________________
बंधविहाणे मूलपयडिठिइबंधो [ स्थितिस्थानाल्पबहु० मुदीरणादिकरणान्तरस्य साहाय्यमन्तरेण स्वभावत एवोदयं नैवाऽऽयाति, जीवस्य बाधां नोत्पादयति स इति भावः। उक्तं च शतकभाष्ये--
__ "होइ अबाहाकालो जो किर कम्मस्स अणुउदयकालो" इति । कण्डकमिति समूहः, तच्च कण्डकं स्थितिवन्धस्थानानां बोद्धव्यम् , न त्वबाधास्थानानाम् । ततश्चैकसमयावाधाहानावुत्कृष्टतो यावती स्थितिहीयते तावत्याः स्थितेः समयप्रमाणानां स्थितिबन्धस्थानानां समूह एकमवाधाकण्डकमुच्यते, एवम्भूतान्यवाधाकण्डकान्यत्र द्वारे चिन्तयिष्यन्त इति । चकारस्तु समुच्चये।
___ "अप्पबहू" त्ति भावप्रधानोऽयं निर्देशस्ततोऽल्पबहुत्वद्वारम् , यत्र गतद्वारत्रयेऽभिहितार्थानां स्थितिबन्धस्थानादीनां परस्परमल्पबहुत्वं हीनाधिक्यलक्षणं प्रदर्शयिष्यत इति ।
तदेवमुद्दिष्टानि प्रथमाधिकारगतद्वाराणि । साम्प्रतं 'यथोदेशं निर्देश' इति न्यायेन प्रथमद्वारे स्थितिबन्धस्थानान्यधिकृत्य प्ररूपणा कर्तव्या; तत्रादौ चतुर्दशजीवभेदेषु प्रत्येकं ज्ञानावरणादीनां सप्तानामपि मूलप्रकृतीनां स्थितिबन्धस्थानाल्पबहुत्वं तुल्यमिति कृत्वा तत्, तथा तद्वदेव स्थितिबन्धस्थानलारणीभूतानां संक्लेशविशुद्धिस्थानानामल्पबहुत्वस्यापि तुल्यत्वात् तदपि सममेव प्रतिपिपादयिषुर्गाथाद्वयमाह
ठिइबंधट्टाणाइं सुहमियराण असमत्तियरगाणं । असमत्तियराण कमा बितिचउइंदियअसरिणसरणीणं ॥५॥ (गीतिः) संखेज्जगुणाणि परं अपज्जबेइंदियस्स ठाणाणि ।
हुन्ति असंखगुणाई सम्वत्थ विशुद्धिइयराणं ॥६॥ ' (प्रे०) "ठिइबंधठाणाइ"मित्यादि, स्थितिबन्धस्थानानि संख्येयगुणानि भवन्तीत्युत्तरगाथायामन्वयः, यथोत्तरमिति शेषः । केषां स्थितिबन्धस्थानानि यथोत्तरं संख्येयगुणानि भवन्तीत्यत्राह'सुहमियराणे"त्यादि, तत्र "सुहमियराण असमत्तियरगाणे"त्यत्र बहुवचनं प्राकृतत्वात् , यतः प्राकृते द्विवचनस्थाने बहुवचनं भवति । यदाहुः श्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे-"द्विवचनस्य बहुवचनम्” ( सि० है० ८-३-१३० ) इति । ततश्च सूक्ष्मस्य तदितरस्य बादरस्य चेत्यर्थः । एते सूक्ष्मवादराः पर्याप्तापर्याप्तभेदाद् द्विधा भवन्ति, अतस्तत्रापि क्रमनियमार्थमुक्तम् "असमत्तियरगाणं" त्ति असमाप्तस्य,-अपर्याप्तस्येत्यर्थः, अपर्याप्तानामेवासमाप्तपयाप्तिकत्वेनासमाप्तपदवाच्यत्वादिति भावः । ततश्च तदितरस्य पर्याप्तस्येत्यर्थः । अम् द्वे विशेषणे गाथान्यस्तक्रमात प्रत्येकं योज्यते । आदावपर्याप्तविशेषणं प्रत्येकं योज्यं, ततः पर्याप्तविशेषणं प्रत्येकं योज्यमितिभावः । इत्थं चायं क्रमः प्राप्तः-प्रथममपर्याप्तसूक्ष्मैकेन्द्रियस्य, ततोऽपर्याप्तवादरेकेन्द्रियस्य, ततः पर्याप्तसूक्ष्मैकेन्द्रियस्य, ततः पर्याप्तयादरैकेन्द्रियस्येति । अग्रेऽपि क्रमव्यवस्थापनार्थमाह-"असमत्तियराणे"त्यादि, प्राग्वत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org