________________
द्रव्यानुयोगमाहात्म्यम ] अनुबन्धचतुष्टयम्
[३ _ इह खल्वनवरतं सम्परायादिसंतापसमूहसंतप्तासुमत्सम्पूरिते संसारकान्तारे कथमपि सुदुर्लभं मानुध्यं सुकुलोत्पत्यादिमोक्षसामग्री च समुपलभ्य स्वहितेप्सुभिर्भव्यैः केवलालोकलोकितलोकालोकेन सकलसंसृतिसम्भवरागद्वेपादियुग्मवियुक्तेन प्रणताखिलाखण्डलोष्णीपरत्नरोचिविलिप्तपादपीठेन श्रीमता भगवता तीर्थकृता समुपदिष्टः श्रेयोमार्गः समाराधनीयः, स च सम्यग्दर्शन-ज्ञान-चारित्रलक्षणः ।
उक्तं च वाचकमुख्यः
" 'सम्यग्दर्शन ज्ञान-चारित्राणि मोक्षमार्गः” इति ॥ (तन्वार्थसूत्रम् ॥१॥१॥)
सम्यग्दर्शन-ज्ञान-चारित्रत्रयं प्रति द्रव्यानुयोगः परमोपकारी भवति । तथाहि-द्रव्यानुयोगे उत्पत्यायकान्तवादिदुर्नयैः स्वीकृतं प्रथितं च सकलभावानामपारमार्थिकस्वरूपं निराकृत्य सुनयप्रमाणबलेन स्याद्वादाधीनं जीवाजीवादिसर्वभावानामुत्पाद-व्यय-ध्रौव्यात्मकं तात्त्विकं सत्वं संस्थाप्यते, ईदृग्द्रव्यानुयोगेन तत्वविषयकविप्रतिपत्तेव्यु'दासात् तच्चश्रद्धानलक्षणस्य सम्यग्दर्शनस्य दाढ्य मुपजायते । तथैव द्रव्यानुयोगे स्याद्वादसिद्धानां जीवाजीवादिभावानां तत्त्व-भेद-पर्यायः सत्पद-स्वामित्व-द्रव्यप्रमाणक्षेत्र-स्पर्शन-काला-ऽन्तर-भावादिभिरनुयोगद्वारैश्च चिन्तनस्यापि प्रस्तुतत्वात् सम्यक् तत्वावबोधो भवति । किश्च तत्त्वमेदादिभिर्जीवाजीवादिभावान् विभावयतः शास्त्रविहित-प्रहरपञ्चकीयस्वाध्यायं निर्वहतः संयतवर्गस्य चेतोवृत्ती बाह्यनिमित्ततस्सम्भाव्यमानोत्पत्तिकानां वैषयिक-कापायिकवृत्तीनां निरवकाशीकरणद्वारेण चारित्रं प्रत्यपि द्रव्यानुयोगस्यानुपमोपकारित्वं सुसिद्धमस्ति । इत्थं हि द्रव्यानुयोगस्य रत्नत्रय्युपकारकत्वात् पूर्वाचार्यैर्यथा चरणकरणायन्यानुयोगविषयाणि प्रकरणानि विरचितानि तथा द्रव्यानुयोगमहोदधिदृष्टिवादैकदेशतः शतक-कर्मप्रकृत्यादयोऽनेके ग्रन्था विनिर्मिताः, ते चातिगभीरार्थाः संक्षिप्ताश्चेति कृत्वा पश्चादन्यैराचार्यविवृताः । एतेषु शतक-कर्मप्रकृत्यादिग्रन्थेषु तच्चूणि वृत्ति-टीप्पन्नकादो च कर्मणो बन्धविषयाः साक्षादर्थतश्च पृथक् पृथगभिहिता ये पदार्थास्तान् प्रज्ञापनाद्यागमप्रसिद्धसत्पदाद्यनुयोगद्वार-गत्यादिमागंणास्थानेषु सविस्तरं विचिन्त्य संकलय्य च निर्मिते बन्धविधानाख्ये प्रकृतग्रन्थे प्रवेष्टुकामानां स्वाध्यायपरायणचेतसां साध्वादीनां सुखप्रवेशार्थं तस्य प्रकृतिस्थित्य-नुभाग-प्रदेशबन्धप्रयुक्ताश्चत्वारः खण्डग्रन्थाः प्रकल्पिताः तत्कृता । तत्राये नानाविधैर्भिन्नभिन्नाधिकारद्वारादिभिः प्रकृतिवन्धं निरूप्य क्रमप्राप्तं स्थितिबन्धं निरूपयितुमना मङ्गलादिपूर्वकं प्रारभते
अह जीराउलणाहं वंदिअ णिस्सीमसत्तिसंजुत्तं । सिरिपासपहुं भासिमु ठिइबंधं गुरुपसायाओ ॥ १ ॥
(प्रे०)"अह जीराउलणाहं" इत्यादि, अत्र अथशब्द आनन्तर्ये, ततश्च प्रकृतिबन्धनिरूपणाऽनन्तरम् ,न तु सर्वप्रथममित्यर्थः, अस्य च “भासिमुठिइबंध" इत्यनेन योगः । तत्र स्थानं स्थितिः 'स्त्रियां क्तिः' (५।३.११) इत्यनेन भावे क्तिप्रत्ययः; स्थीयतेऽनया स्थितिः करणे क्तिप्रत्ययो वा । प्रथमतो बध्यमानत्वेनोपस्थितानां कर्मपुद्गलानामात्मप्रदेशेषु क्षीरनीरवदत्यन्तसंयोगेनाऽवस्थानमित्यर्थः । तस्याः स्थितेरियत्तानिर्माणं स्थितिवन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org