________________
तस्योपपत्तिः ] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम्
[ ११ "बितिचउ" इत्यादिपदानि पर्याप्त-तदितरापर्याप्तयोः प्रत्येकं क्रमेण योज्यन्ते, ततः पर्याप्तबादरैकेन्द्रियानन्तरमपर्याप्तद्वीन्द्रियस्य, ततः पर्याप्तद्वीन्द्रियस्य, ततोऽपर्याप्तत्रीन्द्रियस्य, ततः पर्याप्तत्रीन्द्रियस्य, ततोऽपर्याप्तचतुरिन्द्रियस्य, ततः पर्याप्तचतुरिन्द्रियस्य, ततोऽपर्याप्तस्याऽसंज्ञिपञ्चेन्द्रियस्य, ततः पर्याप्तस्याऽसंज्ञिपञ्चेन्द्रियस्य, ततोऽपर्याप्तस्य संज्ञिपञ्चेन्द्रियस्य, ततः पर्याप्तस्य संज्ञिपञ्चेन्द्रियस्येति । सूत्रलाघवार्थ 'संख्येयगुणाणी' ति पदस्यानुवृत्तौ प्रयुक्तायां सत्यां याऽतिप्रसक्तिजोता तां निराकुर्वन्नाह—“परं अपज्जबेइंदियस्स ठाणाणि" इत्यादि, परम्-नवरम् अपर्याप्तद्वीन्द्रियस्य स्थितिबन्धस्थानानि असंख्येयगुणानि भवन्तीति क्रमप्राप्तबादरैकेन्द्रियस्थितिबन्धस्थानेभ्यस्तान्यसंख्येयगुणानि वक्तव्यानि, न पुनर्द्वितीयादिपदेष्विव संख्येयगुणानीति भावः । उक्तोऽक्षरार्थः ।
घटना पुनरित्थम्-स्थितिबन्धस्थानानि जघन्योत्कृष्टस्थितिबन्धयोरन्तरालाधीनानि, तच्चान्तरालं सूक्ष्मापर्याप्तजीवानां शेषजीवभेदापेक्षयाऽल्पम्, अतोऽपर्याप्तसूक्ष्मजीवस्य स्थितिबन्धस्थानानि सर्वस्तोकानि, तानि च पल्योपमस्यासंख्येयतमभागगतसमयतुल्यानि भवन्ति । तेभ्योऽपर्याप्तबादरैकेन्द्रियस्य स्थितिवन्धस्थानानि संख्येयगुणानि, यतः सूक्ष्मापर्याप्तस्योत्कृष्टस्थितिबन्धापेक्षयाऽस्योत्कृष्टस्थितिबन्धो विशेषाधिकः, सूक्ष्मापर्याप्तस्य जघन्यस्थितिबन्धापेक्षया चास्य जघन्यस्थितिबन्धो विशेषहीनः, तथा च सत्यस्यापर्याप्तबादरस्य जघन्योत्कृष्टस्थितिबन्धयोरन्तरालं पूर्वोक्तान्तरालापेक्षया बहत् , तच्च पूर्वापेक्षया संख्येयगुणमित्यतोऽपर्याप्तवादरस्य स्थितिस्थानान्यपि संख्येयगुणानि । ननु बादरापर्याप्तस्य जघन्यस्थितिबन्धः सूक्ष्मापर्याप्तस्थितिबन्धापेक्षया विशेषहीनः, उत्कृष्टस्थितिबन्धश्च विशेषाधिकश्चेत्तदा तयोरन्तरालं कथं संख्येयगुणमिति चेद् ? उच्यते, योऽत्र स्थितिवन्धो विशेषहीनो विशेषाधिकश्चोक्तः स सूक्ष्मापर्याप्तस्य जघन्योत्कृष्टस्थितिबन्धापेक्षया, न तु सूक्ष्मापर्याप्तस्य स्थितिबन्धस्थानान्यपेक्ष्य, सूक्ष्मापर्याप्तस्य जघन्योत्कृष्टस्थितिबन्धौ तु ज्ञानावरणादीनामग्रे वक्ष्यमाणौ पल्योपमासंख्येयभागन्यूनसागरोपमत्रिसप्तभागादिप्रमाणौ, तदपेक्षया निरुक्तायां वृद्धौ हानौ च प्राप्यमाणानि स्थितिबन्धस्थानानि प्रत्येकं पल्योपमस्यासंख्येयभागगतसमयप्रमाणानि जायन्ते, न चात्र कश्चिद् विरोधः, सागरोपमादिस्थितिबन्धमपेक्ष्य विशेषाधिकांशे पल्योपमसंख्येयभागस्यापि प्रवेशात् , एवं विशेषहान्यंशेऽपि बोद्धव्यम् । नवरमत्र हानिसत्को यः पल्योपमस्यासंख्यांशः स सूक्ष्मापर्याप्तस्थितिबन्धस्थानापेक्षया संख्येयगुणोऽस्ति यश्चोत्कृष्टस्थितिबन्धाभिमुखं चरणेन पल्योपमस्यासंख्यांशो वर्धतेऽसौ पुन निसत्कांशापेक्षयाऽपि संख्येयगुणोऽस्ति, तथा च सति बादरापर्याप्तैकेन्द्रियाणां जघन्योत्कृष्टस्थितिवन्धयोरन्तरालमपि संख्येयगुणं भवतीति । अपर्याप्तादरस्य स्थितिबन्धस्थानापेक्षया पर्याप्तसूक्ष्मैकेन्द्रियस्य स्थितिबन्धस्थानानि संख्येयगुणानीत्येतदपि बादरापर्याप्तस्थितिबन्धस्थानवज्जघन्योत्कृष्टस्थित्योरन्तरालस्य संख्येयगुणत्वापेक्षया भावनीयम् , नवरं सूक्ष्मापर्याप्तस्थाने बादरापर्याप्तजीवं गृहीत्वा बादरापर्याप्तस्थाने सूक्ष्मपर्याप्तजीवं च गृहीत्वेति । इत्थमेवानन्तरवर्तिषु बादरपर्याप्तादिजीवभेदेष्वपि भावना द्रष्टव्या, नवरं द्वीन्द्रियापर्याप्तस्य स्थितिबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org