________________
मार्गणासूत्कृष्टस्थितिवृद्धयादिस्वामि० ] पदनिक्षेपाधिकारे स्वामित्वद्वारम्
[ ५२७ स्थानेषूत्कृष्टहानेः स्वामिनः,द्वितीयादिसमयेषु तावन्मात्रस्थितिबन्धं कुर्वन्तः पुनस्त एवौघवत् प्रकृतेऽप्युत्कृष्टावस्थानस्य स्वामिनो भवन्तीति ॥६९६-६९७-६९८॥ सर्वथा तुल्यत्वादन्यत्रौघवदतिदिशन्नाह
ओघव जाणियव्वा काय-कसाय-दुअणाण-अयतेसु।
अणयण-भवियेसु तहा अभविय-मिच्छेसु आहारे ॥६९९॥ (प्रे०) "ओघव्व" इत्यादि, ओघवज्ज्ञातव्याः, उत्कृष्टवद्धयादित्रयाणामपि पदानां स्वामिन इति तु प्रक्रमाद्गम्यते । कासु मार्गणास्वित्याह-"कायकसाये"त्यादि, काययोगसामान्ये,तथा विशेषतोऽनभिहितत्वात् क्रोधादिकषायमार्गणाचतुष्के, मत्यज्ञान-श्रुताज्ञाना-ऽसंयममार्गणासु, तथाऽचक्षुदर्शनभव्यमार्गणयोः । तथाशब्दः समुच्चयार्थः, स च भिन्नक्रमेणानन्तरमेव योजितः । अभव्य-मिथ्यात्वमार्गणयोराहारिमार्गणायामिन्येतासु त्रयोदशमार्गणासु प्रत्येकमित्यर्थः। एतासु प्रत्येकं मिथ्याग्देवजीवानामेकेन्द्रियजीवानां च समावेशाद् देवेभ्यश्च्युत्वैकेन्द्रियतयोत्पद्यमानानामौधिकोत्कृष्टहानिस्वामिनामनन्तरोक्तमार्गणानिचयवत् नाधिकृतमार्गणाबहिस्त्वापत्तिः । अर्थात् सर्वथैवौघवदुपपत्तेः प्रस्तुतत्रिविधस्वामिनोऽपि सर्वथैवौघवदतिदिष्टा इति ॥६९९।। कार्मणाऽनाहारकमार्गणयोराह
कम्मा-ऽणाहारसु तज्जोग्गलहूउ संकिलेसेणं । तप्पाउग्गुकोसं गओ स कुणए परमवडिंढ ॥७००॥ तज्जोग्गजेबंधा यो साकारक्खयेण पडिभग्गो। तप्पाउग्गजहण्णे पडिओ स कुणइ परमहाणि ॥७०१॥ तज्जोग्गजेट्टबंधा गुरुहाणि करिअ बायरेगिंदी। कुणइ अणंतरसमये उक्कोसं खलु अवट्ठाणं ॥७०२॥
(प्रे०) "कम्माणाहारेसु” इत्यादि, कार्मणकाययोगा-ऽनाहारकमार्गणास्थानयोः प्रत्येक "तज्जोगलहउ" ति सूचनात्सूत्रमिति कृत्वा प्रथमसमयक्रियमाणात् मिथ्याडक्संज्ञिपञ्चेन्द्रियाणामनुपदमुत्कृष्टस्थितिबन्धे गमनप्रायोग्याल्लघुस्थितिबन्धात् “संकिलेसेणं" ति अनन्तरसमये कार्मणकाययोगिनामुत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशेन, तादशसंक्लेशस्योत्पत्तेरिति भावः । “तपाउरगुक्कोसंगओ”त्ति पूर्ववत् कार्मणकाययोगिमिथ्यादृष्टिसंज्ञिपञ्चेन्द्रियप्रायोग्यसम्भवदुत्कृष्टस्थितिबन्धं 'गतः'-प्राप्तः “स कुणए परमवडिंड" ति स तादृशः संज्ञिपञ्चेन्द्रियजीवस्तथा कुर्वन् सप्तप्रकृतीनामधिकृतामुन्कृष्टां स्थितिबन्धवृद्धिं करोतीत्यर्थः ।
ननु 'तजोगलहूउ' इत्यनेनैकेन्द्रियप्रायोग्यजघन्यस्थितिबन्धः कथं न गृह्यते ? उच्यते, तद्ग्रहणे सत्यनन्तरोक्तेन 'तप्पाउग्गुकोस'मित्यनेनाऽप्येकेन्द्रियबन्धप्रायोग्योत्कृष्टस्थितिबन्ध एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org