________________
५३८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासूत्कृष्टस्थितिवृद्धयाद्यल्पबहु० सासादनमार्गणायां सप्तानां ज्येष्ठा'-उत्कृष्टा वृद्धिः 'अल्पा'-सर्वस्तोका भवति । “तओ विसेसहिया हाणी परमा' ति ततः परमा हानिर्विशेषाधिका भवति, साकारोपयोगक्षयेण प्राप्यमाणत्वात् । "तत्तो तुल्लं यं" त्ति ततस्तुल्यं ज्ञेयम् । किम् ? "अवठ्ठाण" ति अवस्थानम् , उत्कृष्टपदगतानां वृद्धयादीनामल्पबहुत्वस्य प्रस्तुतत्वादुत्कष्टमवस्थानमित्यर्थः ।।७२४।।
___ अथाऽप्रशस्तलेश्यामार्गणात्रये मतद्वयेन स्वामित्वस्य प्रदर्शितत्वादल्पबहुत्वमपि तदनुसारेण प्रदिदर्शयिषुरतिदिशन्नाह
अपसत्थतिलेसासुतिण्ह गुरुपयाण अस्थि ओघब्ब ।
अप्पाबहुगं अण्णे भणन्ति निरयव्व विण्णेयं ॥७२५॥ (प्रे०) "अपसत्थे”त्यादि, अक्षरार्थस्तु सुगमः । भावार्थस्त्वयम्-अप्रशस्तलेश्यात्रये 'अपसथतिलेसासुतिण्ह गुरुपयाण ओघव्व। सामी भणंति अण्णे तिण्हं वि पगाणं निरयव्व' ||७०८।। इत्यनेन तत्तन्मते प्रस्तुतस्थितिबन्धवद्धयादिस्वामिनामप्योघवन्निरयगतिमार्गणावच्चाभिहितत्वात्तदधीनं प्रस्तुतारू पबहुत्वमपि तेन तेन मतेनौघवन्निरयगतिमार्गणावच्च लभ्यत इति तथैवाऽतिदिष्टम् । तच्च "ओघव्व" इत्यनेन ‘सत्तण्णं सव्वप्पा परमा वड्ढी तओ अवट्ठाणं । उक्कोसं अब्भहियं तो गुरुहाणी विरे.सहिया' ॥७१८॥ इत्यनया गाथया दर्शितस्वरूपं ज्ञेयम् । “निरयव्व" इत्यनेन तु 'सेसासु उक्कोसा वड्ढो थोवा तओ विसेसहिया । परमा हाणी तत्तो णेयं तुल्ल अवट्ठाणं ॥७२७।। इत्यनया गाथया वक्ष्यमाणस्वरूपमवसातव्यमिति ।।७२५||
अमणम्मि अवट्ठाणं गुरुमप्पं ताउ अत्थि संखगुणा ।
जेट्टा वड्ढी तत्तो परमा हाणी विसेसहिआ॥७२६॥ (प्रे०) "अमणम्मि” इत्यादि, न विद्यते मनो येषां तेऽमनसः'-असंज्ञिनः, तत्राऽसंज्ञिमार्गणास्थाने “अवहाणं गुरुमप्पं" ति उत्कृष्टमवस्थानम् 'अल्पं'-वक्ष्यमाणपदद्वयापेक्षया स्तोकं भवति, पञ्चेन्द्रियाणां स्वस्थान एव तत्स्वामितयोत्कृष्टस्याऽपि तस्य पल्योपमसंख्येयभागमात्रत्वसम्भवात् । असंज्ञिपञ्चेन्द्रियाणां वन्धप्रायोग्यजघन्यस्थितिबन्धापेक्षयाऽप्युत्कृष्टस्थितिबन्धस्य पल्योपमसंख्येयभागमात्रेणाधिकत्वादिति भावः । "ताउ अस्थि संखगुणा जेट्ठा वढी"त्ति तस्माज्ज्ञानावरणादीनां सप्तानामुत्कृष्टाऽवस्थानात्तेषामेव ज्ञानावरणादीनां 'ज्येष्ठा' उत्कृष्टा 'वृद्धिः'-स्थितिबन्धवृद्धिः संख्येयगुणा भवति । कुतः ? एकेन्द्रियाच्युत्वाऽसंज्ञिपञ्चेन्द्रियतयोत्पद्यमानानां परस्थाने तत्स्वामितया सागरोपमस्य किश्चिदूनसहत्रत्रयादिसप्तभागप्रमाणत्वात्तस्याः । तत्र किञ्चिदूनत्वेन पल्योपमसंख्येयभागाभ्यधिकसागरोपमत्रिसप्तादिभागा एव विज्ञेया। तथाहि-यो ह्यसंज्ञिपञ्चेन्द्रियतयोपित्सुरेकेन्द्रियः स न सर्वसंक्लिष्टः, स्वप्रायोग्यसर्वसंक्लेशवतामेकेन्द्रियाणामनन्तरसमये मृत्वा एकेन्द्रियतयैवोत्पत्तेः, अत एव नेषन्मध्यमसंक्लिष्टो मध्यमसंक्लिष्टो वा, तथाविधा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org