल्पबहु० वर्धने सत्येकादशे स्थितिबन्धस्थाने तद्वन्धहेतुभूताध्यवसायाश्चत्वारिंशदभवन , द्वादशे स्थितिबन्धस्थाने तु ते चतुश्चत्वारिंशद् भवन्ति, इत्यमेव नवसमयात्मके द्वितीये पल्योपमासंख्येयभागेऽतिक्रान्ते एकोनविंशतितमे च स्थाने प्राप्ते तत्र तद्बन्धहेतुभूताध्यवसाया द्वासप्ततिलभ्यन्ते, इदं हि द्विगणवृद्धेवितीयं स्थानम्, अत्र द्वौ पल्योपमाऽसंख्येयभागावतिक्रान्ती, अत्र पूर्ववतिर्डिंगणवृद्धिस्थानापेक्षया द्विगुणा अध्यवसायाः, जघन्यस्थितिवन्धस्थानापेक्षया तु चतुगुणाः, यतः प्रथमे स्थितिवन्धस्थानेऽष्टादशाध्यवसाया आसन् , अत्र तु द्विसप्ततिः, ते च पूर्वापेक्षया चतुगुणाः सन्ति, इतस्तु तृतीयपल्योपमासंख्यांश प्रारब्धः, तस्माद् यथोत्तरं नवस्थानेषु विशेषवृद्धिरनन्तरगतविशेषवृद्धयपेक्षया द्विगणा भवति, तथा च सति विंशतितमे स्थितिवन्धस्थाने तबन्धहेतुभृताऽध्यवमाया अशीतिरभवन् , एवमेव यथोत्तरं द्रष्टव्यम् । अनेन प्रकारेण संख्यावृद्धि प्राप्नुवन्तोऽध्यवसायाः कुतश्चिदपि स्थानात् पल्योपमासंख्येयभागेऽतिकान्ते द्विगुणा लभ्यन्त इत्येतदप्यत्रामत्कल्पनायां दृश्यते, तद्यथासमयाधिकजघन्यस्थितिबन्धात्मके द्वितीयस्थितिबन्धस्थाने तद्वन्धहेतुभृताध्यवसाया विंशतिः सन्ति, ततो नवम्धितिबन्धस्थानेष्वतिक्रान्तेष्वेकादशे स्थितिबन्धस्थाने तद्वन्धहेतुभृताध्यवसायाश्चत्वारिंशान्ति, तृतीयस्थितिबन्धस्थानात्प्रारभ्य नवस्थितिवन्धस्थानेष्वतिक्रान्तेष्वध्यवसायास्तृतीयस्थितिवन्धस्थानायेलया द्विगुणा लभ्यन्ते, यतस्तृतीय स्थाने द्वाविंशतिरध्यवसायाः, द्वादशे तु चतुश्चत्वारिंशत् , द्वादशस्थानात् पुनरपि नवम्थानात्मके पल्योपमासंख्यांशेऽतिक्रान्ते एकविंशतितमे स्थाने त्वध्यनसाया दिगणा इति अष्टाशीतिलभ्यन्ते, ते तु तृतीयस्थानापेक्षया चतुर्गणाः, अनेनैव प्रकारेणानुक्तस्थानेष्वपिद्रष्टव्यं यावदुत्कृष्टस्थितिबन्धः । अत्र चतुःपञ्चाशस्थितिबन्धस्थानान्याश्रित्य स्थापना-*
इदन्तु बोध्यम्-यदत्र प्रतिस्थितिबन्धस्थानं तद्वन्धहेतुभूताध्यवसाया असंख्यलोकप्रमाणा उक्तास्ते नै जीवमाश्रित्य न वा एकं समयमाश्रित्य किन्तु नानाजीवान् सर्वकालं चाश्रित्य बोद्धव्याः । तथाहि—एका स्थितिः कैश्चिज्जीवैस्तत्प्रायोग्यविवक्षितेनैकैनाध्यवसायेन बध्यते, सैव स्थितिरन्यैः कैश्चिज्जीवनरेव पूर्वोक्तजीवैर्वा कालान्तरेऽध्यवसायान्तरेण निवत्यते, एवं सैव स्थितिरपरैर्जीवेमिन्नाध्यवसायविशेषेण जन्यते, इत्येवं जीवानां कालस्य चानन्त्यान् प्रतिस्थितिबन्धस्थाने तद्वन्धहेतुभूताध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमिता अवाप्यन्ते । न च जीवानां कालस्य चानन्त्याद् भिन्नभिन्नाध्यवसायैरेकस्य विवक्षितस्थितिबन्धस्य सम्भवाच्चैकस्थितिबन्धे तद्बन्धहेतुभूताध्यवसाया अनन्ता अपि लभ्येरनिति वाच्यम् । यत एका स्थितिः स्वभावतोऽसंख्यलोकाकाशप्रदेशप्रमितैर्नियताध्यबसायरेव बध्यते, जीवानामानन्त्येऽपि समानाध्यवसायेन स्थितिं बध्नतां जीवानामध्यवसायो जात्यपेक्षयेक एवं गण्यते, इत्थमेव कालान्तरेण प्राप्तसदृशाध्यवसायविषयेऽपि बोद्धव्यम् । ततश्च जीवानां कालस्य चानन्त्येऽपि नास्त्यनन्तानामध्यवसायानामेकस्थितिबन्धहेतुत्वावकाशः, किंच
*अत्रालेख्या स्थापना पर्याप्ताब काशाभावाद् विंशतितमे पृष्ठे बालेखिता, सा त्वत्र द्रष्टव्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org