________________
५२८]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासूत्कृष्टस्थितिबन्धवृद्धयादिस्वामि० ग्राह्यः स्यात्, तथा चोत्ष्कृटा वृद्धिर्न सम्पद्येत । कुतः ? एकेन्द्रियप्रायोग्यस्थितिबन्धं कुर्वतामुत्कृष्टतोऽपि पल्योपमासंख्यभागमात्रस्थितिबन्धवृद्धेरेव सम्भवात् । न च द्वितियसमये 'तप्पाउग्गुकोस'मित्यनेन संज्ञिपञ्चेन्द्रियप्रायोग्योत्कृष्टस्थितिबन्धस्यैव ग्रहणेऽधिकतमा वृद्धिः सम्पद्यतेति वाच्यम् । एकजीवमाश्रित्य विग्रहगतावेकेन्द्रियादिजातिद्वयप्रायोग्यस्थितिबन्धस्यैव विरोधात । इत्थं हि कार्मणाऽनाहारकमार्गणयोर्यथोक्तस्वरूपाणां संज्ञिपञ्चेन्द्रियेभ्यः संज्ञिपञ्चेन्द्रियतयोत्पद्यमानानामेवोत्कृष्टस्थितिवन्धवृद्धिस्वामित्वं बोद्धव्यमिति । __ अधिकृतमार्गणाद्वय एवोत्कृष्टहानिस्वामिनो दर्शयन्नाह-"तज्जोग्गजेबंधा"इत्यादि, पूर्ववदनाहारकावस्थायां प्रथमसमये मिथ्यादृष्टिसंज्ञिपञ्चेन्द्रियप्रायोग्यसम्भवज्ज्येष्ठस्थितिबन्धात् “यो सागारखयेण पउिभग्गो" ति यःसाकारोपयोगक्षयेण'प्रतिभग्नः'-उक्तोत्कृष्टस्थितिबन्धाच्च्युतः, अत एवानाकारोपयोगं प्राप्त इत्यपि गम्यम् । पुनः कथम्भूतोऽसावित्याह-"तप्पाउग्गजहाणे पतिओ" ति पूर्ववदनाहारकावस्थायां सम्भवन्मिथ्यादृष्टिसंज्ञिपञ्चेन्द्रियप्रायोग्यजघन्यस्थितिबन्धे पतितः, तादृशं जघन्यस्थितिबन्धं कतु मारब्धवानित्यर्थः । “स कुणइ परमहाणिं" ति अनन्तरोक्तस्वरूपः स तथा कुर्वन् 'परमा'-उत्कृष्टां हानि करोतीत्यर्थः । निरुक्तस्वरूपाः संज्ञिपञ्चेन्द्रियजीवा अधिकृतमार्गणाद्वये सप्तानां प्रकृतीनामुत्कृष्टस्थितिबन्धहानेः स्वामिन इति भावः ।
___ अथ प्रस्तुतमार्गणाद्वय एवोत्कृ टावस्थानस्वामिनः प्रदर्शयन्नाह-तज्जोग्गजेट्ठबंधा" इत्यादि, तत्राऽनाहारक-कार्मणकाययोग्यवस्थायां कस्याऽपि त्रिसमयकायस्थितिकजीवस्य बन्धप्रायोग्यात्सम्भवज्येष्ठस्थितिबन्धादवतीर्य "गुरुहाणिं करिअ” त्ति मार्गणाया द्वितीयसमये 'गुरुउत्कृष्टां स्थितिबन्धहानि कृत्वा, तत्प्रायोग्यजघन्यस्थितिबन्धमारभ्येत्यर्थः । कोऽसावित्याह"बायरेगिंदि" ति तादृशोऽसौ बादरैकेन्द्रियजीवः ।
नन्वधिकृतोत्कृष्ट वृद्धि-हानी संज्ञिपञ्चेन्द्रियाणामेवाभिहिते, अर्थाच्छेषाणां कार्मणकाययोगिनां प्रतिषिद्धा उत्कृष्टहानिः, तत्कथं पुनर्वादरैकेन्द्रियाणामुत्कृष्टहानिरभिधीयते ? इति चेत् न, यतोऽधुनोत्कृष्टावस्थानस्वामित्वमभिघातव्यम्, तच्चोत्कृष्टहानेरूर्ध्वमवस्थाने सति सम्भवति, न चास्ति संज्ञिपञ्चेन्द्रियाणामुत्कृष्टहानेरूर्वमवस्थानम् । कुतः ? तेषामुत्कृष्टहान्यनन्तरसमये प्रस्तुतमार्गणायामेवानवस्थानात् । ततः किम् ? ततो येषां प्रकृतमार्गणायां समयत्रयमवस्थानं सम्भवति, तेषु यस्योत्कृष्टहानिलाभस्तस्येवोत्कृष्टहान्युत्तरसमयभाव्युत्कृष्टावस्थानसम्भवात् संज्ञिपञ्चेन्द्रियादीन् विहाय बादरैकेन्द्रियजीवस्यैव प्रकृतोत्कृष्टावस्थानप्रयोजिकोत्कृष्टहानिरभिहितेति न कश्चिदोषः । एतादृशः कार्मणकाययोगद्वितीयसमये उत्कृष्टहानिनिर्वतको बादरैकेन्द्रियस्तदनन्तरसमये उत्कृष्टमवस्थानं करोतीत्येतदेव दर्शयन्नाह-"कुणह अणंतरसमये” इत्यादि गतार्थमिति ॥७००७०१-७०२॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International