SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ बंधविहाणे मूलपयडिठिइबंधो सत्तण्ह संखभागो सव्वाण सगसगवड्ढिहाणीणं । (प्रे०) "पज्जमणुस" इत्यादि, पर्याप्तमनुष्य - मानुषीभेदयोः, सर्वार्थसिद्धविमानभेदाSSहारका -ऽऽहारकमिश्र काययोगा- ऽपगतवेदमार्गगासु, मनः पर्यवज्ञान --संयमौघ-सामायिक-छेदोपस्थापन- परिहारविशुद्धिक-सूक्ष्म सम्पराय संयममार्गणास्त्रित्येव द्वादशमार्गणासु प्रत्येकं "सत्तण्ह" त्ति आयुर्वर्जानां सप्तानां मौलकर्मणाम् " सव्वाण सगसगवड्ढिहाणीणं" ति अत्र स्वपदेन तत्तन्मार्गणाया विवक्षितत्वात् पर्याप्तमनुष्यादितत्तन्मार्गणासम्बन्धिन्यो यावत्यो वृद्धिहान यस्तासां " सव्वाण" त्ति सर्वासाम् । किमित्याह - "संख भागो" त्ति बन्धकास्तत्तन्मार्गणागतसर्वस्थितिबन्धकानां ‘संख्येयभागः’- संख्येयतमैकभागवर्तिन इत्यर्थः । कुतः ? अवस्थानबन्धकानां संख्येयबहुभागगतत्वेन तदन्य एते संख्येयैकभागप्रमाणा एव भवन्तीति || ७७८ || ५८० ] अथोक्तशेषमार्गणासु प्रस्तुतचन्धकभागानाह सासु बंधा खलु या भागो असंखयमो ॥ ७७९॥ (प्रे०) "सेसासु" इत्यादि, उक्तशेषासु विंशत्युत्तरशतमार्गणासु प्रत्येकम् । खलुशब्दो वाक्यालङ्कारे । तत्र किमित्याह - "णेया भागो असंखयमो" त्ति 'सव्वाण सगसगवडिदहाणीणं' इत्यस्य उमरूकमणिन्यायेनात्रापि योजनात्, सप्तप्रकृतीनां शेषतत्तन्मार्गणासम्भविस्थितिबन्धवृद्धिहानीनां प्रत्येकं वन्धका असंख्यतमैकभागप्रमाणा ज्ञेया इत्यर्थः । शेषमार्गणा नामत इमा:- अष्टो नरकगतिभेदाः, चत्वारस्तिर्यक्पञ्चेन्द्रियभेदाः, अपर्याप्तमनुष्य भेदः, सर्वार्थसिद्ध विमानभेदवर्जा एकोनत्रिंशद् देवगतिभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियजातिभेदाः, सप्त पृथिवीकाय भेदाः, एवं सप्ताप्काय भेदाः, सप्त तेजस्काय भेदाः, सप्त वायुकायभेदाः, त्रयः प्रत्येकवनस्पतिकायभेदाः, त्रयस्त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, वैक्रियवैक्रियमिश्रकाययोग-स्त्रीवेद-पु' वेद- मतिज्ञान - श्रुतज्ञाना ऽवधिज्ञान-विभङ्गज्ञान- देशसंयम-चक्षुर्दर्शनाऽवधिदर्शन- तेजोलेश्या - पद्मलेश्या-शुक्ललेश्या-सम्यक्त्वौघ- क्षायिक क्षायोपशमिको-पशमिकसम्यक्त्व-मिश्रदृष्टि - सासादन - संज्ञिमार्गणाभेदाश्चेति । एतासु प्रत्येकं बन्धकजीवा असंख्येयाः, तत्राप्यवस्थानलक्षणस्थितिबन्धस्य निर्वर्तकानामसंख्येयबहुभागगतत्वेन सम्भवत्सर्वविधवृद्धिहानीनां प्रत्येकं बन्धकाः प्रागुक्तनीत्याऽसंख्येयैकभागप्रमाणा एव प्राप्यन्त इति तथैवाभिहिता इति ॥ ७७९॥ [ तत्तत्स्थितिवृद्धिहानिबन्धकभाग० तदेवं कथिता मार्गणास्थानेष्वप्यति दिष्टिशेष सप्त प्रकृत्यसंख्येयभागवृद्ध्यादिसत्पदानां बन्धकभागाः । तथा च सति गतं षष्ठ भागद्वारम् || ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे षष्ठ भागद्वारं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy