________________
॥ अथ टीकाकृत्प्रशस्तिः ॥
भव्यानां भवसागरे प्रपततां निस्तारकं यत्कृतं,
तीर्थं सम्प्रति राजते जलनिधौ बोहित्थवद्धैर्यदम् । सिद्धार्थत्रिशलाङ्गजो विभवकृत् कारुण्यरत्नाकरः,
स श्रीमान् शिवदः सदैव भवतु श्रीवर्धमानोऽपि * वः || १ || ( शादुल०) भव्येभ्यः सुखदां जिनेन्द्र मुखजां वाचं निशम्योन्नतां,
प्रव्रज्यां प्रतिपद्य वीरविभवे येनाऽर्पितं जीवनम् । यन्नामाऽपि निहन्ति पापतिमिरं मार्तण्डरश्म्योधवद्,
वन्देऽहं गुरु गौतमादिगणिनां वृन्दं सदा तन्मुदा ||२|| ( शार्दुल०)
सर्वोऽपि संविग्नमुनित्रजोऽयं, येषां प्रविष्टः पृथुसंततौ हि ।
ते पञ्चमाः संयतवृन्दताताः, पान्तु सुधर्माख्यगणाधिपा वः || ३|| (इन्द्रवज्रा० ) येन स्वभार्या - जनकादिना वै, साकं गृहीतं चरणं जिनोक्तम् ।
जम्बू : स कम्बू प्रभशुभ्रकीर्तिः, कैवल्यधामा चरमः पुनातु || ४ || ( इन्द्रा० )
प्रभवविभवो जम्बूहर्म्यं प्रविश्य निशि ध्रुवां,
ध्रुवपदविदां सम्यग्रत्नत्रयीमुपलेभिरे ।
मनकजनकाः श्रीमच्छय्यम्भवाश्च भवच्छिदः,
शशधरसितश्लोका भद्रं दिशन्तु सतां सदा || ५ || ( हरिणी ० ) *तत्पट्टमण्डनो विद्वान्, महिमगुणभाजनम् । भद्रं तनोतु सर्वेषां यशोभद्र गुरुवम् ||६|| *सम्भूतिविजय स्तस्य, विनेयोऽभूच्छिवङ्करः । प्रवाजको हतानङ्ग-स्थूलभद्रस्य पातु वः ॥७।। *सूत्ररत्नाकरे येन, नियुक्तितीर्थमारचि । जयतु भद्रबाहुः स भगवान् श्रुतकेवली ||८|| वेश्यासङ्गेऽभ्यविचलचरणः प्लुष्टकामो हि योऽभूत्,
पूर्वाणां हि प्रकरमविकलं ज्ञातवान् सूत्रतश्च । सिद्धान्ताब्धेरपरतटमितः कामयोधं विहन्तु,
Jain Education International
शक्तिस्तोमं स वितरतु सतां श्रीयुतस्थूलभद्रः || ९ || (चित्रलेखा०)
* अपिशब्दोऽन्येषां तीर्थपतीनां समुच्चये । अनुष्टुब्वृत्तम् ।
For Private & Personal Use Only
www.jainelibrary.org