________________
॥ प्रथमाधिकार ॥ साम्प्रतं “यथोद्देशं निर्देश" इति न्यायेन प्रथमाधिकारं प्रतिपिपादयिषुः प्रथमाधिकारद्वाराणि नामग्राहं गृह्णाति
तह प्राइमअहिगारे चउरो दाराणि हुन्ति जहकमसो।
ठिइठाणाणि णिसेगो अवाहकंडं य अप्पबहू ॥४॥
(प्रे०) “तह प्राइमअहिगारे" इत्यादि, तत्र-अनन्तरोदिष्टषडधिकारेषु “प्राइमअहिगारे" त्ति आदिमे-प्रथमेऽधिकारे चत्वारि द्वाराणि भवन्ति, तान्येव नामतः क्रमतश्च दर्शयन्नाह-"जहकमसो" इत्यादि, तत्र “ठिइठाणाणि" ति बन्धस्य प्रकृतत्वात् स्थितिबन्धस्य स्थानानि स्थितिस्थानानि, मध्ममपदस्य लुप्तत्वात् । बन्धप्रायोग्याः स्थितिविशेषा इत्यर्थः । अयम्भावः-केनचिज्जीवेन या जघन्या स्थितिबध्यते तद् एकं स्थितिबन्धस्थानम् , तेनैव जीवेनाऽन्येन वा जीवेन यो समयाधिकजघन्यस्थितिबन्धः क्रियते तमपेक्ष्य द्वितीयं स्थितिबन्धस्थानम् , इत्थमेव केनाऽपि द्विसमयाधिकजघन्यस्थितिबन्धः क्रियते तमपेक्ष्य तृतीयं स्थितिबन्धस्थानम् , एवं यावदुत्कृष्टस्थितिबन्धस्तावद् वाच्यम्। ततश्च जघन्यस्थितिबन्धमादौ कृत्वोत्कृष्टस्थितिवन्धं यावद् यावन्तः समयास्तावत्प्रमाणानि स्थितिबन्धस्थानानि भवन्ति । उक्तं च कर्मप्रकृतिचूर्णी
"जहएणगठितिं आदि काऊण जाव उकस्सिता ठिति एसि मज्झे जत्तिया ठितिविगप्पा ते उक्कसियाए ठितिए समं ठितिबन्धठाणा बुच्चति' इति ।
अत्र हि चतुर्दशजीवभेदानधिकृत्य स्थितिबन्धस्थानानां तत्कारणीभूताध्यवसायस्थानानामेतयोः स्थितिबन्धस्थानाध्यवसायस्थानयोः प्रमाणनियामकस्य जघन्योत्कृष्टस्थितिबन्धस्य चाऽल्पबहुत्वत्रयं प्रतिपादयिष्यते ।
"णिसेगो" ति निषेचनं निषेकः "भावाऽकोंः " (सि. हे. ५-३-१८) इत्यनेन "घन" प्रत्ययः; निषेचनम्-व्यवस्थापनम् , प्रकृतत्वाद् बध्यमानस्थितिषु कर्मदलस्य रचनेत्यर्थः । इदमुक्तं भवति-वेदनार्थं बध्यमानकर्मदलानामवाधावर्जस्थितिस्थानेषु हीन-हीनतर-हीनतमादिक्रमेण रचनंव्यवस्थापन निषेक उच्यते । उक्तं च शतकवृत्तौ
"निषेको नाम प्रथमसमये बहु द्वितीयसमये हीनं तृतीयसमये हीनतरं ततो हीनतमं कर्मदलिक रच्यते यत्र स एवंभूतः कर्मदलिकरचनाविशेषो निषेक उच्यते, अबाधां विहाय तत ऊर्ध्व वेदनार्थं कर्मनिषेको भवतीति भावः ।" इति
"प्रबाहकंड' ति अबाधाकण्डकद्वारम् , यत्रावाधाकण्डकानि प्ररूप्यन्ते । तत्राबाधा तु बन्धकाले निषिच्यमानदलिकानां निषेकायाऽयोग्यः कालः, यस्मिन् काले यथानिषिक्तं कर्मदल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org