SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १६ ] बंधविहाणे मूलपयडिठिइबंधो [संक्लेशस्थानाल्पबहु० बन्धः । अत्र चाऽपर्याप्तसूक्ष्मैकेन्द्रियस्य स्थितिबन्धस्थानेषु जघन्यस्थितिबन्धादारभ्य पल्योपमस्याऽसंख्येयभागप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्य यस्थितिबन्धस्थानं तत्कारणीभूतसंक्लेशस्थानानि जघन्यस्थितिबन्धस्थानकारणीभूतसंक्लेशस्थानापेक्षया द्विगुणानि भवन्ति, इदं हि संक्लेशस्थानानां द्विगुणवृद्धराद्यं स्थानमुच्यते, पुनरपि ततः प्रभृति तावन्ति पल्योपमासंख्येयभागप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्य यस्थितिबन्धस्थानं तत्कारणीभृतसंक्लेशस्थानानि प्रथमद्विगुणवृद्धिस्थानापेक्षया द्विगुणानि भवन्ति, जघन्यस्थितिबन्धस्थानापेक्षया त्वत्र चतुगुणानि संक्लेशस्थानानि सन्ति, इदं हि स्थितिबन्धस्थानं संक्लेशस्थानान्यधिकृत्य द्वितीयं द्विगुणवृद्धिस्थानमुच्यते, इतो द्वितीय द्विगुणवृद्धिस्थानादारभ्य पूर्ववद् यदा पल्योपमस्याऽसंख्येयभागप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यन्ते तदा तृतीयं द्विगुणवृद्धिस्थानं प्राप्यते, अत्र तृतीये द्विगुणवृद्धिस्थाने संक्लेशस्थानानि द्वितीयद्विगुणवृद्धिस्थानापेक्षया द्विगुणानि सन्ति, जघन्यस्थितिबन्धाऽऽत्मकस्थितिबन्धस्थानापेक्षया त्वष्टगुणानि सन्ति, एवं पुनरपि पल्योपमासंख्यभागप्रमाणस्थितिस्थानान्यतिक्रम्यातिक्रम्य यथोत्तरं द्विगुणवृद्धिस्थानानि भवन्ति वक्ष्यते च “सत्तण्ह जहरणाओ कमा विसेसाहियाणि श्रा चरमा । पलियाऽसंखियभागं गंतुं गंतुं दुगुणवड्ढी ॥” इति । एवंभूतानि द्विगुणवृद्धिस्थानानि सूक्ष्मापर्याप्तस्य जघन्यस्थितिबन्धादारभ्य तस्यैवोत्कृष्टस्थितिबन्धं यावद्गमनेनाऽसंख्येयानि प्राप्यन्ते, कुतः ? द्विगुणवृद्धिनिष्पादकपल्योपमासंख्येयभागस्य सूक्ष्मापर्याप्तसत्कसमग्रस्थितिबन्धस्थानापेक्षयाऽप्यसंख्येयगुणहीनत्वात् । अत एव बादरापर्याप्तादिजीवस्थानेषु यथोत्तरं संक्लेशस्थानान्यसंख्येयगुणानि प्राप्यन्ते, तथाहि-सूक्ष्मापर्याप्तस्योत्कृष्टस्थितिबन्धापेक्षया बादरापर्याप्तस्योत्कृष्टस्थितिबन्धो योऽधिको जायते स सूक्ष्मापर्याप्तस्य स्थितिबन्धस्थानापेक्षया संख्येयगुणेन पल्योपमासंख्येयभागेनाधिको जायते इति प्रागेवोक्तमसत्कल्पनया भावितं च, सूक्ष्मापयोप्तस्य जघन्यस्थितिवन्धे यानि संक्लेशस्थानानि तेभ्यस्तस्यैवोत्कृष्टस्थितिबन्धस्थाने तान्यसंख्येयगुणानि सन्तिः कुतः ? सूक्ष्मापर्याप्तस्य जघन्यस्थितिबन्धादुत्कृष्टस्थितिबन्धं यावद् गमनेनासंख्येयानां संक्लेशसत्कद्विगणवृद्धिस्थानानां लाभात् । यदि च सूक्ष्मापर्याप्तोत्कृष्टस्थितिबन्धादूचं चरणेन प्राप्तेभ्यो बादरापर्याप्तस्थितिबन्धस्थानेभ्यः संख्येयभागप्रमाणेषु स्थितिवन्धस्थानेप्वतिक्रान्तेषु संक्लेशस्थानान्यसंख्येयगुणानि लभ्यन्ते, तदा तेभ्यः-सूक्ष्मापर्याप्तस्थितिबन्धस्थानेभ्यः संख्येयगणेषु चादरापर्याप्तस्यो+चारप्राप्तेसु स्थितिवन्धस्थानेष्वतिक्रान्तेषु तानि संक्लेशस्थानानि नियमेनासंख्येयगुणानि लभ्येरन् , इत्थमेव शेषजीवभेदेष्वपि भावनीयम् , यथोत्तरजीवभेदे स्थितेदीर्घत्वात् । उक्तं च कर्मप्रकृतिचूर्णी - “कहं असंखेज्जगुणाणि ? भएणइ-सुहुमअपज्जत्तस्स जहएणगे ठितिबन्धे जाणि संकिलेसट्ठाणाणि ततो वितियार ठितिए विसेसहियाणि, एवं जाब तस्सेवुक्कसियाए ठितीए ठितिबंधझवसाणट्ठाणाणि असंखेज For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy