SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ मार्गणासूत्कृष्टस्थितिवृद्धयादिस्वामि० ] पदनिक्षेपाधिकारे स्वामित्वद्वारम् [ ५२९ अथाऽपगतवेदमार्गणायामुत्कृष्टवृद्धयादेः स्वामिनः प्रतिपादयन्नाहगयवेए से बंधे होज्ज सवेओ त्ति स परमं वडिंढ । उवसामगो कुणइ से काले परमं अवट्ठाणं ॥७०३॥ पढमा ठिइबंधाओ वट्टतो उ दुइअम्मि ठिइबंधे । स कुणइ परमं हाणिं तहेव सुहुमे वि णायव्वं ॥७०४॥ (प्रे०) “गयवेए” इत्यादि, अपगतवेदमार्गणायां "से" त्ति अनन्तरे, यस्यानन्तरे स्थितिबन्धे "हवेज्ज सवेओ" ति सवेदो भविष्यति, यः प्रपतन्नुपशमक इति गम्यते । “स परमं वडिंढ उवसामगो कुणइ” ति स सवेद्यवस्थायाः प्रागवेद्यवस्थायां द्विचरमस्थितिबन्धादुत्तीर्य चरमं स्थितिबन्धं कुर्वन्नुपशामकस्तस्य चरमस्थितिवन्यस्य प्रथमे समये 'परमाम्'-उत्कृष्टां वृद्धि करोतीत्यर्थः । “से काले परमं अवट्ठाणं” त्ति "से" त्ति प्राग्वत्तस्यानन्तरे काले, उक्तचरमस्थितिबन्धस्य द्वितीयादिसमयेषु तावन्मात्रस्थितिवन्धं कुर्वन्नित्यर्थः । “परमं"-उत्कृष्टमवस्थानम् , करोतीत्यनुवर्तत इति । उत्कृष्टावस्थानस्वामी भवतीति भावः। ___अपगतवेदमार्गणायामेवोक्तशेषाया उत्कृष्टहानेः स्वामिनः प्रदर्शयन्नाह-“पढमा ठिइबंधाओ" इत्यादि, सोऽनन्तरोक्तोपशामक एव, नवरमुपशमश्रेणिमारोहन्नवेद्यवस्थायाः प्रारम्भ क्रियमाणात् प्रथमात्स्थितिबन्धात् “वटुंतो उ दुइअम्मि ठिईबंधे” ति द्वितिये स्थितिवन्धे, द्वितीयस्थितिबन्धप्रथमममये वर्तमानः सन्नित्यर्थः । “स कुणइ परमं हाणि" ति स उपशमश्रेणिमारोहन् द्वितीयस्थितिवन्धवारम्भक उपशमकः 'परमां'-उत्कृष्टां हानि करोति, सप्तप्रकृतिमत्कस्थितिबन्धविषयामिति गम्यत एवेति । अथ सूक्ष्मसम्परायमार्गणायां बहुसाम्यादतिदिशति"तहेव सुहमे वि णायव्वं" ति सूक्ष्मसम्परायसंयममार्गणायामपि तथैव'-अपगतवेदमार्गणावदेव ज्ञातव्यं प्रकृतवृद्धयादिस्वामित्वमित्यर्थः ।।७०३-७०४।। चउणाण-संयमेसु समइअ-छेअ-परिहार-देसेसु। ओहिम्मि सम्म-वेअग-उवसम-सासाण-मीसेसु॥७०५॥ तप्पाउग्गजहण्णा दुचरमबंधा गुरु चरमबंधं । कुणमाणो गुरुवुढि कुणए मिच्छाइगाहिमुहो ॥७०६॥ तयणंतरं गुरुमवट्ठाणं तज्जोग्गजेडठिइवंधा। तज्जोग्गलहुं पत्तो सागारखयेण गुरुहाणिं ॥७०७॥ (प्रे०) “चउणाणे" त्यादि, केवलज्ञानमार्गणास्थाने स्थितिबन्धस्यैवाभावात्तद्वर्जेषु चतुर्ष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy