________________
॥ अथ सप्तमं परिमाणद्वारम् ॥
अथ परिमाणारे मूलप्रकृतिस्थितिबन्धवृद्ध्यादेर्वन्धकानामुत्कृष्टपदगतं परिमाणं प्रादुfaraiyaौ तावदोघत आह
अह बंधगा अनंता अस्थि असंखंसवडिहाणीणं । सत्तरह असंखेज्जा दुविहाणं वड्ढिहाणीणं ॥ ७८० ॥
(०) "अह बंधगा अणंता" इत्यादि, अथशब्द आनन्तर्ये, भागप्ररूपणाऽनन्तरं परिमाणप्ररूपणायामिति तदर्थः । तत्र किमित्याह - "बंधगा अनंता अत्थि" त्ति मार्गणास्थानान्यनधिकृत्य सामान्यतो बन्धका अनन्ताः सन्ति । कस्याः कस्या इत्याह - "असंखंसवडिहाणीणं सत्तह" त्ति आयु:कर्मणः स्थितिबन्धहान्यवस्थानयोबंन्धकानां परिमाणस्य सत्पदद्वार एवातिदिष्टत्वात्तच्छेषाणां ज्ञानावरणादीनां सप्तानां मूलकर्मणामसंख्यांशवृद्धिहान्योः प्रत्येकम् । साधारणजीवानामपि तत्स्वामित्वादिति भावः । "असंखेज्जा" त्ति असंख्येया बन्धकाः सन्ति । कासामित्याह - "दुविहाणं वडिहाणीण" ति असंख्यगुणवृद्धिहान्योर्वन्धक परिमाणस्यानन्तरं वक्ष्यमाणत्वात् संख्येयगुण-संख्येय भागलक्षणयोः शेषद्विविधवद्धिहान्योरित्यर्थः । आयुर्वर्जसप्तकर्मणामित्यनुवर्तते । सुगमं चैतत् यत आसां संख्येयगुणवृद्धि हानि-संख्येयभाग वृद्धिहानीनां स्वामिन एकेन्द्रियवर्जजीवाः, ते चाऽसंख्येया इति ॥ ७८० ॥
,
अथोक्तशेपयोरसंख्यगुणवृद्धिहान्योर्वन्धकानामुत्कृष्टपद्गतपरिमाणमोघतो
दिदर्शयिषुर्लाघ
वार्थं सममेवादेशतोऽपि प्रतिपादयन्नाह -
सत्तण्हं संखेज्जा अत्थि असंखगुणवदिहाणीणं । जासु खलु बंधगा सिं तासु ते अत्थि संखेज्जा ॥७८१ ॥
(प्रे०) “सत्तण्हं संखेज्जा" इत्यादि, प्रकृतानामायुर्वर्जानां सप्तानां कर्मणां प्रत्येकम् "असंखगुणवदिहाणीणं” ति असंख्यगुणवृद्धिहान्योः प्रत्येकं "संखेज्जा अत्थि” त्ति संख्येयाः सन्ति, बन्धका इत्यनुवर्तते । सुगमम् श्रेणिगतान् तत्र वाऽऽयुः क्षयाच्च्युत्वा देवभवप्रथमसमयस्य वेदकान् जीवान् विवर्ज्यान्येषां केषाञ्चिदधिकृत वृद्धि हान्योरसम्भवात् श्रेणिगतानां ततश्व्युत्वा देवभवप्रथमसमये वर्तमानानां च कस्मिँचिदपि समये संख्येवानामेव लाभाच्चेति ।
,
अथ लाघवार्थं मार्गणास्थानेष्वपि प्रकृतासंख्य गुणवृद्धिहान्योर्बन्धकपरिमाणमादावेवाह"जासु खलु" इत्यादि, तत्र खलशब्दोऽवधारणे, स च " तासु" इत्यस्योत्तरं योज्य - स्ततो यासु मार्गणासु "बंधगा सिं" ति तयोरनन्तराभिहितयोः सप्तानामसंख्यगुण स्थितिबन्धवृद्धिहान्योर्वन्धकाः “अस्थि ति 'सन्ति' विद्यन्ते, तासु मनुष्यगत्योव-पर्याप्तमनुष्य-मानुषी-पञ्चे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org