________________
६६८]
बन्धविहाणे मूलपयडिठिबंधो [टीकापिरपाकालापि येनाऽप्यनेके सरलाः समर्था, वालावयोधा रचिता हि हृयाः ।
श्रीपञ्चसूत्रप्रमुखस्य भाषा,-टीकाश्च भाष्यादि दोहनाद्याः ॥३२॥ * ग्रन्थाः स पातु प्रगुरुयशस्वी, व्याख्याविधाने निपुणस्तपस्वी । त्यक्तप्रमादो गुरुपादवासी, सत्तकैवेदी सततं हि युष्मान् ॥३३।। *
(युग्मम) आसीत्तदीयोऽपि य आधशिष्यो, भ्राता कनीयान् सहदीक्षितश्च ।
सारल्यकृष्टाऽखिलसाधुचित्तो, वैराग्यदीप्त्या सततं च दीप्तः ॥३४॥ * गच्छस्य भक्त्यै कृतसुप्रयासः, संप्राप्तगच्छाधिपचित्तवासः । दोहं निशोथ प्रभृतेर्व्यधाद्यः, पंन्यासपद्माख्यगुरुः स पातु ॥३५॥ *
(युग्मम् ) मुमुक्षुप्रजायाश्चरित्रस्य शुद्ध्यैरनन्यस्य तस्य प्रभोः पद्मनाम्नः ।
जगच्चन्द्र नाम्ना विनेयेन हृद्याऽनवाप्तेऽपि तच्चे गुरूणां प्रभावात् ॥३६॥भुजङ्गप्र० पूज्यानुरोधेन तदीयतुष्टयै, अन्यान्यशास्त्रादुपलब्धतच्चम् । आदाय सम्यग् रचिता मयैषा, प्रेमप्रभाख्या स्थितिवन्धटीका ॥३७॥ *
(युग्मम् ) निष्ठापितेयं खलु वीरवर्षे हस्तीभवेदाक्षि(२४८८)मिते सुरम्ये ।
मासे च शुक्र मरुदेशमध्ये, बेडाख्यपुर्या बसता सुखेन ।।३८|| * संशोधितेयं तु गणाधिपैर्हि, श्रीप्रेमसूरिप्रभुभिश्च तज्ज्ञैः । शिष्यैस्तदीयैः समयार्थविद्भिः, सूरीन्द्रजम्बूविजयैः परैश्च ॥३९।। * आगमकर्मप्रकृतिप्रमुखेषु च तेषु तेषु शास्त्रेषु ।
सूक्ष्मधियां गम्येषु विहितातिशायिप्रयत्नैर्हि ॥४०॥ (पथ्या०) ऐक्षि जयघोष-धर्मानन्दविजय-वीरशेखरप्रमुखैः । ___ सहवर्तिमुनिप्रवरैः कृतयत्नः सोपयोगैश्च ।।४१॥ (पथ्या०)
(त्रिभिर्विशेषकम् ) दृष्टा पुनः सा हि मयोपयोगात् , तीप्यवश्यं स्खलनाः स्युरत्र ।
छामस्थ्यसख्यो मतिमान्यजा वा, ज्ञात्वाऽपनेवाः कृपया बुधैस्ताः ॥४२॥ * यतः"गच्छतस्स्खलनं क्वापि, भवत्येव प्रमादतः। हसन्ति दुर्जनास्तत्र समादधति सज्जताः ॥११॥" इति ।
2 इन्द्रवज्रावृत्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org