________________
तत्राsसत्कल्पना ]
प्रथमाधिकारे स्थितिबन्धस्थानद्वारम्
[ १३
चतुर्भेदेषु प्रत्येकं स्थितिबन्धस्थानानां पल्योपमासंख्येयभागप्रमाणत्वेऽप्यसंख्येयस्यासंख्येय भेदभिन्नतया न कश्चिद्विरोधस्तथात्रापि विरोधाभाव एवेति ।
अत्र मन्दबुद्धिव्युत्पादनार्थमसत्कल्पनया त्रिगुणप्रभृतेर्यावत्पञ्चदशगुणानि तावत्संख्येयगुणानीति कल्प्यन्ते, विंशतिगुणादीनि त्वसंख्यगुणानीति कल्प्यन्ते, तथाऽसत्कल्पनयाऽपर्याप्तसूक्ष्मैकेन्द्रियस्य जघन्यस्थितिबन्ध एकाधिकलक्षसमयप्रमाणो (१००००१) जायते, तस्यैवोत्कृष्टस्थितिबन्धः पल्योपमासंख्येयभागेनाभ्यधिक इति पञ्चाधिकलक्षसमयप्रमाणो (१००००५) जायते, अतस्तस्य स्थितिबन्धस्थानानि पञ्च लभ्यन्ते । पतप्तसूक्ष्मैकेन्द्रियस्य जघन्यस्थितिबन्धापेक्षयाऽपर्याप्तवादरै केन्द्रियस्य जवन्यस्थितिबन्धो विशेषहीनो भवति, स चात्र पडशीत्यभ्यधिकनवशतयुतनवनवतिसहस्रसमयप्रमाणः (६६६८६ ) कल्प्यते, तस्यैवोत्कृष्ट स्थितिबन्धो योऽपर्याप्तसूक्ष्मैकेन्द्रियोत्कृष्टस्थितिबन्धापेक्षया विशेषाधिको जायते सः पञ्चाशदधिकलक्षसमयप्रमाण ( १०००५० ) कल्प्यते, तथा च सत्यपर्याप्तवादरैकेन्द्रियस्य स्थितिबन्धस्थानानि पञ्चषष्टिः (६५) प्राप्यन्ते तानि चापर्याप्तसूक्ष्मैकेन्द्रियस्य स्थितिबन्धस्थानापेक्षया त्रयोदशगुणानीति संख्येयगुणान्यभवन्, त्रिगुणादारभ्य पञ्चदशगुणपर्यन्तानामनन्तरमेव संख्येयगुणतया परिकल्पितत्वात् । बादरापर्याप्तस्य जघन्य - स्थितिबन्धापेक्षया पर्याप्तसूक्ष्मैकेन्द्रियस्य जघन्यस्थितिबन्धो विशेषहीन इत्येकनवत्यभ्यधिकसप्तशतान्वित नवनवतिसहस्रसमयप्रमाणो (६६७६१) जायते, तस्यैवोत्कृष्टस्थितिबन्धः पुनरपर्याप्तबादरापेक्षया विशेषाधिक इति पञ्चत्रिंशदभ्यधिकषट्शतयुतलक्षसमयप्रमाणो (१००६३५) भवति, तथा च सति पर्याप्तसूक्ष्मैकेन्द्रियस्य स्थितिबन्धस्थानानि (८४५) पञ्चचत्वारिंशदभ्यधिकाष्टशतान्यभवन्, तानि चापर्याप्तबादरस्य स्थितिबन्धस्थानाषेक्षया त्रयोदशगुणानीति संख्येयगुणान्येव । पर्याप्तसूक्ष्मै केन्द्रियजघन्य स्थितिबन्धापेचया पर्याप्तवादरै केन्द्रियस्य जघन्य स्थितिबन्धो विशेषहीन इति षट्पञ्चाशद्भ्यधिकशतद्वयसमन्वितसप्तनवतिसहस्रसमयप्रमाणो (६७२५६) जायते, तस्यैवोत्कृष्ट स्थितिबन्धः पर्याप्तसूक्ष्मोत्कृष्टस्थितिबन्धापेक्षया विशेषाधिक इति चत्वारिंशदभ्यधिकशतद्वय युताष्टसहस्रान्वितलक्षसमयप्रमाणो (१०८२४०) भवति, तथा च सत्यस्य पर्याप्तत्रादरस्य स्थितिबन्धस्थानानि (१०९८५) पञ्चाशीत्यभ्यधिकनवशतयुतदशसहस्राण्यलभ्यन्त तानि तूपर्युक्तेभ्यः पर्याप्तसूक्ष्मैकेन्द्रियस्थितिबन्धस्थानेभ्यस्त्रयोदशगुणानीति संख्येयगुणान्यभवन् । द्वीन्द्रियस्य जघन्यस्थितिबन्ध उत्कृष्टस्थितिबन्धश्वोभावपि पर्याप्तबादरैकेन्द्रियस्योत्कृष्टस्थितिबन्धापेक्षया संख्यातगुणौ भवतः, तत्र यो द्वीन्द्रियस्य जघन्यस्थितिबन्धः सोऽत्रासत्कल्पनया षष्ट्यभ्यधिकपञ्चशतान्वितद्विसप्ततिसहस्रयुतनवलक्षसमय प्रमाणो (६७२५६०) गृह्यते, स चैकेन्द्रियस्योत्कृष्ट स्थितिबन्धापेक्षयाऽऽसन्नदशगुण इति संख्येयगुणोऽभवत्, द्वीन्द्रियस्योत्कृष्ट थितिबन्धस्तु षष्ट्यभ्यधिकशतद्वययुतद्विनवतिसहस्रान्वितैकादशलक्षसमयप्रमाणो
(११६२२६०) जायते, तथा च सति द्वीन्द्रियस्य स्थितिबन्धस्थानानि सप्तशताभ्यधिकैकोनविंशतिसहस्रयुतलक्षद्वयं (२१६७०० ) प्राप्यन्ते तानि च पर्याप्तवाद केन्द्रियस्य स्थितिबन्धस्थानापेक्षया विंशतिगुणानीत्यसंख्येयगुणान्यभवन् इत्थमेवोत्तरवर्तिस्थानेष्वपि यथासम्भवं द्रष्टव्यमिति ॥
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org