________________
मङ्गलम् ]
अनुबन्धचतुष्टयम् स्वामी, पति थ इत्यादीनामनर्थान्तरत्वात् । यदाहुहेमचन्द्रसूरिपादा अभिधानचिन्तामणौ"पतीन्द्रस्वामिनाथार्याः प्रभुतेश्वरो विभुः" इत्यादि । अथवा स्पृशति ज्ञानेन सर्वभावानिति पावः, यदा गर्भस्थे भगवति जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः । 'प्र' इति प्रकर्षार्थोऽव्ययः,ततश्च प्रकर्षण-प्राक् तृतीयभवनिकाचिततीर्थकरनामकर्मोदयाद्भव्यजनगणोद्धरणैककरणशासनस्थापनाय भवति इति प्रभुः “शं-सं-स्वयं-वि-प्राद्भुवो डुः” इति डुप्रत्ययः (५।२।८४। सिद्धहेम०)। पार्श्वश्चासौ प्रभुश्चेति पार्श्वप्रभुः। श्रिया-कालिकनिखिलभावावभासिन्या केवलज्ञानलक्ष्म्याऽष्टप्रातिहार्यलक्षणया शोभया वा समन्वितः पार्थप्रभुरिति श्रीपार्थप्रभुः तम् ।
किं विशिष्टं श्रीपाश्वप्रभुमित्याह- 'निस्सोमशक्तिसंयुक्तम्'निस्सीमा-निर्गतमर्यादा या शक्तिः-वीन्तिरायकर्मणः सर्वथा क्षयात्प्रादुर्भूता आत्मगुणरूपा वीर्यापरपर्याया, तया संयुक्तः-भेदाभेदसम्बन्धेन सम्बद्धस्तम् निस्सीमशक्तिसंयुक्तम् ; अपरिमितबलवैभवसंपन्नमिति यावत् । उक्तं च"जं केसवत्स उ बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ।। इति ।
पुनः किं विशिष्टमित्याह-"जीराउलणाह"ति पूरा जीरापल्ल्याख्यया वर्तमाने तु जीराउला इति नामधेयेन विख्यातं यत्स्थावरं तीर्थं तस्य नाथम् ,पार्श्वप्रभोस्तत्र प्रतिष्ठितत्वेन तत्तीर्थस्य सेवकानां योग-क्षेमभावात् । ननु अश्वसेननृपनन्दनस्य पाचप्रभो रापल्ल्यां प्रतिष्ठानं न कुत्रचित् श्रूयते, तत्कथं पावप्रभोस्तत्रावस्थानमूलकं जीरापल्लीतीर्थावलम्बिनां योगक्षेमत्वप्रतिपादनं संजाघटीति ? इति चेत् , उच्यते, भारतीर्थकरस्य श्रीपाचप्रमोस्तत्रावस्थानाभावेऽपि स्थापनाद्वारेण तु पार्श्वप्रभोरवस्थानं तत्र विद्यत एव । न च तेन प्रभोः किमायातं येन पार्श्वप्रभोस्तत्र प्रतिष्ठानं कथ्यत इति वाच्यम् , स्याद्वादिभिर्नाम-स्थापनादीनां कथञ्चिद्भदस्येव कथञ्चिदभेदस्याप्यभिमतत्वेन तत्स्थापनावस्थानेऽपि तदवस्थानकथनस्याविरोधात् । अत्र प्रार्श्वप्रभोजीराउलानाथत्वं तु जीरापल्लीतीर्थोत्पत्तिव्यतिकरादेवाऽवसेयम् । स च व्यतिकरः पण्डितप्रवरश्रीमत्सोमधर्मगणिविरचितायामुपदेशसप्ततिकायाम्
___ "श्रीजीरिकापल्लिपुरीनितम्बिनी,-कण्ठस्थले हारतुलां दधाति यः ।।
प्रणम्य तं पाश्र्वजिनं प्रकाश्यते, तत्तीर्थसम्बन्धकधा यथाश्रुतम् ।। १ ।। पुरा नन्दाभ्रे श(१५०९) संख्ये, वर्षे ब्रह्माणनामनि । महास्थाने भूरिजैन, शैवप्रासादसुन्दरे ॥१॥" इत्यादिना ग्रन्थेन विस्तरतः प्रदर्शितः, स च जिज्ञासुना तत एव विज्ञेयः ।।
तदेवं 'जिराउलणाहं बंदिअ णिम्सीमसत्तिसंजुत्तं सिरिपासपहुं' इत्यनेन मङ्गलं निबद्धम् , 'भासिमु ठिइबंध' इत्यनेनाभिधेयं च कथितम् । साम्प्रतं सम्बन्धमभिधित्सयाऽऽह-"गुरुपसायाओ" त्ति गृणाति तचमिति गुरुः-सम्यक तत्वोपदेष्टा, स चार्थमधिकृत्य श्रीमत्तीर्थकरभगवान् , सूत्रापेक्षया तु श्रीमद्गौतमगणधराद्याः सूरयः। यतः सूत्रलक्षणमिदम्
"सुत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं,अभिन्नदसपब्विणा रइयं ।।” इति । यद्वा सूत्रार्थतो वाचनादिदातृणामपि तत्वोपदेशकत्वमविरुद्धम् , ततश्चास्मदादीनां गुरुपर्यन्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org