________________
* श्रीदानसूरीश्वरप्रभृतीनों प्रशस्तिः ] टीकाकृत्प्रशस्तिः वीराच्छरोदधि(७५)मिते श्रुतहार्दवेदी, ज्योनिष्कविच्च कमलाभिधसूरिपट्टे ।
श्रीवीरपूर्वविजयोत्तरपाठकानां, सूरीन्द्रदानविजयो हि बभूव शिष्यः ॥२२॥ (वसंत०) स श्रेयसेऽस्तु सततं समजारतोच्चैः, मच्चूर्णि-भाष्य-विवृतिप्रमुखं प्रमथ्य । यद्दत्तसूत्तरसमूहनिवद्धमाला, तचं बुभृत्सुकृतिनां वरपाठमाला ॥२३॥ (वसंत०)
(युग्मम) तत्पट्टे जयति प्रशस्तचरणः श्रीप्रेमसूरिप्रभुः,
सेव्यः सार्धशतद्वयाधिकमुनित्रातेन वात्सल्यभूः । कर्मवातविदाणैकसुभटः सर्वत्र वै सम्मतः,
कर्मग्रन्थविचारणेऽतिचतुरः सिद्धान्तपारङ्गतः ।।२४।। (शार्दुल०) काणादैरसुमद्गणानतिगतं सांख्यैः प्रधानोद्भवं,
योगाचारमते किमप्यभिमतं यद्वासनासंज्ञकम् । मायाह्वतु मतं कथञ्चिदपि यद् वेदान्तिकैश्चात्मनो,
.. मुक्ता-ऽमुक्तविधेः प्रणायकमसत् तचं हि यस्यां तकत् ।।२५।। (शादुल) हृद्याधुक्तिभरादपाकृतमतिप्रौढप्रतिज्ञायुतात् ,
सूक्त्या पौद्गलिकं जिनेन्द्रवचनाज्ज्ञातं च संस्थापितम् । म्याद्वादप्रतिभाभृता विरचिता सा कर्मसिडिस्तथा, सृष्टं चारु च येन यन्त्रकलितं सत्संक्रमश्रन्थनम् ॥२६।। (शादुल.)
(युग्मम्) दृब्धं च मार्गणाद्वार-विवरणं सुविस्तृतम् । अन्यान्यग्रन्थकुत्प्रोक्त-नियुक्त्यादिसमन्वितम् ।।७२ (अनु०)
किंबहुना भणितेन खलु प्रथितेन हि येन बुधप्रभुणा,
__ स्वीयमनोजमतिश्रमगुम्फ्यमिदं वरबन्धविधानमरम् *। गुम्फयितु मुनिवर्गमिहाऽध्ययनादिश्रुतं सततं प्रणतं,
वीक्ष्य नियुज्य निजे च करे प्रविधाय कुशां रचितं विशदम् ।।२८५ (मदिरा०) गृहस्थितस्वपित्रेऽपि, सद्गतेरनुबन्धिनी । संस्तारकस्य दीक्षा हि, दापिता येन धीमता ॥२९॥ (अनु०) येन व्यधायि जिनबिम्बगृहप्रतिष्ठा, दीक्षाविरोधनियमस्य विरोधनं च ।
अन्यत्कृतं बहुविधं प्रवचःप्रभावि, ब्रूमः कथं यदनलो धिषणोऽपि यत्र ।।३०।। (वसंत०) शिष्यस्तदीयोऽपि हि भानुनामा, पंन्यासमुख्यो जितभानुधामा ।
नक्तंदिवं तचविभासकत्वाद् , भव्योपकारव्यसनीव भाति ॥३१॥ (इन्द्रवज्रा०) ★ झटितीत्यर्थः, उक्त च-"द्राक् स्राग-रं झटित्याशु" इत्यादि । । सूत्रम् , व्यवस्थामिति यावद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org