________________
मार्गणासूत्कृष्टस्थितिवृद्धयाद्यल्पबहु० ] पदनिक्षेपाधिकारेऽल्पबहुत्वद्वारम्
[ ५३९ नामनन्तरसमये मृत्वा द्वीन्द्रिय-त्रीन्द्रियादितयोत्पत्तेः । अयन्त्वसंज्ञिपञ्चेन्द्रियतयोपित्सुरिति विशुद्धप्रायः, ततश्चासौ स्वप्रायोग्यजघन्यस्थितिबन्धादभ्यर्णवर्तिनं पल्योपमाऽसंख्येयभागन्यूनसागरोपमत्रिसप्तभागादिमानं स्थितिवन्धं करोति,ततश्च्युत्वाऽनन्तरसमयेऽसंज्ञिपञ्चेन्द्रियत्वे तु सागरोपमस्य पल्योपमसंख्येयभागन्यूनसहस्रत्रयादिसप्तभागप्रमाणं स्थितिवन्धं करोति,न पुनः सागरोपमस्य परिपूर्णसहस्रत्रयादिसप्तभागमानम् , तदानीमपर्याप्तावस्थायामसंज्ञिपञ्चेन्द्रि यबन्धप्रायोग्योत्कृष्टस्थितिबन्धस्याऽसम्भवात् । इत्थश्च यथोक्तमाना स्थितिबन्धवृद्धिः प्राप्ता,सा पल्योपमसंख्येयभागप्रमाणोत्कृष्टावस्थानापेक्षया संख्येयगुणैवेति । “तत्तो परमा हाणी विसेसहिया" ति यथोक्तज्ञानावरणाद्युत्कृष्टस्थितिबन्धवृद्धयपेक्षया ज्ञानावरणादेरुत्कृष्टस्थितिबन्धहानिर्विशेषाधिका भवति । कथम् ? अस्याः पञ्वेन्द्रियाच्च्युत्वैकेन्द्रियतयोत्पद्यमानस्य परस्थाने भावात् ।
ननु परस्थाने भावादस्या उत्कृष्टहानेरूत्कृष्टवृद्ध्यपेक्षया विशेषाधिकन्वं चेद् व्यत्ययेनोत्कृष्टहान्यपेक्षया उत्कृष्टवृद्धिरेव विशेषाधिका भवतु, तस्या अपि परस्थाने एव लाभाद् , यद्वोभयोरपि परस्थाने भावाद्भपतूभयेऽप्युत्कृष्टावस्थानापेक्षया संख्येयगुणे परस्परं तुल्ये च । न चोभयोः परस्थाने लाभेऽपि विद्यते विशेषो येनोत्कृष्टवृद्धयपेक्षयोत्कृष्टहानिर्विशेषाधिका भवतीति वक्तुयुज्यते, एकेन्द्रियात्पञ्चेन्द्रि यतया, पञ्चेन्द्रियादेकेन्द्रियतया, एवं पर्याप्तत्वादपर्याप्ततपोत्पादे वाणारस्या अयोध्यामयोध्याया वाणारस्यां गच्छतामागञ्छतामिवाऽविशेषेण तुल्यान्तरस्यैव सम्भवात् ,तदपेक्षयवोत्कृष्टवृद्धिहान्योः सम्पद्यमानत्वाञ्च । यदि स्याद् द्वीन्द्रियात्पञ्चेन्द्रियतयोत्पद्यमानानामुत्कृष्टवृद्धिः, पञ्चेन्द्रियादेकेन्द्रियतयोत्पद्यमानानांचोत्कृष्टहानिः, यद्वाऽपर्याप्तैकेन्द्रियादपर्याप्ताऽसंज्ञिपञ्चेन्द्रियतयोत्पद्यमानानामुत्कृष्टवृद्धिः,पर्याप्ताऽसंज्ञिपञ्चेन्द्रियादपर्याप्तकेन्द्रियतयोत्पद्यमानानां हानिश्च,तदा परस्थाने लभ्यमानयोरप्युत्कृष्टवृद्धिहान्योः परस्परं विलक्षणत्वाद् यथोक्ताल्पबहुत्वम् किन्तु नास्ति तथा विशेष इत्यनोऽनयोः परस्परं तुल्यत्वमेव वक्तव्यम् ? इति चेद्, न, भवदुक्तविशेषाभावेऽप्येकेन्द्रियतयोत्पित्सूनामसंज्ञिपञ्चेन्द्रियाणां सर्वसंक्लिष्टप्रायःतया विशेषान्तरस्य सद्भावात् ।
किमुक्तं भवति ? एकेन्द्रियतयोपित्सवोऽसंज्ञिपन्चेन्द्रिया ह्येकेन्द्रियप्रायोग्यप्रकृतीनां बन्धकाः, ते च यद्यपि तदानीं न सर्वसंक्लिष्टाः, तथापि सर्वसंक्लेशात्किश्चिन्न्यूनसंक्लेशभाज एव, यतः सर्वसंक्लिष्टा एते नरकप्रायोग्यप्रकृतीर्वघ्नन्ति, ततः किश्चिन्मात्रविशुद्धा एकेन्द्रियप्रायोग्याः प्रकृतीर्वघ्नन्ति,ततोऽपि विशुद्ध-विशुद्धतराद्वीन्द्रियादिप्रायोग्या बध्नन्ति,यावत्सर्वविशुद्धादेवप्रायोग्या बध्नन्ति । यत उक्त शतक -'अच्चंतसंकिलिट्ठो णिरयपाओगं बंधइ त्ति, तओ विसुद्धो तिरियपाओ, तो विसुद्धो मणुयपाओगं, तओ विसुद्धो देवपाउग्गंति।' इति ।
इत्थं चैकेन्द्रियतयोपित्सवोऽसंज्ञिपञ्चेन्द्रियाः सर्वसंक्लिष्टप्रायाः सन्तः स्वप्रायोग्योत्कृष्टस्थितिमवध्नन्तोऽपि पल्योपमस्य लघुतरसंख्येयभागेन न्यूनामुत्कृष्टस्थितिं बघ्नन्ति, सा तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org