________________
[ १५
संक्लेशस्थानाल्पबहु० ] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम् तस्थितिबन्धस्थानेभ्यस्त्रिगुणत्वात् । इत्थमेवानन्तरवर्तिजीवस्थानेष्वप्यसत्कल्पनया विभावनीयम् । न चात्र परम्परोपनिधया चिन्त्यमाने कल्पितानि सूक्ष्मापर्याप्तस्य पञ्च स्थितिबन्धस्थानान्यपेक्ष्य सूक्ष्मपर्याप्तस्याष्टशतानि पञ्चचत्वारिंशदधिकानि स्थितिबन्धस्थानानि विंशतिगुणादप्यधिकानीति कृत्वाऽसंख्येयगुणानि भवन्ति, तच्चासङ्गतम् , सूक्ष्माऽपर्याप्तस्य सर्वस्थितिबन्धस्थानेभ्यः सूक्ष्मपर्याप्तस्य सर्वस्थितिवन्धस्थानानामपि संख्येयगुणत्वादिति वाच्यम् । प्रकृतासत्कल्पनायाः परम्परोपनिधामनपेक्ष्यानन्तरोपनिधापेक्षया दर्शितत्वात् , तदपेक्षया सुसङ्गतेश्चेति । तदेवमभिहितं स्थितिबन्धस्थानाल्पबहुत्वम् ।
___ अथ संक्लेशविशुद्धिस्थानाल्पबहुत्वं दर्शयन्नाह- "सव्वत्थ विशुद्धिइयराण” मिति "ठाणाणि हुन्ति असंखगुणाई" इत्येतद् देहलीदीपकन्यायेनात्रापि सम्बध्यते, ततो विशुद्धरितरस्य संक्लेशस्य वा स्थानानि-भेदाः सर्वत्र-सर्वेषु जीवस्थानेष्वसंख्येयगुणानि भवन्ति, क्रमादिति शेषः । तद्यथा-सूक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि, तेभ्योऽपर्याप्तवादरस्याऽसंख्येयगुणानि, तेभ्योऽपि पर्याप्तसूक्ष्मस्याऽसंख्येयगुणानि, तेभ्योऽपि पर्याप्तवादरस्याऽसंख्येयगुणानि, तेभ्योऽपि द्वीन्द्रियस्याऽपर्याप्तस्याऽसंख्येयगुणानि, एवं पर्याप्तद्वीन्द्रियाऽपर्याप्तपर्याप्तत्रीन्द्रियचतुरिन्द्रियाऽसंज्ञिसंज्ञिपञ्चेन्द्रियाणां यथोत्तरमसंख्येयगुणानि वाच्यानि । एवमेव विशुद्धिस्थानान्यपि यथोत्तरजीवभेदेऽसंख्येयगुणानीत्यपि द्रष्टव्यमिति । अत्र वर्धमानकषायोदयजन्या आत्मपरिणामाः संक्लेशा उच्यन्ते, हीयमानकषायोदयजन्यास्तु त एव विशुद्धयः । तथाहि-कर्मणां स्थितिबन्धे कारणीभूता आत्मनः क्रोधादिकपायजन्या आत्मपरिणामाः सामान्यतोऽध्यवसाया अध्यवसानानि वोच्यन्ते, ते एव मन्दकषायोदयात्तीव्रतीव्रतरादिकषायोदयाभिमुखाश्चरन्तः पूर्वपूर्वापेक्षया संक्लिश्यमानाः सन्तः सक्लेशा अभिधीयन्ते, यदा तु तीव्रकषायोदयान्मन्दमन्दतरकषायोदयाभिमुखं चरन्ति, तदा विशुध्यमानाः सन्तो विशुद्धय इति व्यपदिश्यन्ते इति ।
ननु चतुर्दशजीवभेदेष्वपि स्थितिबन्धकारणीभूतानि संक्लेशस्थानानि यथोत्तरमसंख्येयगुणान्येव कस्माद्भवन्ति ? उच्यते,-यथोत्तरजीवभेदेषु स्थितिबन्धस्थानानामुत्कृष्टस्थितिबन्धप्रमाणस्य चाधिक्यात् , अधिकाधिकतरादिस्थितिबन्धेऽधिकाधिकतरादिसंक्लेशस्थानानां हेतुत्वाच्च । तथाहिप्रत्येकं स्थितिबन्धस्थानं नानाजीवान् समाश्रित्यासंख्यातलोकाकाशप्रदेशप्रमितैः संक्लेशस्थानबध्यते, वक्ष्यते च
“पइठिइबंधमसंखा लोगा अट्टएह अज्झवसणाणं ।” इति ।
तत्रापि सूक्ष्मापर्याप्तस्य यत्सर्वजघन्यस्थितिबन्धात्मकं स्थितिस्थानं तस्य बन्धे हेतुभूतानि संक्लेशस्थानानि स्तोकानि, तेभ्यः समयाधिकस्थितिबन्धस्थाने संक्लेशस्थानानि विशेषाधिकानि, दिसमयाधिकजघन्यस्थितिबन्धस्थाने तु ततोऽपि विशेषाधिकानि संक्लेशस्थानानि, तेभ्यस्त्रिसमयाधिकजघन्यस्थितिबन्धस्थाने संक्लेशस्थानानि विशेषाधिकानि भवन्ति, एवं तावद्वाच्यं यावदुत्कृष्टस्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org