________________
मार्गणासु तत्तत्स्थितिवृद्धिहानिबन्धकभाग० ] वृद्धयधिकारे भागद्वारम्
तिरिये वणप्फइम्मि य सव्वेगिंदियणिगोअगेसु य । काय - उरालदुगेसु कम्म-णपुम - चउकसायेसु ॥ ७७५ ॥ : अण्णाणदुगे अयते अचक्खु-अपसत्थ-लेस भवियेसु ।
अभवियमिच्छत्तेसु असण्णि आहारगियरेसु ॥७७६॥ सत्तण्ड असंखंसो अस्थि असंखंसवडिढहाणीणं । णेयो अणंतभागो सेसाणं वहिणीणं ॥ ७७७॥
1
प्रे०) “तिरिये वणफइम्मि ये" त्यादि, तिर्यग्गत्योघे, वनस्पतिकायौघे । चशब्दः समुच्चये । सर्वशब्दस्य प्रत्येकं योजनात् सर्वेष्वेकेन्द्रियजातिमार्गणाभेदेषु सर्वेषु निगोदवनस्पतिभेदेषु । “णिगोअगेसु' य" इत्यत्र कः स्वार्थिकः, चस्तु प्राग्वत् । तथा काययोगसामान्यौ-दारिकतन्मिश्रकाययोगमार्गणासु. कार्मणकाययोग नपुंसकवेद-कषाय चतुष्केषु मत्यज्ञान - श्रुताज्ञानमार्गणाद्वयरूपेऽज्ञानद्विके, “अयते" त्ति असंयममार्गणायां, तथाऽचक्षुर्दर्शना-प्रशस्त कृष्णादित्रिलेश्या-भव्यमार्गणासु, अभव्य- मिथ्यात्वमार्गणयोः, असंज्ञ्या -ऽऽहारि-तदितराऽनाहारिमार्गणा स्वित्येतास्वष्टत्रिंशन्मार्गणासु प्रत्येकं “सत्तण्ह" त्ति आयुर्वर्जानां सप्तप्रकृतीनां "असंखंसवदिहाणीणं” ति असंख्यांशवृद्धिहान्योः "असंखंसो अत्थि" त्ति सर्ववन्धकानाम् ' असंख्यांश:'-असंख्यतमैकभागप्रमाणाः सन्ति, बन्धका इति गम्यते । “सेसाणं वडिहाणीोणं" ति प्रकृताष्टत्रिंशन्मार्गणा स्वेवानन्तरोक्ताऽसंख्य भागवृद्धिहानी विवर्ज्य शेषाणां तत्तन्मार्गणोक्तबुद्धयादिसत्पदानामित्यर्थः ।
,
इदमुक्तं भवति-अनन्तरोक्ताऽसंख्य भागवृद्धिहानी परिहृत्य यस्यां मार्गणायां यस्य कर्मणो यावन्ति वृद्धिहानिसत्पदान्यवशिष्यन्ते यथा तिर्यग्गत्योधौ-दारिकमिश्र काययोग-कार्मणकाययोगा-ऽज्ञानद्वया-ऽसंयम - कृष्णादिलेश्यात्रया - ऽभव्य - मिथ्यात्वा ऽनाहारकमार्गणासु संख्येयभाग संख्येयगुणवृद्धिहानिपदानि काययोगौ-दारिककाययोग नपुंसकवेद-कपायचतुष्का-ऽचक्षुर्दर्शनभव्य-संज्ञ्या-ऽऽहारिमार्गणासु प्रत्येकं संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिपदानि तावतां सर्वेषामवशिष्टवृद्धि हानिपदानाम् । तेषां किम् ? " णेयाऽणंत भागो" त्ति अनन्ततमैकभागप्रमाणा ज्ञेयाः, बन्धका इत्युभयत्रानुवृच्या द्रष्टव्यम् । भावना पुनः सर्वास्वोधिकभावनानुसारेण स्वयमेव द्रष्टव्या | ओघवतास्वपि प्रत्येकमनन्तानां जीवानां सद्भावादिति भाव इति ।।७७५-७७६-७७७।। अथ संख्येयजीवराशिकेषु मार्गणास्थानेष्वाह
,
पज्जमणुस - मणुसीसु सव्वत्था - SSहारदुग-अवेसु । मणपज्जव-जइ-समइअ-छेअग- परिहार - सुहुमेसु ॥७७८॥
[ ५७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org