________________
६४८ ]
बन्धविहाणे मूलपयडिठिइबंधो [ तत्तद्वन्धयोग्यस्थितिषु बन्धकमानम् स्थितिवन्धप्रमाणनियमनवद् द्वि-त्रिस्थानिकादिभेदभिन्नरसवन्धप्रमाणमपि तत्र तत्र स्थितिवन्धस्थाने उत्कृष्टपदे बन्धप्रायोग्येनानुभागेन नियम्यते तदा यत्र स्थितिबन्धस्थानेषु चतुस्थानिकरसबन्धाध्यवसायानां सद्भावनोत्कृष्टपदे सातवेदनीयादेश्चतुःस्थानिकरसो बन्धप्रायोग्यस्तानि स्थितिबन्धस्थानानि सातवेदनीयादेश्चतुःस्थानिकरसबन्धकप्रायोग्यानि, एवं येषु स्थितिवन्धस्थानेषु न विद्यते चतुःस्थानिकरसवन्धप्रायोग्या अध्यवसायाः, किन्तूत्कृष्टपदेऽपि त्रिस्थानिकरसबन्धप्रायोग्या एव तानि स्थितिबन्धस्थानानि त्रिस्थानिकरसबन्धकप्रायोग्यानि, शेषस्थितिस्थानेषु तु चतु:स्थानिकरसबन्धाध्यवसायानामिव त्रिस्थानिकरसबन्धाध्यवसायानामप्यभावेन तानि तु परिशेषादपि द्विस्थानिकरसबन्धकमायोग्यानीति तु सुखेन गम्यते । इत्थं हि चूर्णिग्रथाऽविरोधेनोपपद्यते 'पढमस्स ठिई कमसो' इति गाथाद्वयोक्तार्थ इति ।।८५३॥
तदेवं दर्शिताः सातवेदनीयाऽसातवेदनीयादेश्चतुःस्थानिकादित्रिविधत्रिविधरसबन्धकतया षड्धा विभक्तानां जीवानां विशुद्धाविशुद्धाद्यध्यवसायानुसारेण बन्धप्रायोग्या मूलप्रकृतीनां स्थितिविकल्पाः। साम्प्रतं जघन्यादिभेदभिन्नेष्येतेष्वसंख्येयेषु स्थितिविकल्पेषु प्रत्येकं बन्धकतया वर्तमानाः षड्विधा जीवा उत्कृष्टपदे कियन्तः प्राप्यन्त इत्येतदादावनन्तरोपनिधयाऽऽह
पढमस्स जहण्णाए थोवा जीवा तओ कमाऽभहिया। जलहिसयपुहुत्तं जा तत्तो उड्ढं विसेसूणा ॥८५४॥ सायस्स चउतिठाणे तहा असायस्स हुन्ति वितिठाणे।
अयरसयपुहुत्तं जा सेसदुठाणेसु सगुरुठिइं ॥८५५॥ (प्रे०)"पहमस्स जहण्णाए” इत्यादि, तत्र “जीवा" नि अनन्तरोक्ताः सातवेदनीयस्याऽसातवेदनीयस्य च चतुःस्थानिकादितत्तद्रसं बध्नन्तः पविधा जीवा प्रत्येकं प्रथमस्य-ज्ञानावरणस्य "जहण्णाए” त्ति जघन्यायां स्थितौ "थोवा"त्ति 'स्तोकाः'-समयावधिकस्थितेर्बन्धकापेक्षया स्तोकाः, भवन्तीति परणान्वयः । “तओ कमाऽभहिया जलहिसयपुहत्तं जा"त्ति ततः समयद्विसमयावधिकस्थितिस्थानेषु क्रमाद् 'अभ्यधिकाः'-विशेषाधिका जीवा भवन्ति यावत् 'जलधिशतपृथक्त्वं'-मागरोपमशतपृथक्त्वमित्यर्थः,बहूनि सागरोपमशतानीति यावत् । “तत्तो उड्ढे विसेसूणा” ति अस्य चान्वयः "अयरसयपुहुत्तं जा" इति परेण, ततोऽनन्तरोक्ताः प्रभूतसागरोपमशतसमयप्रमाणाः स्थितीरतिक्रम्य तदनन्तरस्थितिस्थानादारभ्यो विशेषोनाः' -उत्तरोत्तरस्थितिस्थानेषु तद्वन्धकतया वर्तमाना जीवा विशेषहीना विशेषहीनाभवन्ति यावत् "अयरसयपुहत्तं" ति अतरशतपृथक्त्वम् , प्रभूतानि सागरोपमशतानीत्यर्थः । किं षड़विधरसस्थाने उत कतिपयरसस्थाने एवेत्याह-"सायस्स चउतिठाणे" इत्यादि, सातवेदनीयस्य चतुस्लिस्थानिकमेदमिन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org