________________
५३६ ]
बंधविहाणे मूलपडिठिइबंधो [ मार्गणासूत्कृष्ठस्थितिवृद्धयाथल्पबहु० कुतः ? प्रत्येकं मिथ्यादृष्टि भवनपत्यादिदेवानामेकेन्द्रियाणां च प्रवेशेनोत्कृष्टवृद्धयादिपदत्रयस्वामिनां सर्वथैवौधतुल्यत्वात् । उक्तं च प्रागेव स्वामिनः प्रदर्शयतामूलकृता यत्-'ओघव्व जणियव्वा कायकसाय-दुअणाण-अयतेसु । अणयण-भवियेसु तहा अभविय-मिच्छेसु आहारे' ॥६९९।। इत्थं चाल्पबहत्वमपि सर्वथौघवदेव लभ्यत इति ॥७१८॥
अथ कार्मणाऽनाहारकमार्गणयोः प्रस्तुताल्पबहुत्वमाहकम्मा-ऽणाहारसु गुरुं अवट्ठाणमप्पमत्थि तओ। वड्ढी असंखियगुणा तत्तो हाणी विसेसहिया ॥७१९॥ (प्रे०) "कम्माणाहारेसु"मित्यादि, कार्मणकाययोगा-ऽनाहारकमार्गणयोः प्रत्येकम् "गुरु अवठ्ठाणमप्पमत्थि" ति प्रस्तुतत्वादायुर्वर्जानां सप्तमूलप्रकृतीनां प्रत्येकं 'गुरु' -उत्कृष्टं स्थितिबन्धावस्थानम् 'अल्पं-स्तोकं भवति, एकेन्द्रियस्य तत्स्वामित्वेन पल्योपमासंख्येयभागमात्रत्वात् । “तओ" त्ति 'ततः'-उक्तोत्कृष्टावस्थानात् “वढी असंखियगुणा" त्ति तेषामेव सप्तानामुत्कृष्टस्थितिबन्धवृद्धिरसंख्येयगुणा भवति । सुगमम् , उत्कृष्टवृद्धेमिथ्यादृष्टिसंज्ञिपञ्चेन्द्रियस्वामिकत्वात् ,तेषां पञ्चेन्द्रियाणां तु पल्योपमसंख्येयभागादिवद्धरपि सम्भवाच्च । “तत्तो" त्ति उक्तोत्कृष्टवृद्धेः "हाणी विसेसहिय" ति उत्कृष्टा स्थितिबन्धहानिर्विशेाधिका भवति, अस्या अपि मिथ्यादृष्टिसंज्ञिपञ्चेन्द्रियस्वामिकत्वाद्विशेषाधिकता बोद्धव्या । यदि च 'उत्कृष्टवृद्धिहान्योयोरपि मियादृष्टिसंज्ञिपञ्चेन्द्रियस्वामिकत्वे कथं विपर्ययेणोत्कृष्टहान्यपेक्षयोत्कृष्टवद्धिविशेषाधिका नोक्ता, द्वेऽपि तुल्ये नोक्ते वा' इत्याशङ्का स्यात् , तदा तु सोत्कृष्टवद्धेः संक्लेशवद्धया लभ्यमानतया हानेस्तुत्कृष्टा गाः साकारोपयोगाच्यवनेन सम्पद्यमानत्वान्निवर्तनीयेति ॥७१९।।
अथ गतवेद-सूक्ष्मसम्परायसंयममार्गणयोराह
गयवेए सुहमम्मि य सव्वत्थोवा हवेज्ज उक्कोसा। हाणी तत्तो वड्ढी उक्कोसा होइ संखगुणा ॥७२०॥ णवरं अवगयवेए तिघाईणं भवे असंखगुणा।
परमा वड्ढी तत्तो तुल्लं जेड अवठ्ठाणं ॥७२१॥ (प्र०) "गयवेए" इत्यादि, अपगतवेदमार्गणायां यूक्ष्मसम्परायसंयममार्गणायां च बन्धप्रायोग्यानां ज्ञानावरणाद्यन्यतमप्रकृतीनां “सव्वत्थोवा हवेज्ज उक्कोसा हाणी" ति, निरुक्तलक्षणा उत्कृष्टपदगता स्थितिबन्धहानिः सर्वस्तोका भवेदित्यर्थः । “तत्तो" ति तस्या उत्कृष्टहानेस्तत्तज्ज्ञानावरणादीनामुत्कृष्टा वृद्धिः संख्येयगुणा भवति । “नवरं"-परमयं विशेषः; कोऽसावित्याह-"अवगयवेए" इत्यादि, अपगतवेदमार्गणायां वेदनीय-नाम-गोत्रलक्षणानां त्रयाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org