________________
१२]
बंधवहाणे मूलपयडिठिइबंधो
[ स्थितिस्थानाल्पबहु० स्थानानि यान्यसंख्येयगुणानि कथितानि तानि तस्य जघन्योत्कृष्ट स्थितिबन्धयोरन्तरस्य पल्योपमसंख्येयभागतुल्यत्वात् । इदमुक्तं भवति - एकेन्द्रियाणां जघन्यस्थितिबन्धापेक्षयोत्कृष्टः स्थितिबन्धः पल्योपमासंख्येयभागेनाभ्यधिको जायते, द्वीन्द्रियाद्य संज्ञिपर्यन्तानां तु प्रत्येकं स्वस्वजघन्यस्थितिबन्धापेक्षया पल्योपमसंख्येयभागेनाभ्यधिको जायते, तथा च सति पर्याप्तवादरैकेन्द्रियस्य स्थितिबन्धस्थानानि पल्योपमस्यासंख्येयभागगत समय तुल्यानि, द्वीन्द्रियापर्याप्तस्य स्थितिबन्धस्थाना पल्योपमसंख्येयभागगतसमय तुल्यानि, तो भवन्त्यमूनि पूर्वापेक्षयाऽसंख्येयगुणानि । अत्र गुणकराशिरावलिकाया असंख्येयभागगतसमयतुल्योऽवगन्तव्यः कुतः ! समनियतपल्योपमासंख्यभागप्रमाणस्थितिस्थानैर्निष्पद्यमानानामबाधाकण्डकानामेकेन्द्रियेष्वावलिकाया असंख्येयभागगतसमयतुल्यानां भावात्, द्वीन्द्रियेषु त्वावलिकायाः संख्येयभागप्रमाणानां लाभाच्च । उक्तं च कर्मप्रकृतिचूण"बेइंद्रियाणं पज्जत्तापज्जत्तगाणं उगवज्जाणं सत्तरहं कम्माणं अबाहाद्वाणारिण अबहाकण्डगाणि य दोषि तुल्लाणि सव्वत्योवारिण । ताणि य आवलियाए संखेज्जत्तिभागमेत्ताणि" इति । तथा"एगिंदियाणं सुहुमाणं बादराणं पज्जत्तापज्जत्तगाणं श्राउगवज्जाणं सत्तणं कम्माणं श्रावाहाठाणारि वाहाकडगारिण दोषि तुल्लाणि सव्वत्थोवारिण । ताणि श्रवलिया असंखेज्जतिभागमेत्तारिण"
इति ।
प्रकृताल्पबहुत्वं कर्मप्रकृतिचूर्णावित्थमेव । तथा च तद्ग्रन्थः
" सव्वथोवारिंग सुहुमस्स अपज्जत्तगस्स ठितिबंधट्ठाणातिं । बायरअपज्जत्तगस्स ठितिबंधठागाणि संखेज्जगुणाणि । सुहुमस्स पज्जत्तगस्स ठितिबन्धट्ठाणाणि संखेज्जगुणाणि । बायरस्स पज्जत्तगस्स ठितिबंधद्वाणि संखेज्जगुणाणि । एवं एतेसिं पलिओ मस्स असंखेज्जइ भागमेत्तारिण ठितिबन्धद्वाणाणि । ततो बिइंदियरस अपज्जत्तगरस ठितिबंधट्ठाणाणि असंखेज्जगुरगाई । कहं ? बेतिंदियादिणं ठितिबन्धद्वाणाति पमिस्स संखेज्जइभागमेत्ताणि त्ति काउं । तस्सेव पज्जत्तगस्स ठितिबन्धद्वाणातिं संखेज्जगुणाति तेइंदियरस अपज्जत्तगस्स ठितिबन्धद्वारणाई संखेज्जगुणाई । तस्सेव पज्जत्तगस्स ठितिबंधद्वाणाई संखेज्जगुणाई । चउरिंदियस्स अपज्जत्तगस्स ठितिबन्धद्वाणातिं संखेज्जगुणाई । तस्सेव पज्जत्तगस्स ठितिबन्धट्ठाति संखेज्जगुणाई | सरपंचेंद्रियस्स अपज्जत्तस्स ठितिबन्धद्वातिं संखेज्जगुणाणि । तस्सेव पज्जत्तगस्स ठितिबन्धहाति संखे जगुणाणि । सरिणपंचिंदिय अपज्जत्तगस्स ठितिबन्धद्वाणातिं संखेज्जगुणारिण । तस्सेव पजत्तगस्स ठितिबन्धद्वाणातिं संखेज्जगुणाई ।" इति ।
प्रमाणमधिकृत्य स्थितिबन्धस्थानान्येकेन्द्रियसत्केषु चतुषु जीवभेदेषु प्रत्येकं पल्योपमासंख्येयभागगत समय तुल्यानि, अपर्याप्तद्वीन्द्रियादिष्वष्टजीवभेदेषु प्रत्येकं पल्योपमस्य संख्येयभागगत - समय तुल्यानि, अपर्याप्तसंज्ञिजीवभेदे तु तान्यन्तःकोटीकोटीसागरोपमाणां समयतुल्यानि, पर्याप्तसंज्ञिजीवभेदे तु पुनस्तानि देशोनत्रिंशत्कोटिकोटी सागरोपमादिसमय तुल्यानि, ज्ञानावरणादीन् समाश्रित्यावसेयानीति । न चाशङ्क्यं यदपर्याप्तद्वीन्द्रियादिष्वष्टषु जीवभेदेषु प्रत्येकं स्थितिबन्धस्थानानां पल्योपमस्य संख्येयभाग प्रमाणत्वेऽपि तेषु यथोत्तरं संख्येयगुणत्वं विरुध्येत ? यतो यथैकेन्द्रियसत्क*जेसलमेरशास्त्रागारस्थकर्मप्रकृतिचूर्णि प्रतिसत्कोऽयं पाठः, मुद्रितप्रतौ तु ''कारो न दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org