________________
बंधविहाणे मूलपयडिठिइबंधो
[ अभिधेयनिर्देशः ___ इदमुक्तं भवति-यदा हि मिथ्यात्वादिपरिणत्या परिणत आत्माऽञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलेभ्यः स्वाऽवगाढक्षेत्रगताननन्तान् पुद्गलस्कन्धान् लोहाऽग्निसंयोगवदत्यन्तसम्बन्धकरणद्वारेण कर्मतया परिणमयति तदा तेषु पुद्गलस्कन्धेषु यथा ज्ञानाद्यात्मगुणावरोधस्वभावः समुत्पद्यते, तथा तेष्वेव पुद्गलेषु तदानीमेव तात्कालिककापायिकपरिणत्यनुरूपो योऽन्तमुहूर्तादित्रिंशत्सागरोपमकोटीकोट्यादिकालं यावत्तेनैव रूपेणात्मप्रदेशेष्ववस्थानस्वभावोऽपि शक्ति विशेषरूपः संजायते, येन पश्चादुदीरणादिकरणजन्यबाधाया अभावे तानि कर्मपुद्गलानि तेन रूपेण तावन्तमन्तमुहर्तादिकालं यावदात्मप्रदेशेषु तिष्ठन्ति, स स्थितिबन्ध उच्यते ।
उक्तं च शतकवृत्तौ
__“स्थितिः कर्मणोऽवस्थानशक्तिः, तस्या बन्धः स्थितिबन्धः' इति । अन्यत्राप्युक्तम्-"इति कर्मणः प्रकृतयो मूलाश्च तथोत्तराश्च निर्दिष्टाः ।
___तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः ॥” इति । एवंस्वरूपं स्थितिवन्धं "भासिमु" ति भाषामहे, “सत्सामीप्ये सद्वद् वा” (सिद्धहेम० ५।४।१) इत्यनेन वर्तमानकालस्य सामीप्ये भविष्यत्यर्थे वर्तमानप्रत्ययः, ततश्चाविलम्बेन भाषिष्यामहे, प्रकृतिबन्धवन्नानाऽधिकारद्वाराथुपन्यासेन वर्णयिष्याम इति भावः । अनेन वक्ष्यमाणग्रन्थविषयप्रतिज्ञां कृतवान् ।
ननु पूर्वमेव-"भणिमु सपरसेयत्थं बंधविहाणं जहासुत्तं" इति वदता ग्रन्थकृता बन्धविधाने भणनीयतया प्रतिज्ञाते तदेकदेशरूपः स्थितिबन्धोऽपि भणनीयतया प्रतिज्ञात एव, किं पुनरपि प्रतिज्ञाकरणेन ? इति चेद, न, “चिरतः प्रकृतिबन्धं शण्वन्तोऽवधारयन्तश्च विनेयाः ‘साम्प्रतमपि प्रकारान्तरेण प्रस्तुतं प्रकृतिवन्धमेव प्रतिपादयन्ति गुरवः' इत्येवं प्रकृतिबन्धश्रवणोद्देशेन तत्रैव दत्तचित्ताः स्थितिवन्धं सम्यग् नैवावधारयेयुरन्यमनस्कतया वा विपरीतं मा गृह्णोयु"रिति परहितपरायणचेतसा ग्रन्थकृता शिष्यमनसि वक्ष्यमाणस्थितिवन्धविषयकशुश्रपाप्ररोहणाय प्रकरणप्रारम्भे यथोक्तप्रतिज्ञा कृता, अथवा वक्ष्यमाणस्थितिवन्धग्रन्थो बन्धविधानकदेशरूपः सन्नपि स्वस्थान एव नानाऽधिकारादीन संगृह्णन्नतिमहत्कायतया ग्रन्थान्तररूप एव, अत एवात्र 'जीराउलणाह' इत्यादिनाऽऽदिम-मध्यमादीनि मङ्गलान्याचरिष्यति ग्रन्थकारः । इत्थं हि ग्रन्थान्तरवत्प्रकृतग्रन्थप्रारम्भेऽपि मङ्गलाद्यनुबन्धचतुष्टयमभिधातव्यम् , तत्र स्थितिबन्धभणनप्रतिज्ञाकरणद्वारेणानुबन्धचतुष्टयान्तगर्तमभिधेयमेव ग्रन्थकृता ग्रन्थप्रारम्भे कथितमिति न किश्चित्पुनर्वचनमिति ।
___ अथ प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये कृतमिष्टदेवतानमस्कृत्यात्मकं मङ्गलं शिष्टजनानुवृत्ता शिष्यजनानुशास्त्यै च ग्रन्थे निवघ्नन्नाह-"जीराउलणाह” इत्यादि,जीराउलनाथं निस्सीमशक्तिसंयुक्तं श्रीपार्श्वप्रभु वन्दित्वेति क्रियान्वयः, तत्र वन्दित्वेति निर्मलमानसप्रणिधानोपेतेन वचोयोगेन संस्तुत्व काययोगेन प्रणम्य चेत्यर्थः; “वदुङ् स्तुत्यभिवादनयो"रिति वचनात , कं वन्दित्वेत्युक्तं 'श्रीपाश्र्वप्रभु' पार्थाभिधस्य वैयावृत्यकरयक्षविशेषस्य प्रभुः-अर्य इति पार्श्वप्रभुः; अर्यः, प्रभुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org