SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६१६ ) बंबविहाणे मूलपयडिठिइबंधो [ शेषमार्गणास्थानेषु हान्योरिवाऽसंख्येयभागवृद्धिहानिबन्धार्हत्वात् । तेभ्यः पुनरवस्थानबन्धका असंख्येयगुणा इति । ___ स्त्री-पुरुषवेदमार्गणयोस्तु सप्तानामसंख्यगुणवृद्धिबन्धकाः सर्वस्तोकाः, तेभ्योऽसंख्येयगुणहानिबन्धकाः संख्येयगुणाः, तेभ्यः संख्येयगुणवृद्धिहानिबन्धकाः संख्येयगुणाः,तेभ्यः संख्येयभागवृद्धिहान्योर्बन्धकाः संख्येयगुणाः,तेभ्यो संख्येयभागवृद्धि हान्योर्वन्धकाः संख्येयगुणाः,तेभ्योऽवस्थानबन्धका असंख्येयगुणा इति। नपुंसकवेदमार्गणायां सप्तप्रकृतीनामसंख्येयगुणस्थितिबन्धवृद्धर्बन्धकाः सर्वस्तोकाः, तेभ्योऽसंख्येयगुणहानेर्बन्धकाः संख्येयगुणाः, तेभ्यः संख्येयगुणवृद्धिहान्योर्बन्धका असंख्येयगुणाः, तेभ्यः संख्येयभागवृद्धिहान्योर्बन्धका असंख्येयगुणाः, तेभ्योऽसंख्यभागवृद्धिहान्योर्बन्धका अनन्तगुणाः, तेभ्योऽवस्थानबन्धका असंख्येयगुणा इति । क्रोधादिकषायमार्गणाचतुष्केऽपि नपुंसकवेदमार्गणावदेव विज्ञेयम् , केवलं लोभमार्गणायां मोहनीयकर्मणोऽवक्तव्यबन्धस्य सद्भावात् लोभमार्गणायां मोहनीयकर्मणः सर्वथैवौघवद् द्रष्टव्यम् । तद्यथा-सर्वस्तोका मोहनीयस्याऽवक्तव्यस्थितिबन्धकाः. तेभ्यस्तस्यैवासंख्यगणवद्धिवन्धकाः संख्येयगुणाः, तेभ्योऽसंख्यगुणहानिबन्धकाः संख्येयगुणाः; तेभ्यः संख्येयगुणवृद्धिहान्योरेकैकस्या बन्धका असंख्येयगुणाः, परस्परन्त्येते तुल्याः; तेभ्यः संख्येयभागवृद्धिहानिबन्धका असंख्येयगुणाः, तेभ्योऽसंख्येयभागवृद्धिहानिबन्धका अनन्तगुणाः तेभ्यः पुनस्तस्यैव मोहनीयस्याऽवस्थानस्थितिबन्धका असंख्येयगुणाः । इदं चाल्पबहुत्वं सर्वथैवौधिकाल्पबहुत्वानुसारेण भावनीयम् । एवमेव शेषमार्गणास्वपि ज्ञानावरणादिसप्तमूलकर्मणां प्रस्तुतस्थितिबन्धवद्ध्याद्यल्पबहुत्वं सर्वथैवौघवद्विज्ञेयम् , शेषमार्गणासु प्रत्येकमोघवत् मप्तानामवक्तव्यस्थितिबन्धस्य भावात् , एकेन्द्रियपर्यन्तानामनन्तानां जीवानां तत्र प्रविष्टत्वाच्च । शेषमार्गणानामानि त्वेवम्-काययोगसामान्यौ-दारिककाययोगा-ऽचक्षुदर्शन-भव्या-ऽऽहारिमार्गणा इति ॥ ८४१-८४२-८४३॥ तदेवं प्रतिपादितं शेपमार्गणास्थानेष्वपि शेषाणामायवर्जसप्तमलप्रकृतीनां स्थितिबन्धवद्ध्यादेर्बन्धकानामल्पबहुत्वम् तस्मिँश्च प्रतिपादिते गतं त्रयोदशमल्पबहुत्वद्वारम् , तस्मिँश्च गतेऽवसितस्त्रयोदशद्वारात्मकः 'वदि' इत्यनेन प्रागुद्दिष्टो वृद्धयधिकारः॥ इत्थं वृद्धयधिकारं बितन्य मल्लब्धसुकृतजलराशेः। क्षालितदुष्कर्मरजा भव्यौघो बजतु सिडिसुखम् ॥ ( पथ्यार्या) ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे त्रयोदशमल्पबहुत्वद्वारं समाप्तम् ।। ॥ इति श्रीबन्धविधानमूलप्रकृतिस्थितिबन्धे पञ्चमो वृद्धयधिकारः ॥ 1-नाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy