SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ शेषमार्गणास्थानेषु ] धृद्धपधिकारेऽल्पबहुत्वद्वारम् [ ६१५ बन्धो 'नास्ति'-पन्नाभिहितस्तासु “वड्ढीअ" ति पाख्यानतो विशेषप्रतिपः प्रथमपदेऽसंख्येयगुणवृद्धेः "सव्वप्पा" ति बन्धकाः सर्वाल्पा वक्तव्याः । द्वितीयमपवादस्थानमाह- "णरपज्जे"त्यादि, मनुष्योध-पर्याप्तपञ्चेन्द्रिय-पर्याप्तत्रसकाय-पञ्चमनोयोगभेद-पञ्चवचोयोगभेद-पुरुषवेद-स्त्रीवेद-मत्यादित्रिज्ञानेषु, अवधिदर्शन-चक्षुदर्शन-शुक्ललेश्यापु, सम्यक्त्वौधे, क्षायिकसम्यक्त्व-संज्ञिमार्गणयोश्वेत्येवं समुदितासु चतुर्विंशतिमार्गणासु प्रत्येकं "संखेजगुणा या" त्ति संख्येयगुणा ज्ञेयाः, बन्धका इति गम्यते । केषां पदानामित्याह "संख-असंखंसवढिहाणोणं” ति अंशवृद्धिहानिशब्दस्य प्रत्येकं योजनात् संख्येयभागवद्विहान्योरसंख्येयभागवद्धिहान्योरित्येवं चतुर्णा पदानाम् । अयम्भाव:-एतेषु चतुर्विंशतिमार्गणास्थानेस्वपर्याप्तासंज्ञिनामप्रवेशेनाऽसंख्येयगुणत्वस्य, तथैकेन्द्रियाणामप्रवेशेनाऽनन्तगुणत्वस्य चाऽसम्भवादोघतो यत्रासंख्येयगुणा अननागुणा वा बन्धका प्राध्यन्ते तेषु पदेष्वपि प्रस्तुतमार्गणासु तु संख्येयगुणा एव बन्धकाः प्राप्यन्ते, अतस्तादृशपदान्यधिकृत्यापोदितमिति । अथ तृतीयमपवादपदमाह-"हुन्ति पणिदिये"त्यादि, तत्र तथाशब्दस्य समुच्चायकतया पञ्चेन्द्रियोघमार्गणायां त्रसकायौघमार्गणायां चापि संख्येयगुणा बन्धका वक्तव्याः, कस्य कस्य पदस्येत्याह-"असंखंसवडिढहाणीणं” ति असंख्येयांशवद्धिहान्योर्द्वयोः पदयोः, न पुनर्मनुष्यगत्योघादिचतुर्विंशतिमार्गणावत् संख्येयभागवद्धिहान्योरपि । कुतः ? अत्र मार्गणाद्वये एकेन्द्रियाणामप्रवेशेऽप्यपर्याप्तासंज्ञिजीवानां प्रविष्टत्वात् । ___ इत्थमपवादत्रय्यामुक्तायां शेषमार्गणासु प्रस्तुताल्पबहुत्वमित्थं प्राप्तम्मनुष्योधमार्गणायां सप्तानामवक्तव्यबन्धकाः सर्वस्तोकाः, तेभ्योऽसंख्यातगुणवृद्धर्बन्धकाः संख्येयगुणाः, तेभ्योऽसंख्येयगुणहानर्बन्धका संख्येयगुणाः, तेभ्यः संख्येयगुणवृद्धिहान्योरेकैकस्या बन्धका असंख्ये गुणाः, परस्परन्तु तुल्याः, तेभ्यः संख्येयभा वृद्धि हान्योरन्यतरस्या बन्धकाः संख्येयगुणाः, परस्परन्तु तुल्याः, तेभ्योऽसंख्येयभागवृद्धिहान्यन्यतरस्या बन्धकाः संख्येयगुणाः, परस्परन्तु तुल्याः, तेभ्योऽवस्थानलक्षणस्थितिवन्धस्याऽसंख्येयगणा बन्धका इति । मनुष्योघमार्गणावदेव पर्याप्तपञ्चेन्द्रिय-पर्याप्तत्रसकाय-पश्चमनोयोग-पञ्चवचोयोग-मत्यादित्रिज्ञानाऽवधिदर्शन-चक्षुर्दर्शन--शुक्ललेश्या--सम्यक्त्वोध-क्षायिकसम्यक्त्व-संज्ञिमागंणासु विज्ञेयम् । पञ्चेन्द्रियौघ-सौघमार्गणयोस्तु प्रत्येकं सप्तानामवक्तव्यबन्धकाः स्तोकाः, तेभ्योऽसंख्येयगुणवद्धिबन्धकाः संख्येयगुणाः, तेभ्योऽसंख्येयगुणहानिबन्धकाः संख्येयगुणाः, तेभ्यः संख्येयगुणवृद्धिहान्योन्धका असंख्येयगुणाः, तेभ्यः संख्येयभागवृद्धिहान्योन्धका असंख्येयगुणाः, तेभ्योऽसंख्यभागवृद्धिहान्योन्धकाः संख्येयगुणाः, कुतः, १ मार्गणाद्वयगतसर्वजीवानां संख्येयभागवृद्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy