________________
बंधविहाणे मूलपयडिठिइबंधो [ जघन्यपदे वृद्धि हान्य-वस्थानस्वामि० (प्रे०) "गवर"मित्यादि, नवरं-परमपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायां च प्रत्येकम् “उवसामगो परिवडतो" ति प्रतिपतन्नुपशमकः "ठिइबंधे खलु दुइए" त्ति उपशान्तमोहगुणस्थानेऽवन्धप्राप्तानां ज्ञानावरणादिसत्कस्थितिबन्धानां सूक्ष्मसम्परायगुणस्थानादौ यः प्रथमः स्थितिबन्धस्तत उत्तीर्य तदनन्तरभाविनि द्वितीये स्थितिबन्धे, द्वितीयस्थितिबन्धं कुर्वनित्यर्थः । खलुशब्दोऽवधारणे, ततश्वोक्तद्वितीयस्थितिबन्धस्य प्रारम्भक एव, न पुनस्तदन्ये तृतीयादिस्थितिबन्धस्य प्रारम्भका अपि । कुतः ? अधोऽधो यथोत्तरस्थितिबन्धेष्वधिकाधिकतरस्थितिवृद्धेर्भावेनाऽजघन्यवृद्धरेव भावादिति । तदानीम सावुपरामकः किं करोतीत्याह- "कुणइ उ जहपणगं वुढि" ति र गममिति ।
___ अथ प्रकृतमार्गणाद्वय एव जघन्यहानेर्जघन्यावस्थानस्य च स्वामिनः प्रदर्शयन्नाह-वतो ठिइबंधे" इत्यादि, "चरमे" ति यस्योत्तरं न कदाचिदपि ज्ञानावरगादीनां स्थितिबन्धसम्भवः, तथाविधोधिकजघन्यस्थितिबन्धरूपे 'चरमे'-अपश्चिमे स्थितिबन्धे वर्तमानः, चरमं स्थितिबन्धं कुर्वनित्यर्थः, चरमस्थितिबन्धप्रथमसमये वर्तमान इति यावत् । तादृशो यः क्षपक स जघन्यां स्थितिबन्धहानि करोतीत्युत्तरार्धेऽन्वयः। “अणंतरसमये" ति अनन्तरोक्तहानिसमयादनन्तरो य उत्तरसमयः सोऽनन्तरसमयस्तस्मिन्ननन्तरसमये पूर्वसमयतुल्यस्थितिबन्धं कुर्वन् स एवानन्तरोक्तः क्षपकः "जहण्णगं खलु अवठ्ठाणं" ति जघन्यमेव जघन्यकमवस्थानं करोतीत्यर्थः । खलुशब्दः पादपूत्यै । इत्थं ह्यपोदितेऽपगतवेद-सूक्ष्मसम्परायसंयममार्गणाद्वयवर्जशेषसर्वमार्गणासु जघन्यवृद्धयादिस्वामित्वं यद्यपि सर्वथैवौघवत्प्राप्तं, तथापि तद्यातु मार्गणासूत्कृष्टस्थितिवन्ध औधिको न भवति, यासु च जघन्यस्थितिबन्ध एकेन्द्रियायोग्यो न भवति, तास्वन्यथा स्वबन्धप्रायोग्यजघन्योस्कृष्टस्थितिबन्धानुसारेण बोद्धव्यमिति ॥७१५-७१६॥ ___ तदेवं भणितमोघतआदेशतश्च जघन्यस्थितिबन्धवृद्धयादिस्वामित्वमपि । तस्मिंश्च भगिते गतं द्वितीयं स्वामित्वद्वारम् ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे चतुर्थे पदनिक्षेपाधिकारे द्वितीयं
स्वामित्वद्वारं समाप्तम् ॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only