________________
बंधविहाणे मूलपयडिठिइबंधो [ तत्तदधिकारगतद्वारनामानि ऽवक्तव्यबन्धापेक्षयाऽविशेषावेव । इत्थं हि भूयस्काराल्पतरविशेषरूपाणां संख्येवगुणादिस्थितिबन्धवृद्धिहानीनां पदनिक्षेपाधिकारविषयभूतजघन्योत्ष्टपदद्वयापेक्षया विलक्षणत्वाद् वृद्ध्यादेभू यस्कारादिरूपत्वेऽपि प्ररूपणीयविषयभेदात्पार्थक्यं वेदितव्यमिति ।
"अज्झवसाणसमुदाहारो" ति समुदाहरणं समुदाहारः, प्ररूपणेत्यर्थः । स्थितिबन्धहेतुभूतान् कपायोदयजन्यान् जीवपरिणामविशेषानधिकृत्य यत्र प्ररूपणा क्रियतेऽसावध्यवसानसमुदाहारोऽध्यवसायसमुदाहारो वा “पइठिइबंधमसंखा लोगा अट्टण्ह अज्झवसणाणं" (गा० ८४५) इत्यादिना वक्ष्यमाणः षष्ठाधिकारतयाऽवसातव्य इति ।
प्रत्येकमधिकारास्तु नानाऽनुयोगद्वारनिष्पन्नाः । तद्यथा-प्रथमाधिकारे चत्वार्यनुयोगद्वाराणि, (१) स्थितिबन्धस्थानानि, (२) निषेकः, (३) अबाधाकण्डकम् (४) अल्पबहुत्वं च एतेषु प्रत्येक चतुर्दशजीवभेदानधिकृत्य स्थितिवन्धस्थानादीनामल्पबहुत्वादिकं प्ररूपयिष्यते । द्वितीयाधिकारे तु पञ्चदशानुयोगद्वाराणिः तत्र प्रथमं (१) स्थितिबन्धप्रमाणद्वारम् , ततः (२) स्वामित्वद्वारम् , ततः (३) साद्यादिद्वारम् , तदनन्तरं (४) कालद्वारम् , ततो (५) ऽन्तरद्वारम् , ततः (६) संनिकर्षद्वारम् , एतेषु पद्वारेष्वेकजीवं समाश्रित्य प्ररूपणं करिष्यते , ततः प्रभृति भङ्गविचयादिष्वल्पबहुत्वान्तेषु नवद्वारेषु पुनर्नानाजीवान् प्रतीत्य बन्धकभङ्गादयो वक्ष्यन्ते भङ्गविचयादीनि पुनरिमानि-(७) भङ्गविचयद्वारम् ,(८) भागद्वारम् ,(९) परिमाणद्वारम् ,(१०) क्षेत्रद्वारम् ,(११) स्पर्शनाद्वारम् ,(१२) कालद्वारम् , (१३)अन्तरद्वारम् ,(१४)भावद्वारम् ,(१५)अल्पबहुत्वद्वारं चेति । एतेषु प्रत्येकमोघतः स्थितिबन्धकभूतसमस्तजीवराशिमपेक्ष्य, तथाऽऽदेशतो गत्यादिभेदप्रभेदनिष्पन्नाः सप्तत्युत्तरशतमार्गणा अधिकृत्य जघन्योत्कृष्टस्थितिबन्धप्रमाणं तत्स्वामि-जघन्योत्कृष्टतदितरस्थितिबन्धसाद्यादि-कालप्रभृतयश्च चिन्तयिष्यन्ते, तत्राप्यल्पबहुत्वद्वारे तु जघन्यादिस्थितिबन्धप्रमाणमधिकृत्य स्वस्थानपरस्थानाल्पबहुत्वे तथा जघन्यादिस्थितेर्वन्धकानामल्पवहुत्वमित्येवं नानाविधान्यल्पबहुत्वानि प्ररूपयिष्यन्ते। भूयस्काराख्ये तृतीयाधिकारे तु त्रयोदश द्वाराणि, तत्रायं (१) सत्पदद्वारम् , ततः (२) स्वामित्वद्वारम् , तदुत्तरं (३) कालद्वारम् , ततो(४)ऽन्तरद्वारम् , तदनन्तरं तु पूर्वोक्तक्रमेण नानाजीवानधिकृत्य भङ्गविचयादीन्यल्पबहुत्वान्तानि नवानुयोगद्वाराणि सन्ति । एतेष्वपि प्रत्येकं भूयस्कारादिचतुर्विधस्थितिबन्धमधिकृत्य सत्पदादीनि चिन्तयिष्यन्ते । चतुर्थे पदनिक्षेपाधिकारे तु सत्पद-स्वामित्वा-ऽल्पबहुत्वलक्षणानि त्रीण्यनुयोगद्वाराणि भवन्ति । अत्रापि जघन्योत्कृष्टपदद्वयगतानां भूयस्कारादिविशेषाणां सत्पदादीनि प्ररूपयिष्यन्ते । पञ्चमे वृद्धयधिकारेऽप्युक्तलक्षणा भूयस्कारादिविशेषरूपाः संख्येयगुणप्रभृतिवृद्धयादयः सत्पदाद्यल्पबहुत्वान्तत्रयोदशद्वारेषु भूपस्काराधिकारवदेव प्ररूपयिष्यन्ते । चरमेऽध्यवसानसमुदाहारे तु त्रीप्यनुयोगद्वाराणि, तानि च स्थिति-प्रकृति-जीवानधिकृत्य स्थितिवन्धकारणीभृताध्यवसायचिन्तनरूपाणीति । एतान्येव षडधिकारसत्कानुयोगद्वाराणि संख्यामात्रेण निर्दिशन्नाह-"तेसु” इत्यादि, गतार्थम् । नामपूर्वकं विशेषव्याख्यानं तु प्रत्यधिकारप्रारम्भे दर्शयिष्याम इति ॥२-३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org