________________
बंधविहाणे मूलपयडिठिइबंधो [ टीकाकारमङ्गलवचनानि 'भव्येभ्यः सुखदां जिनेन्द्र मुखजां वाचं निशम्योन्नतां,
प्रवज्यां प्रतिपद्य वीरविभवे यैरपितं जीवनम् । यन्नामाऽपि निहन्ति पापतिमिरं मार्तण्डरश्म्योपवद् ,
वन्देऽहं शिवकाङ्क्षया गणभृतां वृन्दं हि तेषां मुदा ॥३॥ शतक-कपायप्राभूत-कर्मप्रकृतीः ससर्जु राप्ता ये । तालां चूणि वृत्तिं प्रवितेनुश्चूर्णिटीप्पनकम् ।।४।। कर्मग्रन्थावान्यान् कर्मविपाकादिभेदतो भिन्नान् । कृतवन्तो ये कर्मस्वरूपवेद्युडुविसरचन्द्राः ॥५॥
'विजयन्तां भुवि ते शिवशर्माचार्या-ऽऽर्यमगुगुर्वाद्याः ।
श्रीनागहस्तिपादा नन्दावभिनन्दिताश्च यतिवृषभाः ॥६॥ श्रीमन्मुनिचन्द्राश्च श्रीदेवेन्द्रविजयाच सूरिवराः । मलयगिरिजसमसमरसभाजो मलयगिरिसूरीन्द्राः ॥७॥ मलधारीया हेमाचार्या न्याये विशारदा नव्ये । बुधवर्ययशोविजया यावच्छीप्रेमसूरयो गुरवः ॥८॥
(पश्चभिः कुलकम) *दोषद्रुमौघदाहाय, येन दावानलायितम् । गुणगुल्मप्ररोहाय, मेघधारायितं तथा ॥९।। *ज्ञातागमरहस्याय, + ज्योतिर्विद्गच्छपायिने । सूरये दानपूर्वाय, तस्मायस्तु नमो नमः ॥१०॥
(युग्मम्) यस्य प्रसादवशतो व्रतमध्यगच्छम् , यस्यान्तिके च वसता स्थिरताऽप्यवाप्ता । यस्य ध्रुवं समयशिक्षणतो विबुद्धः, स प्रेमसूरिगुरुराड् जयतात्सदैव ॥११।। "कृत्वा तीव्र तपोऽपि ब्रुवत उपसृतान् मुक्तिमार्ग जनान् ये,
शास्त्राण्यध्यापयन्ति प्रणतमुनिगणं सारयन्ति प्रयासैः । पूज्यास्ते मे गुरूणां गुरव उपगता देशनायां पटुत्वम् ,
पंन्यासा भानुज्ञा ददतु वरमति तर्कशास्त्रे * नदीष्णाः ।।१२।। 'दुस्सह्यमामं सुसमाधिना ये, सोढ्वा विनाश्याऽशुभकर्मचक्रम् ।
स्वर्गं गतास्तान हितदान हितार्थं, पंन्यासपद्माख्यगुरून् नमामि ।।१३।। भवति खलु जडोऽपि प्राज्ञसेव्यः कवीन्द्रः, कलकवनविधायी संततं यत्प्रसादात् ।
सरससरलटीकां कतु कामस्य मे सा, झगिति भवतु देवी भारती भव्यस्फूत्य ।।१४।। *ग्रन्थेऽस्मिन्नतिगूढार्थे, साहाय्यकं व्रतिव्रजम् । नत्वा स्वपरभद्राय, स्थितिवन्धः प्रतन्यते ॥१५॥
१शार्दूलविक्रीडितम् । २प्रार्या । गीतिः । * अनुष्टुप् । “वसंततिलका । स्रग्धरा । इन्द्रवज्रा । मालिनी। Aकर्मस्वरूपस्य वेदिन एव उडूनि तारकाः, तेषां विसरः समूहः, तत्र चन्द्रा इव चन्द्राः, शेषाऽतिशायिभास्वत्त्वादिति । +ज्योतिर्विच्चासौ गच्छपायीति कर्मधारयस्ततश्चतुर्थी। ॐ प्रवीण इत्यर्थः, तदुक्तं शेषनाममालायां कलिकालसर्वज्ञश्रीहेमचन्द्ररिपादै:-'अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि' इति । अर्बुदाभिधम् , केन्सर इति लोके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |