SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ ६५० ] बंधविहाणे मूलपयडिटिबंधो [ तत्तद्बन्धयोग्यस्थितिषु बन्धकमान म् योग्याया जघन्यायाः स्थितेर्बन्धकतया वर्तमाना जीवाः स्तोकाः, ततः समयाधिकस्थितेर्बन्धकतया वर्तमाना जीवा विशेषाधिकाः, पुनरपि समयाधिकस्थितेर्बन्धकतया वर्तमाना जीवा विशेषाधिकाः, एवं विशेषाधिका विशेषाधिकास्तावाच्या यावत् प्रभूतानि सागरोपमशतानि गच्छन्ति, ततः परं समयाधिकस्थितेर्बन्धकाः पूर्वापेक्षया विशेषहीनाः, इतस्तु पूर्ववद् द्विशेषहा निर्वाच्या यावत् प्रभूतानि सागरोपमशतानि व्यतिक्रमन्ति । असातावेदनीयस्य त्रिस्थानिकं रसं निर्वर्तयन्तो ज्ञानावरणस्य तत्प्रायोग्याया जघन्यायाः स्थितेर्बन्धकतया वर्तमाना जीवाः स्तोकाः, ततः समयाधिकस्थितेर्बन्धकतया वर्तमान जीवा विशेषाधिकाः, पुनरपि समयाधिकस्थितेर्बन्धकतया वर्तमाना जीवा ततो विशेषाधिकाः, एवं तावद्वाच्यं यावत् प्रभूतानि सागरोपमशतानि गच्छन्ति, ततः परं बहूनि सागरोपमशतानि यावदुत्तरोचरस्थितौ तु प्राग्वद् विशेषहीना विशेषहीना बन्धका वाच्याः । असातावेदनीयस्य चतुःस्थानगतं रसं बघ्नन्तो ज्ञानावरणस्य तत्प्रायोग्याया जघन्यायाः स्थितेन्धकतया वर्तमाना जीवाः स्तोकाः, ततः समयाधिकस्थितौ विशेषाधिकाः, एवं समयसमय वृद्ध्या विशेषाधिका विशेषाधिकास्तावद् द्रष्टव्या यावद् बहूनि सागरोपमशतान्यतिक्रमन्ति, ततस्तु समयसमय वृद्धया यावज्ज्ञानावरणस्योत्कृष्टा स्थितिस्त्रिंशत्कोटिकोटी सागरोपमाणि तावदुत्तरोत्तरस्थिते बन्धकतथा वर्तमाना जीवा विशेषहीना विशेषहीना अभिधातव्याः । उक्तं च कर्मप्रकृतिचूर्णौ 'अतरोत्रणिहिताए सुभपगतीण परियत्तमाणिगाणं चउट्ठाणबन्धगा णाणावरणीयस्स जणिगाए ट्ठितीए जीवा थोवा | बितियाए ठिईए जीवा विसेसहिया, एवं ततियार विसेसहिया । एवं विसेसहिया जाव सागरोवमसतं ति । 'उदहिसयं' ति बहूणि सागरोत्रमाणि । 'जीवा विसेसहीणा उदहिसयपुहुत्त मो जाव' त्ति तेण परं बिसेसहीणा विसेसहीणा जाव सागरोपमसतपुहुत्तं ति । पुहुत्तसहो बहुत्तवाची । एवं तिट्ठाणबन्यगजीवा भाणियन्त्रा । परियत्तमाणिगाणं सुहाणं बिट्ठाणबन्धगा णाणावरणीयतप्पा उग्गजहणिगाए ठितीए जीवा थोवा । बिइयाए ठितीर जीवा विसेसाहिगा, ततियाए विसेसाहिया, एवं विसे साहिया विसेसाहिया जाव सागरोत्रमसतंति । तेण परं विसेसहीणा विसेसहीणा 'आसुभुक्कोसं' ति जात्र परियत्तमणिगाणं सुभाणं उक्कस्सिगा ठितित्ति । 'असुभाणं बिट्ठाणे तिचउट्ठाणे य उक्कस्स' त्ति परियत्तमाणिगाणं असुभपगतीणं बिट्ठाणिय- तिट्ठाणिय- चउट्ठाणबन्धगा वक्तव्त्रा । णाणावरणीयस्स सठाणजणिगाए ठितीए जीवा थोत्रा, बितियाए जीवा बिसेसाहिया, ततियाए विसेसाहिया, एवं विसेसाहिया विसेसाहिया जाव सागरोत्रमसतं ति । तेण परं विसेसहीणा जाव असुभपरियतमः णिगाणं उक्कोसिया ठितित्ति' इति ॥ ८५५।। तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । साम्प्रतं परम्परोपनिधयाऽऽह - अह दुगुणवठिहाणी गंतूणम संखपल्लमूलाणि । ताओ जाणेयव्वा पल्लासंखेजमूलंसो ||८५६॥ (प्रे०) "अह दुगुणचड्टिहाणी" इत्यादि, अथशब्द आनन्तर्ये, ततश्चानन्तरोपनिश्रयाऽभिधानान्तरं परम्परोपनिधायां "गंतूणमसंखपल्लमूलाणि" ति असंख्येयानि पल्योपमसत्कप्रथमवर्गमूलानि 'गत्वा' - अतिक्रम्यानन्तरे स्थितिबन्धस्थाने "दुगुणवड्ठिहाणी" त्ति सातावेदनीयादे चतुः स्थानादितत्तद्रसं बघ्नतां जीवानां द्विगुणवृद्धिर्द्विगुणहानिश्च भवतीति शेषः । इदमुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy