________________
५३० ।
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासूत्कृष्टस्थितिवृद्धपादिस्वामि मत्यादिज्ञानेषु, संयमौघ-सामायिक-छेदोपस्थापन -परिहारविशुद्धिकसंयमेषु, देशसंयमा-ऽवधिदर्शन--सम्यक्त्वौघ-क्षायोपमिकौ--पशमिकसम्यक्त्व--सासादन-सम्यग्मिथ्यात्वेष्वित्येवं समुदितासु पञ्चदशमार्गणासु प्रत्येकं “तप्पाउग्गजहण्णा दुचरमबंध" त्ति तत्तन्मतिज्ञानादिमार्गणाविच्छेदादर्वाग्भावी यश्चरमः प्रस्तुतत्वाज्ज्ञानावरणादीनामायुर्वर्जसप्तमूलप्रकृतीनां स्थितिबन्धसदपेक्षया यो 'द्विचरमः'-उपान्त्यः स्थितिबन्धः स चिरमस्थितिवन्धः, स च न सर्वेषां जीवानां तुल्य एव, किन्तु परस्परं हीनाधिकोऽपि भवति, तत्राधिकतरादिस्थितिबन्धं कुर्वतामनन्तरे चरमस्थितिवन्धे तत्र बन्धप्रायोग्योत्कृष्टस्थितिबन्धसम्भवेऽपि तेषामुन्कृष्टस्थितिवन्धवृद्धेरप्राप्तेस्तत्र जघन्येति विशेषणमुपादत्तम् । ननु विचरमस्थितिबन्धे प्रायोग्यसर्वस्तोकस्थितिबन्धं कृत्वाऽनन्तरे चरमस्थितिबन्धे प्रायोग्यसर्वाधिकस्थितिबन्धं कुर्वतामुत्कृष्टयुद्धेः सम्भवेन तावदेव पर्याप्तं स्यात् , किंपुनस्तत्र तत्प्रायोग्यत्वविशेषणेन ? इति चेत्, तत्राऽपि सर्व स्तोकस्थितिबन्धं कुर्धतामनन्तरे चरमस्थितिबन्धे तत्र बन्धप्रायोग्यसर्वाधिकस्थितिबन्धस्यासम्भवेन "गुरु चरमबंधं कुणमाणो" इत्यस्यानुपपत्तेर्न स्यादुत्कृष्ट वृद्धिस्वामित्वमित्यतो विचरमस्थितिवन्धतया प्रायोग्यस्थितिबन्धेषु सर्वस्तोकस्थितिबन्धप्रतिषेधार्थम् 'जहण्णा' इत्यत्र तत्प्रायोग्यत्वविशेषणमावश्यकमेव, तथा च चरममुत्कृष्टं स्थितिवन्धं कुर्वतामनन्तरपूर्वस्थितिबन्धतया यान्तः स्थितिबन्धविकल्पाः बन्धबायोग्यास्तन्मध्ये यः सर्वजघन्यस्थितिबन्धस्थानं तं बवाऽनन्तरोत्तरे चरमे स्थितिवन्धे बन्धपा कोमाधिकतमस्थितिबन्धं कुर्वन् जीवः "गुरुवुद्धिंढ कुणए” ति उत्कृष्टवृद्धः स्वामी भवतीत्यर्थः ।
__ अत्र मनःपर्यवज्ञानादिमार्गणादौ देवत्वाभिमुखानां मुमूर्तृणां महात्मनामपि चरम-चिरमस्थितिबन्धयोः सम्भवेन तत्र चरमस्थितिबन्धतया प्रायोग्यमधिकतमं स्थितिवन्धं कुर्वतामपि न प्रस्तुतवृद्धिस्वामित्वमिति तेगमुत्कृष्टवृद्धिस्वामित्वनिवृत्तये पुनरपि स्वामिविशेषणमाह-"मिच्छाइ. गाहिमुहो" ति तत्रादिपदात् तथाविधसंयम-छेदोपस्थापनसंयमाभिमुखानां परिग्रहः, यस्तादृशो मिथ्यात्व-तथाविधसंयमाघभिमुखः स एव प्रस्तुतवृद्धिस्वामी भवतीत्यर्थः । ननु मनःपर्यवज्ञानिनो मिथ्यात्वाभिमुखा एव न सन्तीति कथं न विरोधः ? न च मिथ्यात्वाभिमुखत्वविशेषणस्य मतिज्ञानादिमार्गणास्वेव योजनीयत्वान्नास्ति कश्चितिरोध इति वाच्यम् । मार्गणाविच्छेदादर्वाग्भाविचरमस्थितिबन्धं कुर्वतां मतिज्ञानादिमार्गणाप्रविष्टजी गनां सर्वेषामपि मिथ्यात्वाभिमुखतया तत्र तस्य निरर्थकत्वात् ? इति चेद् , सत्यम् , मतिज्ञानादिमार्गणास्थानेषु यथोक्तलक्षणे उत्कृष्टवृद्धिस्वामिनि मिथ्यात्वाभिमुखविशेषणस्य व्यर्थत्वेऽपि समुदितमार्गणास्थानेषु मतिज्ञानादिमार्गणानामेवादौ न्यस्तत्वान्मनःपर्यवज्ञानादेस्तु तत्पश्चान्यस्तत्वाच मनःपर्यवज्ञानादिमार्गणासूपयुज्यमानं विशेषणान्तरमेवादी कृत्वा 'मिच्छाहगाहिमुहो' इत्यनुक्त्वाऽन्यथैवाभिधाने स्याद् भ्रमः, यन्मतिज्ञानमार्गणादौ तथाविधसंपमाभिमुखः प्रस्तुतस्त्रानीत्यतस्तदपोहाय प्रथमतया गृहीतमार्गणायां युज्यमानं विशेषणमादौ कृत्वा 'मिच्छाइगाहिमुहो' इत्येवमेव प्रयोक्तव्यमुचितम् । एवं हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org