________________
५७० ]
बंधविहाणे मूलपयडिठिइबधो [ संख्येयभागादिवृद्धिहान्युत्कृष्टान्तर० संख्येयभागवृद्धिहान्युत्कृष्टान्तरेऽप्यनया दिशैव भावनीये, यत एकेन्द्रियाणां स्वस्थाने संख्येयगुणवृद्धिहानी इव संख्येयभागवृद्धिहानी अपि न भवतः, ततश्च सर्व तहदुपपद्यत इति । ___अथ मार्गणान्तरेषु प्रकृतवृद्धिहान्युत्कृष्टान्तरमाह--"होइ असंखपरटा" इत्यादि, सप्तानां संख्येयगुण-संख्येयभागस्थितिबन्धवृद्धिहान्यन्तराण्युत्कृष्टतोऽसंख्येयपुद्गलपरावर्तप्रमाणानि भवन्ति । कासु मार्गणास्वित्याह-"तिरिये" त्यादि, तिर्यग्गत्योध-काययोगसामान्य-नपुंसकवेदमत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शन-भव्या-ऽभव्य-मिथ्यात्वा-ऽसंज्ञिरूपास्वेकादशमार्गणास्वित्यर्थः । एतास्वपि प्रत्येकमुत्कृष्टान्तरमनन्तरोक्तनीत्यैवाऽसंख्येयपुद्गलपरावर्तप्रमाणं भावनीयम् , केवलमजु-वक्रगत्यादिनोत्पादनिबन्धो न कार्यः, स्वस्थानतः परस्थानतो वा येषु भवेषु संख्येयगुणसंख्येयभागस्थितिबन्धवृद्धिहानयो नियमतो भाविन्यस्तादृशभवेष्वेकेन्द्रियकायस्थित्यसंख्येयपुद्गलपरावर्तान् यावदनुत्पादो द्रष्टव्यश्चेति । ____ मार्गणान्तरेषु संख्यातगुणवृद्धिहान्युत्कृष्टान्तरमाह-"होइ तिपणिंदि” इत्यादि, अपर्याप्तमेदवर्जेषु त्रिषु पञ्चेन्द्रियतियग्मार्गणाभेदेषु, द्विशब्दस्य पञ्चेन्द्रियवसयोः प्रत्येकं योजनादपर्याप्तभेदवर्जितयोयोः पञ्चेन्द्रियजातिभेदयोयोश्च त्रसकायभेदयोः स्त्रीवेद-पुरुषवेद-चक्षुर्दर्शनमार्गणास्थानेषु चेत्येतासु दशमार्गणासु प्रत्येकं पुनः संख्येयगुणवद्धिहानिलक्षणपदद्वयस्य प्रत्येकमुत्कृष्टमन्तरं पूर्वकोटिपथक्त्वप्रमाणं भवति । कुतस्तावन्मात्रम् , न पुनरधिकम् ? इति चेद् , प्रत्येकं निरन्तरमसंज्ञिपञ्चेन्द्रियादितया निर्वाह्योत्कृष्टकालस्य पूर्वकोटीपथक्त्वप्रमाणत्वात् । इदमुक्तं भवति-पञ्चेन्द्रियतया निरन्तरसम्भवद्भवेषु यो जीवः प्रथमचरमभवद्वयं संज्ञिपञ्चेन्द्रियतयाऽनुभवति, मध्यमभवैस्त्वसंज्ञिपञ्चेन्द्रियोत्कृष्ट कायस्थितिं पूरयति, तादृशजीवमपेक्ष्य प्रकृतोत्कृष्टान्तरमुत्पद्यते । कुतः ? असंज्ञिपञ्चेन्द्रियभवेषु स्वस्थाने संख्येयगुणवृद्धिहानीनामभावात् , उत्कृष्टस्थितिकासंज्ञिपञ्चेन्द्रियभवस्थितेः पूर्वकोटिप्रमाणत्वात् , असंज्ञिपञ्चेन्द्रि यतया निरन्तरं संख्येयवारानेवोत्पत्तेः सम्भवाच्च । एवमेव त्रसकायौघादितत्तन्मार्गणामादायाऽपि वक्तव्यम् , केवलं तत्राऽसंज्ञिपञ्चेन्द्रियाणामिव चतुरिन्द्रियादीनामपि प्रवेशेनाऽसंज्ञिपञ्चेन्द्रियस्थाने चतुरिन्द्रियादयोऽपि वक्तव्याः । विस्तरभावना तु प्रागिव स्वयमेव कर्तव्येति ।।७६४-७६५-७६६।।। ___ अथ शेषमार्गणासु सप्तानां संख्येयभाग-संख्येयगुणवृद्धिहानीनां तथा सर्वमार्गणास्वसंख्यभागवद्धिहान्योरुत्कृष्टान्तरं प्रदर्शयन्नाह
सेसासु मुहुरांतो संखियभागगुणवड्ढिहाणीणं । उक्कोसं सव्वासु होइ असंखंसवढिहाणीणं ॥७६७॥ (गीतिः)
(प्रे०) "सेसासु” इत्यादि, उक्तशेषासु यासु संख्येयभाग-संख्येयगुणस्थितिबन्धद्धि, संख्येयभाग-संख्येयगुणस्थितिबन्धहानिलक्षणानि चत्वारि पदानि सद्भूतानि प्रतिपादितानि तासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org