________________
[ ५७१
सर्वमार्गणासु संख्येयभागवृद्धिहान्युत्कृष्टान्तर० ] वृद्धयधिकारेऽन्तरद्वारम् नरकत्योधादिष्वेकनवतिमार्गणासु तेषां चतुणां पदानां, तथोक्तशेषासु यासु संख्येयभागस्थितिबन्धवृद्धि हानिलक्षणपदद्वयस्यान्तरमद्यापि नाभिहितं तासु तिर्यक्पञ्चेन्द्रियौघादिविंशतिमार्गणासु प्रत्येक तासां सप्तकर्मसत्कसंख्येयभागादिस्थितिबन्धद्धिहानीनामुत्कृष्टमन्तरं "मुहुरांतो” त्ति सुगमम् ।
तत्र निरयगत्योघाद्या द्विनवतिमार्गणास्तु नामत इमाः-ओघसहितत्वादष्टो निरयभेदाः, अपर्याप्तपञ्चेन्द्रियतिर्यग्भेदः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, अपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायभेदौ,काययोगसामान्यभेदवर्जाः सप्तदश योगभेदाः, अपगतवेद-कषायचतुष्क--मन्यादिज्ञानचतुष्क--विभङ्गज्ञान-संयमोघ--सामायिक--छेदोपस्थापन-परिहारविशुद्धिकसंयमदेशसंयमा-ऽवधिदर्शनकृष्णादिषल्लेश्याभेद-सम्यक्त्वोध-क्षायिक--क्षायोपशमिकौ--पशमिकसम्यक्त्वसासादन-सम्यग्मिथ्यान्वसंज्ञिमार्गणाश्चेति । तिर्यक्पञ्चेन्द्रियौघादिविंशतिर्मार्गणाः पुनरिमा:-तिर्यक्पञ्चेन्द्रियोघ-तत्पर्याप्त-तिरश्ची-सर्वविकलेन्द्रियभेद-पञ्चेन्द्रियौघ-तत्पर्याप्त-त्रसकायौघतत्पर्याप्त-स्त्रीवेद-पुवेद-सूक्ष्मसम्परायसंयम-चक्षुर्दर्शनानीति । एतासु प्रायः प्रत्येकं प्रकृततत्तदृद्धिहानिसत्पदानां मार्गणागतसर्वजीवस्वामिकत्वात् कदाचिदवस्थानस्थितिबन्धाद्धादिलक्षणमन्तमुहूर्त प्रस्तुतवृद्धिहानीनामप्रवर्तनाच्च तादृगन्तमुहूतं विहाय प्रत्यन्तमुहूर्त तत्तदृद्धिहानयः परावृत्त्य परावृत्त्य नियमेन जायन्ते, इत्थं च प्रत्येकमुत्कृष्टान्तरं संख्येयस्थितिबन्धप्रमाणं भवदप्यौधिकाऽसंख्यभागवृद्धिहान्यन्तरवदन्तर्मुहूर्तादधिकं न भवति । अत्र प्रायोग्रहणमपर्याप्तपञ्चेन्द्रियमार्गणादौ कुत्रचित् तत्रप्रविष्टाऽसंज्ञिपञ्चेन्द्रियाणाम् , अपर्याप्तत्रसकायौदारिककाययोगादिमार्गणासु तत्रप्रविष्टद्वीन्द्रियादीनां तत्तत्संख्येयगुणवृद्धयादिस्वामित्वाभावात् । एवमपि तत्र प्रस्तुतान्तरमन्तर्मुहूर्तमात्रं तु तादृशासंज्ञिपञ्चेन्द्रियाद्यवस्थाया उत्कृष्टत आन्तर्मुहूर्तिकत्वात् , औदारिककाययोगमार्गणायां त्वेकेन्द्रियाद्यवस्थाया दीर्घत्वेऽपि संख्येयगुणवद्धयादिस्थितिबन्धं कृत्वैकेन्द्रियादितयोत्पत्तिमात्रेणौदारिककाययोगमार्गणाया विच्छेदेन तादृशावस्थायाः संख्येयगुणवृद्धयादिस्थितिबन्धद्वयमध्यपतितत्वाभावादिति । ___अथ मार्गणास्थानेष्वेव सप्तानां शेषाऽसंख्यभागस्थितिबन्धवृद्धिहानिलक्षणयोद्वयोः सत्पदयोरूस्कृष्टमन्तरं दर्शयन्नाह-"उक्कोसं सव्वासु" इत्यादि, अक्षरार्थस्तु सुगमः,केवलं "सव्वासु" मित्यनेन कार्मणकाययोगा-ऽनाहारका-उपगतवेद-सूक्ष्मसम्परायसंयमवर्जाः षट्पष्टयधिकशतमार्गणा ग्राह्याः । कुतः ? कार्मणा-ऽनाहारकमार्गणयोः सप्तानामसंख्यभागवृद्धिहानिलक्षणपदद्वयस्य सत्त्वेऽपि तयोः 'कम्मेऽणाहारे अंतरं णस्थि' इत्यनेन सम्भवत्सर्वविधवृद्धिहान्यन्तरस्यैव प्रतिषिद्धत्वात्, अपगतवेद-सूक्ष्मसम्परायसंयमयोस्तु प्रकृतपदद्वयस्यैवाऽसत्त्वाच्चेति । भावना तु प्रत्येकमोधोक्तरीत्या यथासम्भवं स्वयमेव कर्तव्येति ॥७६७।।
तदेवं भणितमादेशतोऽपि तत्तत्पदानां नानाजीवाश्रयमन्तरम् । तथा च गतमन्तरद्वारम् ।। ।। इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे चतुर्थमेकजीवाश्रयमन्तरद्वार समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org