________________
६
।
बंधविहाणे मूलपयडिठिइबंधो
[ अधिकाराऽभिधानम् आचार्यादयोऽपि गुरुपदाभिधेयाः, तेषां 'प्रसादात्'-अनुग्रहात् । विशेषतस्तु-यस्यान्तिके निवसन् सम्यक्त्वादिविशिष्टगुणगौरवशागभवं तस्याविरतिकूपादुद्धत्य संयमसुवर्णगिरावारोहकस्य प्रकृतग्रन्थसङ्कलने प्रकृष्टप्ररणाप्रदातुर्गच्छाधिपतेराचार्यदेवश्रीमद्विजयप्रेमसूरीश्वरगुरोःप्रसादादिति । अनेन च स्वस्यौद्धत्यं परिहतम् , तथा गुरुकुलवासे निवसता मयाऽयं ग्रन्थो गुम्फित इत्येवं दर्शयता शास्त्रसम्बन्धश्चाभिहितः । तथाहि-यथा मयाऽयं ग्रन्थो गुरुनिश्रया तदाज्ञापुरस्सरं विनिर्मितस्तथा मद्गुरुणा स्वीयगुरोनिश्रयाऽध्ययनादिकं कृतम् , एवं पूर्व पूर्व चरणेन यापत् श्रीमताऽऽर्यजम्बूस्वामिना स्वीयगुरुसुधर्मागणधरेभ्य आगमायनं सम्पादितम् , तैश्च स्वीयगुरुश्रीमतीर्थकरभगवतः सकाशादर्थतः समुपलब्धमिति । इत्थं च प्रकृतग्रन्थस्य स्वेच्छापरिकल्पितत्वाऽऽशङ्काऽनवकाशीकृता, शिष्यैः सर्वकार्याणि गुरुनिश्रयाऽऽचरितव्यानीत्युपदिष्टं चेति । अयं हि सम्बन्धः श्रद्धानुसारिणं प्रति बोद्धव्यः, तर्कानसारिणं प्रति त्वसौ साध्य-साधनभावलक्षणः साक्षादनक्तोऽपि विज्ञेयः ; तथैव प्रयोजनमपि । यतः प्रयोजनमनन्तरपरम्परभेदाद् द्विविधम् , तदपि शास्त्रकृच्छोतृभेदाद् द्विधा भवति । तत्र शास्त्रकर्तुरनन्तरं प्रयोजनं भव्यजनबोधानुग्रहः , श्रोतृणां त्वनन्तरप्रयोजनं शास्त्रतचावबोधः,उभयोरपि परम्परप्रयोजनमपवर्गावाप्तिलक्षणम् , तस्यैव पुरुषार्थप्राधान्यात् सम्यग्दृशामभिप्रेतत्वाच्च । न चैतदनेन शास्त्रेण कथं सेत्स्यतीति वाच्यम् , प्रकृतशास्त्रस्य सम्यग्ज्ञानहेतुत्वेन श्रेयोभूतत्वात् पारम्पर्येण श्रेयोजनकत्वाच्च तत्सिद्धरित्यलं विस्तरेणेति ॥१॥
तदेवं विघ्नविघाताय कृतमङ्गलाचरणादिरधिकृताऽभिधेयाभिधानविषयप्रतिज्ञां निर्वाहयितुमना मन्दबुद्धीनां निर्मोहनहेतवे मूलप्रकृत्युत्तरप्रकृतिभेदभिन्नायां स्थितिबन्धप्ररूपणायामादौ तावन्मूलप्रकृतिस्थितिबन्धाधिकारनामानि तद्गतद्वारसङ्ख्यया सह दर्शयन्नाह
मूलपयडिठिइबंधे छहिगारा पढम-बीअ-भूगारा । पयणिक्खेवो वड्ढी अज्झवसाणसमुदाहारो ॥२॥ तेसु पढमाईसु अहिगारेसु चउरो य पंचदस ।
तेरस तिण्णि य तेरस तिण्णि कमा हुन्ति दाराणि ॥३॥
(०) “मूलपयडिठिइबंधे” इत्यादि, मौलानां शतकचूादिषूक्तनिरुक्तादीनां ज्ञानावरणादीनामष्टप्रकृतीनां "ठिइबंधे" त्ति भणितुमारब्धे स्थितिवन्धग्रन्थे "छहिगारा" त्ति 'षडधिकाराः' - स्थितिवन्धमामान्यमनुपेक्ष्य तत्तस्थितिबन्धस्थानाधधिकृतविशेषविषयप्रतिपादनपराः, सन्तीति शेषः । तानेव नामत आह-"पढमबोअभूगारा" इत्यादि, तत्र "पढम" त्ति द्वितीयाधिकारेष्ववक्ष्यमाणानां स्थितिबन्धस्थानाल्पबहुत्वादीनां नानाऽर्थानां प्रतिपादनपरः स्थितिबन्धस्थानाधधिकारः प्रथमाधिकारतया बोद्धव्य इत्यर्थः। “बीअ"त्ति द्वितीयोऽधिकारः,अयमपि उत्कृष्टादिस्थितिबन्धप्रमाण-तत्स्वामित्वतत्साद्यादि-तत्कालादिद्वाराण्यधिकृत्य भिन्न भिन्न विषयोऽपि स्थितिबन्धसामान्यप्रतिपादनादपरिच्युतः 'दुइए अहिगारे अह' इत्यादिना वक्ष्यमाणाधिकारो द्वितीयाधिकारतया विज्ञेयः । “भूगार" ति भूय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org