________________
"मार्गणामूत्कृष्टस्थितिवृद्धयादिस्वामि० ] पदनिक्षेपाधिकारे स्वामित्वद्वारम्
[ १३५ मतिज्ञानादिमार्गणासु मिथ्यात्वाभिमुख इति विशेषणं स्वरूपदर्शकपरम् , अन्यत्र मनःपर्यवज्ञानपरिहारविशुद्धिकसंयमयोस्तु 'मिच्छाइगाहिमुहो' इत्यत्राऽऽदिपदग्राह्यानां तथाविधसंयम-छेदोपस्थापनसंयमाभिमुखाः' इति विशेषणानां व्यवच्छेदकपरत्वं तु व्याख्यानगम्यमिति न कुत्रचित्कस्यचिनिरोधः, प्रत्युताऽसामञ्जस्यपरिहार एवेति ।
अथोत्कृष्टावस्थानस्वामिनः प्राह-"तयणंतरं गुरुमवहाणं" ति तस्या उत्कृष्टवद्धः'अनन्ताम्'-अनन्तर समयेषु तमेव चरमसुत्कृष्टस्थितिवन्धं कुर्वन्नसावुत्कृष्टवृद्धिस्वाम्युत्कृष्टावस्थानस्वामी भवतीति भाषः । सुगमम् , मिथ्यात्यायनिमुवावस्थाभाविनां प्रत्येकस्थितिबन्धानामान्तमुहूर्तिकतमोत्कृष्टस्थितिबन्धवृद्धया जायमानस्य चरमस्थितिबन्धस्याऽपि नियमतोऽन्तमुहर्तमवस्थानादिति । अथोत्कृष्टस्थितिबन्धहानिस्वामिनमाह-"तज्जोग्ग" इत्यादि, सुगमम् , प्राग्वद् व्याख्येयमिति ।।७०५-७०६-७०७।। अथाऽप्रशस्तलेश्यामार्गणात्रये प्रागुक्तमतद्वयेन प्रस्तुतस्वामिनः प्राह
अपसत्थतिलेसासुतिण्ह गुरुपयाण अत्थि ओघन्व । सामी भणंति अण्णे तिण्हं वि पयाण निरयव्व ॥७०८॥ (प्रे०) "अपसत्थे" त्यादि, कृष्ण-नील-कपोताद्वापु तिसृष्प्रशस्तलेश्यामार्गणासु "तिण्ह गुरुपयाण" ति त्रयाणां 'गुरुपदानाम्'-उत्कृष्टपदानाम् , उत्कृष्टवृद्धयु त्कृष्टहान्युत्कृष्टावस्थानलक्षगानां प्रत्येकमित्यर्थः । प्रस्तुतत्वात्स्वामी "अत्थि ओघव्व" त्ति ओघवत् 'मज्झाहिन्तो उप यघस्से'त्यादिगाथा(६९२-६९५)चतुष्टयेनाभिहितस्वरूपो भवति । सुगमः । अथ महाबन्धकाराभिमतमाह-“सामो भगंति" इत्यादि, महावन्धकारैर्देवानां पर्याप्तावस्थायामशुभलेश्याया अरवीकृतत्वेन तन्मते केवलानां नारकाणामेवा जीवनं कृष्णादिलेश्याया अवस्थानादिति भावः ।।७०८।।
असंज्ञिमार्गणायां प्रकृतत्रिविधबन्धस्वामित्वमाह
अमणे कुणइ पणिंदी जाओ एगिदिया गुरु वडिंढ । तविवरीओ हाणि पणिंदियो चिअ अब हाणं ॥७०९॥ (प्रे०) "अमणे” इत्यादि, असंज्ञिमार्गणायां "पणिंदिया” ति एकेन्द्रियाच्च्युत्वा "पणिंदोजाओ"त्ति यः पञ्चेन्द्रियो जातः,असंज्ञिपञ्चेन्द्रियतयोत्पद्यमान इत्यर्थः । स किं करोतीत्याह-"गुरु वडिंढ" ति 'गुर्वीम् --उत्कृष्टां वृद्धिं, करोतीति पूर्वेण योग इति । “तव्विवरोओ हाणि"ति'तद्विपरीतः'-उक्तविपरीतो योऽसंज्ञिपञ्चेन्द्रियाच्च्युत्वैकेन्द्रियतयोत्पद्यमानः सः हाणिं' ति सप्तप्रकृतिसत्काप्नुकष्टां स्थितिववहानि करोतीत्यर्थः । “पणिदियो चिअ अवठ्ठाणं" ति पञ्चेन्द्रिय एवोत्कृष्टावस्थानस्वामी भवति । तत्र एव कार एकेन्द्रियादिरूपात्परस्थानात्पञ्चेन्द्रियतयोत्पद्यमानानां व्यवच्छेदार्थः, एकेन्द्रियाच्च्युत्वाऽसंज्ञिपञ्चेन्द्रियतयोत्पद्यमानो योऽनन्तरमुत्कृष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org