________________
चूर्णिविरोधाऽऽशङ्कापरिहारः ] चरमेऽधिकारे जीवसमुदाहारः
[ ६४७ हानिर्भवति तथा ज्ञानावरणस्यापि स्थितिबन्धहानिर्भवति; तथा च यदा सातवेदनीयाऽऽक्रान्तजघन्यस्थितिबन्धस्तदा ज्ञानावरणस्याऽपि तत्यायोग्यजघन्यस्थितिबन्ध एव, एवं यदा सातवेदनीयाऽऽक्रान्तोत्कृष्टस्थितिबन्धस्तदा ज्ञानावरणस्यापि तत्प्रायोग्योत्कृष्टस्थितिबन्धस्य सम्भव एव; एवं च स्थितमिदम् , यत्-सातवेदनीपद्वि-त्रिस्थानिकरसवन्धकानामपि यथा सातवेदनीयाऽऽक्रान्तजघन्यस्थितिपर्यन्ताः स्थितयो बन्धप्रायोग्यास्तथा ज्ञातावरणस्याऽपि तत्प्रायोग्यजघन्यस्थितिपर्यन्ताः स्थितयः सातवेदनीयद्वि-त्रिस्थानिकरसबन्धकानां बन्धप्रायोग्या एव । एवमेवाऽसातवेदनीयद्वि-त्रिस्थानिकरसबन्धकानामपि यथाऽसातवेदनीयाऽऽक्रान्तोत्कृष्टस्थितिपर्यन्ताः स्थितयो बन्धप्रायोग्यास्तथा ज्ञानापरणस्याऽपि तत्प्रायोग्योत्कृष्टस्थितिपर्यन्ताः स्थितयोऽसातवेदनीयद्वि-त्रिस्थानिकरसबन्धकानां बन्धप्रायोग्या एव ।।
तदेवं साता ऽसातवेदनीयाक्रान्तजघन्यो कृष्टस्थितिपर्यन्तानां स्थितीनां साता-ऽसातवेदनीयद्वि-त्रिस्थानिकरसबन्धकमायोग्यत्ववत् ज्ञानावरणस्थाऽपि तत्तदाक्रान्तजघन्योत्कृष्टस्थितिपर्यन्तानां 'पढमस्स ठिई कमसो' इत्यादि(गाथा-८५२-८५३)नाऽभिमतस्थित्यपेक्षयाऽधिकानामकत्राऽऽक्रान्त जघन्यस्थितिपर्यन्तानाम् ,अन्यत्राऽऽक्रान्तोत्कृष्टस्थितिपर्यन्तानां च स्थितीनामपि साता-ऽसातवेदनीयद्वि-त्रिस्थानिकरसवन्धकमायोग्यत्वे संस्थिते तद्दोषतादवस्थ्यमेव ? इति चेद,
भण्यतेऽत्रोत्तरम्-यथोक्तानुभागवन्धचूर्णिवचनात् तत्तत्स्थितिबन्धस्थानेषु तत्तद्रसबन्धाध्यवसायानां पृथक्पृथग्भावेऽपि, तत एव अनुभागतीव्रमन्दताया भेदेनाधिकृतत्वेऽपि च तत्र तत्र स्थितिबन्धस्थानेषु रसबन्धस्य द्वि-त्रिस्थानिकादिभेदेन नियमनं तु स्थितिबन्धप्रमाणनियमनपथा उत्कृष्टपदगतानुभागेनैव कर्तव्यम्। तथा च न दोषलेशोऽपि । एतदुक्तं भवतिज्ञानावरणस्योत्कृष्टस्थितिबन्धे प्रवर्तमाने स्थितिबन्धमानं यथा तदानीं बध्यमानेषु येषु केषु दलिकेषु शेषबध्यमानदलिकापेक्षयाऽधिकतमकालं यावत्तेन रूपेणाऽवस्थानस्वभाव उत्पद्यते तच्चरमदलिकनिषेकस्याधीनं सत् त्रिंशत्सागरोपमकोटिकोट्यादिलक्षणमभ्युपगतम् , न पुनर्द्धिचरमादिदलिकनिषेकाधीनं समय-द्विसमयादिन्यूनत्रिंशत्सागरोपमकोटिकोट्यादिरूपम् । यथा उत्कृष्टस्थितिबन्धमानं तथा जघन्यस्थितिबन्धमानमपि तस्मिन् जघन्यस्थितिबन्धे प्रवर्तमाने बध्यमानशेषदलिकापेक्षयाऽधिकतमकालं यावत्तेन रूपेणाऽवस्थानस्वभावो येषु दलिकेषु समुत्पद्यते तस्य चरमदलिकनिषेकस्याधीनं सद् अन्तमुहूर्तादिकं प्रागुक्तम् ; न पुनर्येषु दलिकेषु बध्यमानशेषदलिकापेक्षया स्तोकतमकालं यावत्तेन रूपेणाऽवस्थानस्वभावः समुत्पन्नस्तादृक्प्रथमनिषेकाधीनम् , यतस्तथात्वे वेदनीयादितत्तत्कर्मणामौधिकं जघन्यस्थितिबन्धमानं द्वादशमुहूर्तादिकमनुक्त्वाऽन्तमुहूर्तमेव कथितं स्यात् , कुतः ? तस्य जघन्यस्थितिवन्धेऽन्तमुहूर्तमात्राया एवाबाधायाः सत्त्वेनाऽवाधाऽनन्तरवर्तिनि प्रथमदलिकनिषेकेऽन्तमुहूर्तकालं यावदेव तेन रूपेणाऽवस्थानस्वभावानां दलिकानां जघन्यपदे लाभात् । यथा जघन्योत्कृष्टस्थितिबन्धे तथा मध्यमस्थितिबन्धेऽपि ज्ञेयम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org