SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ तत्राऽनन्तपरोपनिधा ] चरमेऽधिकारे जीवसमुदाहारः [ ६४९ द्विविधरसस्थानेऽसातवेदनीयस्य द्वित्रिस्थानिकभेदभिन्ने द्विविधरसस्थाने च, न पुनः शेषद्विविधरसस्थानेऽपि । तर्हि तत्र किमित्याह-“सेसदुठाणेसु” इत्यादि, शेषे सातवेदनीयस्य द्विस्थानिकरसबन्धेऽमातवेदनीयस्य चतुःस्थानिकरसबन्धे च “सगुरुठिई" ति म्वप्रायोग्यां 'गुरुम् - उत्कृष्टां स्थिति यावद्विशेषहीना विशेषहीना बन्धका भवन्तीति गम्यते ।। इदमुक्तं भवति-सातवेदनीयस्य चतुःस्थानिक रसं बघ्नन्तो ज्ञानावरणीयस्य स्वप्रायोग्यजघन्यस्थितेर्बन्धकतया वर्तमाना जीवाः स्तोकाः सन्ति, समयाधिकजघन्यस्थितेर्बन्धकतया वर्तमाना जीवास्ततो विशेषाधिका भवन्ति, एवं विशेषाधिका विशेषाधिकास्तावद्वाच्या यावद् बहूनि सागरोपमशतान्यतियन्ति, अतः परं समयाधिकस्थितेर्बन्धकतया वर्तमानाः सातवेदनीयस्य चतुःस्थानिक रसं बघ्नन्तो जीवा विशेषहीनाः सन्ति, द्विसमयाधिकस्थितेर्बन्धकतया वर्तमाना जीवास्ततो विशेषहीनाः सन्ति, एवं विशेषहीना विशेषहीनास्तावद्वाच्या यावत्प्रभूतानि सागरोपमशतान्यतिक्रम्य यत्र सातवेदनीयस्य चतुःस्थानिकरसबन्धकानां प्रायोग्योत्कृष्टा स्थितिरिति । इत्थमेव सातवेदनीयस्य त्रिस्थानिकरसं बनतो ज्ञानावरणस्य तत्प्रायोग्याया जघन्यस्थितेबन्धकतया वर्तमाना जीवाः स्तोकाः, समयाधिकजघन्यायाः स्थितेर्बन्धकतया वर्तमाना जीवास्ततो विशेषाधिकाः, द्विसमयाधिकजघन्यायाः स्थितेर्बन्धकतया वर्तमाना जीवास्ततो विशेषाधिकाः, एवं विशेषाधिका विशेषाधिकास्तावद्यावत् प्रभूतानि सागरोपमशतानि, ततः परं समयसमयस्थितिवृद्धौ पूर्ववद् विशेषहीना विशेषहीना वाच्या यावत् प्रभूतानि सागरोपमशतान्यतिक्रम्य सातवेदनीयस्य त्रिस्थानिकरसं बघ्नतां जीवानां प्रायोग्या उत्कृष्टा स्थितिरिति । सातवेदनीयस्य द्विस्थानिक रसं वघ्नन्तो ज्ञानावरणस्य तत्प्रायोग्याया जघन्यायाः स्थितेर्बन्धकतया वर्तमाना जीवाः स्तोकाः, समयाधिकस्थितेर्बन्धकतया वर्तमाना जीवास्ततो विशेषाधिकाः, द्विसमयाधिकस्थितेर्बन्धकतया वर्तमानाजीवास्ततो विशेषाधिकाः, एवं विशेषाधिका विशेषाधिका यावत् बहूनि सागरोपमशतान्यतिक्रामन्ति, ततः परं समयाधिकस्थितेर्बन्धकतया वर्तमाना जीवा पुनर्विशेषहीनाः, एवं समयद्विसमयादिवृद्धौ विशेषहीना विशेषहीनास्तावद्वाच्या यावत् पञ्चदशकोटिकोटिसागरोपमप्रमाणा ज्ञानावरणस्य सातवेदनीयेन समं बन्धप्रायोग्या उत्कृष्टा स्थितिरिति । इत्थमेवाऽसातवेदनीयचतु-स्त्रि-द्विस्थानिकतत्तद्रसं बघ्नतां जीवानां विषयेऽप्यनन्तरोपनिधया द्रष्टव्यम् ,नवरं सातवेदनीयचतुःस्थानिकरसबन्धकानां स्थानेऽसातवेदनीयसत्कतिस्थानिकरसबन्धका वक्तव्याः, ततोऽसातवेदनीयस्यापि त्रिस्थानिकरसस्य निर्वतका एव, ततः पुनः सातवेदनीयस्य द्विस्थानिकरसम्य बन्धकानां स्थानेऽसातवेदनीयस्य चतुःस्थानिकं रसं बघ्नन्तो जीवा द्रष्टव्याः, तत्रापि ते विशेषहीना विशेषहीनास्तु तावद्वक्तव्या यावज्ज्ञानावरणस्योत्कृष्टा स्थितिस्त्रिंशत्कोटिकोटिसागरोपमाणि । तद्यथा-अशातवेदनीयस्य द्विस्थानगतं रसं बघ्नन्तो ज्ञानावरणस्य तत्प्रा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy