SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भूयस्कारादेः पदनिक्षेपादेश्व स्वरूपलेशः ] अधिकारनिरूपणम् स्कारः, “पूवसमयाउ समये अणंतरे बंधए" इत्यादिना वक्ष्यमाणस्थितिबन्धविशेषप्रतिपादनपरस्तृतीयाधिकारो भवति, अत्र ह्यधिकारेऽल्पतरादयः स्थितिबन्धविशेषा अपि प्ररूपणीयास्तथाऽप्यधिकारनामप्रस्तावे लाघवार्थ' भूयस्कारस्यैव ग्रहणं कृतम्, तेनैवोपलक्षणादन्येऽपि बोद्धव्या इति । "पयणिक्खेवो" त्ति "परमा वड्ढी 'परमा हाणी परमं तहा अवट्ठाणं ( गा० ६९० ) इत्यादिना वक्ष्यमाणः पदनिक्षेपाख्यश्चतुर्थाधिकारो भवति, तत्र पदनिक्षेपो भूयस्कारादिविशेषरूप एव, भूयस्कारादीनां स्थितिबन्धविशेषाणां जघन्योत्कृष्टपदद्वये निक्षेपणात् जघन्योत्कृष्टवृद्धयादिरूपेण चिन्तनादिति भावः । "वड्ढी" त्ति “अत्थि अवत्तव्यत्तं बंधस्स असंखभागहाणी य” ( गा० ७३२ ) इत्यादिना वक्ष्यमाणो वृद्ध्यधिकारः पञ्चमाकिारतयावसाय भवति, अयमपि भूवस्कारादिविशेषरूप एव, केवलं पदनिक्षेपाधिकारे भूयस्कारादितया जायमानस्थितिबन्धवृद्ध्यादयो जघन्योत्कृष्टपदद्वयगता एवं चिन्तयिष्यन्ते, अत्र तु ते संख्येयभाग संख्येrभागप्रभृतिवृद्ध यादिरूपेण वर्णयिष्यन्ते । + इदमुक्तं भवति - मुख्यवृत्त्याधिकृतो कर्मरूपतावस्थानलक्षणस्थितिबन्धोऽपि यदा पूर्व समयादुत्तरसमयेऽधिको भवति तदा भूयस्कार इत्युच्यते, यदा तु पूर्वसमयादुत्तरसमये हीनो भवति तदाऽल्पतरोऽभिधीयते, एवं तावन्मात्रस्थितिबन्धभावेऽवस्थितोऽअबन्धात्प्रथमत एव भावे त्ववक्तव्यश्व संगीर्यते, वक्ष्यते च "पूव्वसमयाउ समये अणंतरे बंधर पहुत्तयरं । बंधो स भूअगारोऽप्पयरं बंधइस अप्पयरो || ५५५ ।। तावइयं चि बंधइ सो णाको अवओि बंधो । होउं अबंधगो उण बंधइ स हवइ अवत्तब्वो" इति । एते भूयस्कारादयः सत्पदादिद्वारैरोघत आदेशतश्च यत्र चिन्तयिष्यन्ते स भूयस्काराधिकारः । भूयस्काराधिकारविषयभूतोऽनियतेन समयादिना यथासम्भवं हीनाधिकोऽपि यो भूयस्कारादितत्तत्स्थितिबन्ध तेन तेन नियतेन सर्वाधिकवृद्धिहानिरूपेण यत्र चिन्तविष्यते स पदनिक्षेपाधिकारः । अयम्भावःभूयस्कारचिन्तायां विवक्षितसमयादुत्तरसमये जायमानं समयद्विसमयादिना वृद्धं कमपि स्थितिबन्धमधिकृत्य सामान्येनैव यथा सत्पद-स्वामित्वादिकं प्ररूप्यते, एवं हान्यादिकं च समाश्रित्य सत्पदादयः रूपन्ते न तथा पदनिचेपाविकारेऽपि किन्तु विवक्षितसमयादुत्तरसमये जायमानमधिकतमवृद्धस्थितिबन्धलक्षणं भूयस्कारविशेषरूपमुत्कृष्टवृद्धेः पदम् एवमधिकतम हीनस्थितिबन्धलक्षणमल्पतरविशेषरूपमुत्कृष्टहानेः पदम् तथा उत्कृष्टवृद्धिहान्यन्यतरस्योत्तरसमये प्राप्यमाणमुत्कृष्टावस्थानपदमधिकृत्य, इत्थमेव वैपरीत्येन विवक्षितसमयादनन्तरोत्तरसमये जायमानं स्तोकतमवृद्धस्थितिबन्धलक्षणं भूयस्कारविशेषात्मकं जघन्यवृद्धेः पदम् तथैव वैपरीत्येन जघन्यहानेः पदम् जघन्यावस्थानपदं चाधिकृत्य सत्पदादयश्चिन्तयिष्यन्तेः इत्येवं भूयस्काराधिकारापेक्षयाऽस्य पार्थक्यम् । वृद्धयधिकार इत्यत्र वृद्धिपदमपि हान्यादेरुपलक्षकं, तत्र वृद्धिहनिश्च प्रत्येकं संख्येयगुणा-ऽसंख्येयगुण-संख्येयभागा-ऽसंख्येयभागभेदाच्चतुर्वैव न पुनरनन्तभागा-ऽनन्तगुणभेदाइत्यविधाऽपि सर्वोत्कृष्टस्याऽपि स्थितिबन्धस्याऽसंख्ये+समय प्रमाणत्वेनाऽन्तगुणवृद्धिहान्योरसम्भवात् । तत्र भूयस्कारोऽधिकवन्धरूपतया वृद्धिरूपः, अल्पतरबन्धस्तु हीनबन्धरूपतया हानिरूपः, अवस्थानावक्तव्यौ तु भूयस्काराधिकारे वक्ष्यमाणाऽवस्थिता " 1 " Jain Education International , [ ७ For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy