________________
॥ अथ तृतीयमल्पबहुत्वद्वारम् ॥ अथ क्रमप्राप्तेऽल्पबहुत्वद्वारे उत्कृष्टवृद्धयादीनामल्पबहुत्वं प्रतिपिपादयिषुरादौ तावदुत्कृष्टपदे प्रार
सत्तण्हं सव्वप्पा परमा वड्ढी तओ अबहाणं । उक्कोसं अब्भहियं तो गुरुहाणी विसेसहिया ॥७१७॥ (प्रे०) “सत्तण्ह” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकं "सव्वप्पा परमा वडे."ति अनन्तरवक्ष्यमाणपदद्वयाइल्पा, अत एव 'सल्पिा ' -सर्वस्तोका स्थितिबन्धसत्का 'परमा' -उत्कृष्टपदगता वृद्धिः, “तओ अवठ्ठाणं उक्कोसं अन्भहियं" ति 'ततः'-अनन्तरोक्तवृद्धयपेक्षया तासामेव सप्तानां प्रत्येकमुत्कृष्टमवस्थानमभ्यधिकं, विशेशाधिकमित्यर्थः । कुतः ? उच्यते, ओषचिन्तायां संवलेशवृद्धया जाता उत्कृष्टा वृद्धिरुत्कृष्टडायस्थितिप्रमाणा भवति, उत्कृष्टावस्थानं तूत्कृष्टस्थितिबन्धोत्तरं साकारोपयोगक्षयेण स्वप्रायोग्यान्तःकोटिकोटिसागरोपमप्रमाणजघन्यस्थिति बध्नतां प्राप्यते, सा चान्तःकोटिकोटिसागरोपमस्थितिर्यस्मात् स्थितिबन्धस्थानादुत्कष्टवृद्धिः क्रियते,तत्स्थितिबन्धस्थानापेक्षया बहुसागरोपमशतपृथक्त्वहीना विद्यते । ततः किम् ? ततः पूर्व उत्कृष्टवृद्धिं कुर्वता यावती स्थितिलचिता तदपेक्षयोत्कृष्टावस्थानस्वामी बहुसागरोपमशतपृथक्त्वाधिको स्थितिमुल्लङ्ग्यावस्थानं करोति,ततश्चोत्कृष्टवद्धयपेक्षयोत्कृष्टमवस्थानं विशेषाधिकं भवतीति । "तो गुरुहाणो विसेसहिअ" ति तस्मादुत्कृष्टावस्थानात् सप्तानां 'गुरुहानिः'उत्कृष्टा हानिर्विशेषाधिका भवतीत्यर्थः । कुतः ? उत्कृष्टस्थितिबन्धादूर्ध्वमेकेन्द्रियतयोत्पद्य तत्र तत्प्रायोग्यस्तोकस्थितिवन्धकरणे पल्योपमासंख्यभागन्यूनसागरोपमत्रिसप्तभागादिप्रमाणस्थितिबन्धभावेन पल्पोपमासंख्यभागन्युनसागरोपमत्रिसप्तभागादिना हीनानां त्रिंशत्सागरोपमकोटिकोटयादिस्थितिनामेकहेलया हीनभावात्, तासां चोत्कृष्टावस्थानपूर्वसमयभाविहान्यपेक्षया विशेषाधिकत्वादिति ॥७१७।।
तदेवमभिहितमुत्कृष्टपदगतानां सप्तमूलप्रकृतिसत्कवृद्धयादित्रयाणामल्पबहुत्वमोघतः । अथ तदेवादेशतः प्रदर्शयन्नाह
ओघव अस्थि काये कसायचउग-दुअणाण-अयतेसु।
अणयण-भवियेसु तहा अभविय-मिच्छेसु आहारे ॥७१८॥ (प्रे०) "ओघव्व" इत्यादि, ओघवदस्ति-भवति, उत्कृष्टपदगतवृद्धयादीनामल्पबहुत्वमिति प्रक्रमाद्गम्यते । कासु मार्गणास्त्रित्याह-"काये" इत्यादि, काययोगसामान्ये, क्रोधादिकषायचतुष्कमत्यज्ञान-श्रुताज्ञाना-ऽसंयमेषु तथाऽचक्षुर्दर्शन-भव्ययोरभव्यमिथ्यात्वयोराहारिमार्गणायां चेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org