SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मना असत्कल्पनया भावना] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम् [ १७ गुणागि लन्भंति त्तिकाउं । ततो बादरस्स अपजत्तगस्स ठितिबन्धट्ठाणाणि संखेज्जगुणाणि, ठितिदीहताय सु संकिलेसट्ठाणा असंखेज्जगुणा लभंति एवं णेयव्यं ।" इति । अत्र तन्त्रातरे कैश्चित्कृता भावना इत्थं बोद्धव्या-यजघन्यस्थितिबन्धादारभ्य यावदायं द्विगणवृद्धिस्थानं तावत् प्रतिसमयं संक्लेशस्थानानि विशेषाधिकानि भवन्तीत्युक्तम् , तत्र संक्लेशस्थानानां विशेपवृद्ध यंशः सर्वत्र समानो बोद्धव्यः, तत अाद्यद्विगुणवृद्धिस्थानानन्तरस्थानात पुनर्दितीयद्विगुणवृद्धिग्थानं तावद् विशेषवृद्धयंशः सर्वत्र समान एव बोद्धव्यः, नवरं पूर्वापेक्षया द्विगुणः, ततोऽपि द्वितीयद्विगणवृद्धि स्थानानन्तरस्थानादारभ्य यावत्ततीयं द्विगुणवृद्धिस्थानं तावत्प्रतिस्थितिबन्धस्थानं वृद्धयशोऽनन्तरगतवृद्धयशापेक्षया द्विगुणो भवति, प्रथमगृहीतविशेषवृद्धयंशापेक्षया तु चतुर्गुणो भवति, एवं यावदन्त्यं द्विगवृद्धिस्थानं ताव संक्लेशस्थानानां विशेषवृध्यशो द्विगणवृद्धिस्थानाऽनन्तरस्थानान्प्रारभ्य दिगणो द्विगणो बोद्धव्यः, अन्यथा द्विगणवृद्धिस्थानान्तरालवर्तिपल्योपमासंख्येयभागनैयत्य मङ्गः स्यात् । न च भातु नैयत्यभङ्गः, को दोष इति वाच्यम् । तथा च सति कुतश्चिदपि स्थितिबन्धस्थानात्प्रतिनियतपल्योपमासंख्येयभागातिक्रमणेन संक्लेशस्थानानि द्विगुणानि नैव लभ्येरनिति । अत्रासकल्पनया जघन्यस्थितिवन्धरूपप्रथमस्थितिस्थानस्य बन्धे कारणीभृताः संक्लेशात्मका अध्यवसाया ये समयाधिकस्थितिबन्धप्रायोग्याध्यवसायेभ्यः स्तोका उक्तास्तेऽष्टादश गृह्यन्ते, समयाधिकजयन्यस्थितिवन्धरूपे द्वितीयस्थितिबन्धस्थाने पूर्वापेक्षया तद्वन्धहेतुभृताध्यवसाया विशेषाधिकाः सन्ति, अत्रामत्कल्पनायामसावधिकांशो द्विरूपो गृह्यते, तथा च सत्यस्मिन् द्वितीयस्थितिवन्धस्थाने तद्वन्धहेतुभूताध्यवसाया विंशतिः संजाताः, द्विसमयाधिकजघन्यस्थितिबन्धरूपे तृतीयस्थितिबन्धस्थानेऽध्यवसाया विशेषाधिका इति द्विरूपेणाधिकाः सन्तो द्वाविंशतिर्भवन्ति, एवं यथोत्तरं द्विरूपेण विशेषेणाधिका अधिका भवन्तोऽध्यवसायाः पल्योपमासंख्येयभागेऽतिक्रान्ते प्रथमस्थानापेक्षया द्विगुणा भवन्ति, अत्रासत्कल्पनायामसौ पल्योपमासंख्येयभागो नवसमयप्रमाणः परिकल्प्यते, तथा च मति जघन्यस्थितिवन्धरूपप्रथमस्थितिबन्धस्थानादारभ्य नवस्थितिवन्धस्थानेषु गतेषु सन्सु दशमे स्थितिवन्धस्थाने तद्वन्धहेतुभूताध्यवसायाः प्रथमस्थितिबन्धस्थानापे नया हिंगणा इति षट्त्रिंशत् सम्पद्येरन् , तथाहि-चतुर्थे स्थितिबन्धस्थाने तद्वन्धहेतुभृताध्यवसायास्तृतीयस्थितिबन्धस्थानापेक्षया विशेषाधिका इति पूर्वापेक्षया द्विरूपेणाधिकाश्चतुर्विंशतिः सन्ति, तेनैव प्रकारेण पञ्चमे स्थितिबन्धस्थाने षड्विंशतिरध्यवसाया लभ्यन्ते, षष्टे स्थितिबन्धस्थाने तु तेऽष्टाविंशतिः, सप्तमे तु त्रिंशत् , अष्टमे पुनात्रिंशदध्यवसायाः, नवमे चतुस्त्रिंशत् , दश्मे स्थितिबन्धस्थाने तु तद्वन्धहेतुभृताध्यवसायाः पत्रिंशदभवन् , अत्र हि नवसमयात्मकः कल्पितपल्योपमासंख्येयभागोऽतिलचितः, अत्र चाध्यवसायाः प्रथमस्थानापेक्षया द्विगुणा अभवन् । इत प्रारभ्यानन्तरपल्योपमासंख्यभागतया परिकल्पितेषु नवस्थानेषु विशेषवृद्धौ गृह्यमाणांशः प्रथमनवस्थानानि यावद् गृहीतांशापेक्षया द्विगुणो ग्राह्यः, स च चतूरूपो भवति, अतश्चतूरूपस्य विशेष त्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy