________________
५४० ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणासु जघन्यस्थितिवृद्वय पल्पबहु० भवप्रथमसमयासंज्ञिपञ्चेन्द्रियाणां बन्धप्रायोग्यस्थितितः पल्योपमसंख्येयमागेनाभ्यधिकैव; तां बद्ध्वाऽनन्तरसमये एकेन्द्रियतयोत्पद्यैकेन्द्रियबन्धप्रायोग्यस्थितिं बध्नतां तेषां पूर्वोत्तरसमययोर्बद्धस्थित्योरन्तरमुत्कृष्टवृद्धयपेक्षया विशेषाधिकं भवति । इत्येवं प्रकृताल्पबहुत्वमपि यथोत्तमेव लभ्यत इत्यलं विस्तरेण ॥७२६॥ अथ शेषमार्गणासु प्रस्तुतोत्कृष्टपदगतवद्धयादि विषयकाल्पबहुत्वमाचष्टे
सेसासु उक्कोसा वड्ढी थोवा तओ विसेसहिआ।
परमा हाणी तत्तो णेयं तुल्लं अवट्ठाणं ॥७२७॥ (प्रे०) “सेसासु"ति भणितशेषासु मार्गणासु प्रत्येक मुत्कृष्टा वृद्धिः स्तोकाः, । ततः 'परमा'उत्कृष्टा हानिविशेषाधिका,ततस्तूत्कृष्टमवस्थानं तुल्यं ज्ञेयम् । एतासु प्रत्येकमनन्तरं सासादनमार्गणायां मतान्तरेण स्वस्थाने उत्कृष्टस्थितिबन्धस्वामित्वमपेक्ष्याऽल्पबहुन्वमुक्तं तथैव विज्ञेयम् ,प्रत्येक स्वस्थाने उत्कृष्टस्थितिबन्धस्याभिहितत्वात् ; केवलं मिश्रयोगमार्गणात्रये स्वस्थान इव मतान्तरेण शरीरपर्याप्तिनिष्ठापनादयंगपर्याप्तावस्थायाश्चरमसमयवर्तिनामप्युत्कृष्टस्थितिबन्धस्वामित्वमभिहितमेव, अतस्तत्र मतद्वयेन विलक्षणं विलक्षणमल्पबहुत्वं भवति, अतस्तास्तिस्रो मार्गणा विहाय शेपमार्गणास्वेवेदं विज्ञेयम् । शेषमार्गणास्त्विमा:-सर्वगतिमार्गणास्थानानि, तानि च सप्तचत्वारिंशत् , सर्वेन्द्रियमार्गणास्थानानि, तानि त्वेकोनविंशतिः, सर्वकायमार्गणास्थानानि. तानि पुनर्द्विचत्वारिंशत् ,पञ्चमनोयोग-पञ्चवचोयोगौ-दारिक-तन्मिश्र-वैक्रिय-तन्मिश्रा-ऽऽहारक-तन्मिश्रकाययोग-वेदत्रयी-विभङ्गज्ञान-चक्षुर्दर्शन-प्रशस्तलेश्यात्रिक-क्षायिकसम्यक्त्व-संज्ञिमार्गणास्थानानि चेति ॥७२७।। तदेवमुक्तमुत्कृष्टवृद्धयादीनामल्पबहु त्वम् । साम्प्रतं जघन्यवृद्धयादीनां तदभिधित्सुराह
वड्ढी जहण्णगा खलु हाणी य जहण्णगा अवट्ठाणं । हस्सं तुल्लाई, अह णेयं एमेव सब्बासु॥७२८॥ णवरि अवेए सुहुमे सव्वत्थोवं लहु अवहाणं ।
तो लहुहाणी तुल्ला तो सखगुणा लहू वड्ढी ॥७२९॥ (प्रे०) “वढी जहण्णगा” इत्यादि, खलुशब्दो वाक्यातङ्कतये, स च व्युत्क्रमेण 'हरसं' इत्यस्योत्तरं योज्यः, जघन्यैव जघन्यका स्वार्थे कप्प्रत्ययश्च, ततः प्रकतानां ज्ञानावरणादीनां प्रत्येक जघन्या वृद्धिर्जघन्या हानिः 'हस्वं'-जघन्यमवस्थानं च त्रीणि खलु तुल्यानि, एकैकस्य समयप्रमाणत्वात् । अथादेशतो दिदर्शयिषुः सापवादमतिदिशति-“अह णेयं एमेव सव्वासु"मिति, अथशब्द आनन्तर्ये, तत ओघप्ररूपणानन्तरमादेशप्ररूपणायां "सव्वासु" ति नरकगत्योघाधनाहारकपर्यन्तासु सर्वमार्गणासु "एमेव" ति ओघवदल्पबहुत्वं 'ज्ञेयं-ज्ञातव्यमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org