________________
६६६]
बन्धविहाणे मूलपयडिठिइबंधो [ श्रीमहागिर्यादि-श्रीकमलसूरीश्वरान्तप्रशस्तिः आद्यशिष्यस्तदीयो यो, जिनकल्पं तुतोल सः । महागिरिः शिवं दद्यात् , सुहस्तिगुरुवान्धवः ॥१०॥ (अनुष्टुब्बृत्तम्) सुस्थित-सुप्रतिबद्धौ, कोटिक-काकन्दिको ततो जातौ। श्रीवीरनवमपट्ट, यत उदितः कोटिकाभिधगणोऽयम् ॥११॥ (गीति०) इन्द्रदिन्नगुरुस्तत्र, श्रीदिन्नगुरवस्तथा ।
श्रीसिंहगिरिनामानो, जाताः क्रमाज्जयन्तु ते ॥१२॥ (अनुष्टुब्बृत्तम् ) जातिस्मृत्या शिशुरपि भृशं संयमार्थ रुरोद,
प्रत्रज्योच्चैदेश भणितवान् सार्थपूर्वाणि यश्च । तीर्थोद्योतं व्यधित च यतो वज्रशाखोत्थितेयं,
वज्रस्वामी स भवतु सतां वज्रिवन्धो विरक्त्यै ॥१३॥(मन्दाक्रान्ता०) श्रीवज्रसेनो जितमोहसेनो, ज्ञाताख्यसूत्रप्रतिवादिजेता ।
सोपारके यश्चतुरो दिदीक्षे, वित्ताठ्यपुत्रान् स ददातु मेधाम् ॥१४॥ (इन्द्रवज्रा०) जातं हि कुलचतुष्कं, तच्छिष्येभ्यः सुविस्तृतं तत्र ।
यस्माच्चान्द्रमिदं निर्गतं स चन्द्रगुरुरवतु सदा ॥१५।। (गीति०)
चन्द्रनाम्नि कुले येऽस्मिन् , जातास्तीर्थधुरंधराः ।
नैके · सामन्तभद्राद्याः, सूरयस्ते पुनन्तु वः ॥१६।। (अनुष्टुब्०) वीरादभूत्तत्र युगाब्धि(४४)संख्ये, पट्ट तपोगच्छसुवृक्षमूलम् ।
स श्रीजगच्चन्द्रगुरुस्तपस्वी, पातु क्रियोद्धारवतां पुरोगः ।।१७।। (इन्द्रवज्रा०) पट्टे गजेषु(५८)प्रमिते हि वीराद् , गच्छेऽत्र जातः प्रभुहीरसूरिः ।
प्राबोधयद्यो यवनाधिराजं , प्रेक्षावदर्ग्यः स तनोतु धाम ।।१८।। (इन्द्रवज्रा०) पट्टपरम्परयैवं, बभूव पावकहय(७३)परिमिते हि पट्टेऽत्र ।
धीरो वीरो विबुधः, श्रीविजयानन्दसूरीन्द्रः ।।१९।। (आर्या०) लुम्पाकाख्यं कुमतमसकृत् खण्डखण्डं विधाय,
____ मृर्त्यर्चा श्रीसमयवचसा येन सिद्धान्तिता च । आत्मारामेति मधुरगिरा संस्तुतो यस्तु लोकैः,
स न्याथाम्भोनिधिरिति बुधैव्याहृतः पातु युष्मान् ॥२०॥ (मन्दाक्रान्ता) तत्पट्टमण्डनसुधी, निवृन्दसेव्य-,चारित्रवार्धिशमकृद्धतनिःस्पृहत्वः ।
सूरीन्द्र इन्द्रवदनः कमलाभिधानः, श्रेयः सदाऽपि वितनोतु स देहभाजाम् ॥२१॥ (वसंत०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org